अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1150, कुल 1258 में से
संदर्भ में पढ़ेंचेत् ? सम्प्रयुक्ते समाधिवैयर्थ्यम् । यत एव च कारणात् समाधिः, स्तत
एव कारणात्१ चित्तानामेकालम्बनत्वं किं नेष्यते, महाभूमिकत्वाच्च
समाधेः सर्वचित्तानामेकाग्रताप्रसङ्गः ? न; दुर्बलत्वात्समाधेः ।
चित्तान्येवैकाग्राणि समाधिः । तथा ह्यधिचित्तं शिक्षा चित्तपरिशुद्धि-
प्र...ं च सूत्रे चत्वारि ध्यानान्युक्तानीत्यपरे ।
ध्यानमिति कोऽर्थः ? ध्यायन्त्यनेनेति । प्रजानन्तीत्यर्थः । समाहित-
चित्तस्य यथाभूतप्रज्ञानात् । चिन्तनार्थो ह्येष धातुः । चिन्तनं च प्रज्ञेति
लम्बने न विक्षेपः ? अस्मिन्नालम्बने न विक्षेप इति । सम्प्रयुक्ते समाधि-
वैयर्थ्यम् । यत् प्रथमं चित्तं समाधिसम्प्रयुक्तम्, तस्मिन् सम्प्रयुक्ते समाधि-
वैयर्थ्यम् । तत्र कारित्रं समाधिर्न करोति, द्वितीये करोतीति कृत्वा । किञ्च
यत एव च कारणात् समाधिरेकाग्रतालक्षणोऽभिप्रेतः । तत एव च
कारणात् चित्तानामेकालम्बनत्वं किं नेष्यते । किं समाधिना अर्थान्तरभूतेनेति
अभिप्रायः ।
न; दुर्बलत्वात् समाधेः । न; महाभूमिकत्वात् समाधेः सद्भावात्
सर्वस्य चित्तस्यैकाग्रताप्रसङ्गः२ । यच्चित्तं दुर्बलेन समाधिना सम्प्रयुज्यते, न
तदेकाग्रं भवति । यत् पुनर्बलवता, तच्चित्तमेकाग्रमिति सत्यपि महा-
भूमिकत्वे समाधेर्न सर्वचित्तानामेकाग्रताप्रसङ्गः ।
चित्तान्येवेति विस्तरः । चित्तान्येवैकाग्राणि समाधिः । नार्थान्तरभूत
इति । तथा हि अधिचित्तं शिक्षेति । “अधिचित्तं शिक्षा कतमा ? चत्वारि
ध्यानानि” इति सर्वम् । तथा चित्तपरिशुद्धिप्रधानं चत्वार्येव ध्यानानि इत्यु-
क्तानि । लिखितमिदं सूत्रम्— “ऋद्धिपादा समाधयः” (अभि० को० ६.६९)
इत्यत्र । यथा ह्यधिशीलं शिक्षा शीलमेव, न तस्मादन्या । अधिप्रज्ञं च शिक्षा
प्रज्ञैव, न तस्या अन्या । एवमधिचित्तं शिक्षा चित्तमेव, न तस्मादन्या । न
चित्तव्यतिरिक्तसमाधिरस्तीत्यर्थः । अधिचित्तं हि शिक्षा समाधिरिष्यते ।
यथा चास्मिन्नेव सूत्रे शीलपरिशुद्धिप्रधानं विमुक्तिपरिशुद्धिप्रधानमित्युक्ते न
शीलपरिशुद्धिः शीलादन्या । एवं दृष्टिपरिशुद्धिः, विमुक्तिपरिशुद्धिश्च । तथैव
चित्तपरिशुद्धिरपि न चित्तादन्या । चित्तपरिशुद्धिर्हि चतुर्ध्यानलक्षणा-
समाधिरिति ।
१. का० पुस्तके नास्ति । २. ०काग्रता०—जा० ।
अभि० को० ४ : ७