अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1148, कुल 1258 में से
संदर्भ में पढ़ेंॐ नमो बुद्धाय
अष्टमं कोशस्थानम्
( समापत्तिनिर्देशः )
ज्ञानाधिकारेण¹ ज्ञानमयानां गुणानां कृतो निर्देशः । अन्यस्वभावानां²
तु कर्तव्य इत्यादित एव ध्यानान्यरभ्यन्ते; सर्वगुणाश्रयत्वात् ।
द्विधा ध्यानानि,
समासतो द्विविधानि ध्यानानि, उपपत्ति-समापत्तिध्यानभेदात् ।
तानि पुनः—
चत्वारि,
प्रथमं ध्यानं यावच्चतुर्थम् ।
तत्र ध्यानोपपत्तय पुनर्ने वक्तव्याः । लोकनिर्देशकोशस्थाने³ हि
प्रोक्तास्तदुपपत्तयः ।
कथं प्रोक्ताः ?
“पृथक् पृथक् ।
ध्यानं [त्रिभूमिकं तत्र चतुर्थ त्वष्टभूमिकम् ॥” ( अभि० को०
३.२ ) इति ।
अष्टमं कोशस्थानम्
सप्तमादनन्तरमष्टमस्य कोशस्थानस्योपन्यासे सम्बन्धं दर्शयन्
आह—ज्ञानाधिकारेणेति विस्तरः । ज्ञानाधिकारेण दशानां ज्ञानानामधि-
कारेण ज्ञानमयानां ज्ञानस्वभावानां प्रणिधिज्ञानाभिज्ञादीनां कृतो निर्देशः ।
अन्यस्वभावानां तु समाध्यादीनां कर्तव्यः । सर्वज्ञाश्रयत्वादिति । कामम्
आरूप्या अपि गुणाश्रया भवन्ति, न सर्वगुणाश्रयाः । ध्यानानि तु सर्व-
गुणाश्रया इति ।
“द्विधा ध्यानानि” इति । कार्यध्यानानि, कारणध्यानानि चेत्यर्थः ।
१ श्री०—का० । २. अस्य स्व०—का० ३. तृतीये कोशस्थान इत्यर्थः ।