अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1142, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] सप्तमं कोशस्थानम् १११६
बुद्धादन्यस्य निर्माणं निर्मात्रा सह भाषते । यदा च बहवो निर्मिता
भवन्ति तदा युगपद् भाषन्ते ।
एकस्य भाषमाणस्य भाषन्ते सह निर्मिताः ।
एकस्य तूष्णींभूतस्य सर्वे तूष्णीम्भवन्ति ते' ॥ ( )
इति गाथा ।
बुद्धस्य पूर्वं पश्चाद्वा यथेच्छं निर्मिता भाषन्ते ।
यदा भाषणचित्तं तदा निर्माणचित्ताभावः, निर्माणचित्ताभावा-
न्निर्मिताभाव इति कथमेनं भाषयन्ति ?
अधिष्ठायान्यवर्त्तनात् ॥ ५१ ॥
निर्माणमधिष्ठायावस्थानकामतया अन्येन चित्तेन¹ वाचं प्रवर्त्तयन्ति
॥ ५१ ॥
किं जीवित एवाधिष्ठानमनुवर्तते, अथ मृतश्चापि ?
मृतस्याप्यस्त्यधिष्ठानम्,
आर्यमहाकश्यपाधिष्ठानेन तदस्थिशङ्खलावस्थानात् । तत्तु—
नास्थिरस्य,
निर्माणचित्ताभावान्निर्मिताभाव इति । निमित्ताभावे नैमित्तिकस्याप्य-
भाव इत्यसन्तं कथमिनं निर्मितं भाषयन्तीत्यभिप्रायः ।
"अधिष्ठायान्यवर्त्तनात्" इति । निर्माणचित्तेन निर्मितं निर्माय
ततश्चाधिष्ठायावस्थानकामतया तिष्ठत्वेतदिति । ततः उत्तरकालमन्येन
विज्ञप्तिसमुत्थापकेन सवितर्कसविचारेकेण चित्तेन वाचं प्रवर्त्तयन्ति
निर्मातारः । पूर्वाभिप्रायं हि सन्ततिरनुवर्तते । पूर्वं हि तेन चेतसि
व्यवस्थापितम् — निर्माणं निर्मास्यामि, तदधिष्ठास्यामि, तद् वाचयिष्या-
मीति ॥ ५१ ॥
अवस्थाद्वयेऽधिष्ठानसम्भवात् पृच्छति — किं जीवित एवाधिष्ठान-
मित्यादि ।
आर्यमहाकाश्यपाधिष्ठानेनेति । आर्यमहाकश्यपाधिमोक्षेणे-
त्यर्थः ॥ ५२ ॥
१. मनसा — का० ।