अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1134, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] सप्तमं कोशस्थानम् १२११
वा अधराम्, नोत्तराम् । एवं दिव्यश्रोत्राभिज्ञया स्वभूमिकमेव शब्दं शृणोति
अधरभूमिकं वा, नोर्ध्वभूमिकम् । चेतःपर्यायाभिज्ञया नोर्ध्वभूमिकं चित्तं
जानाति । पूर्वनिवासानुस्मृत्या न स्मरति । च्युतोपपादाभिज्ञया न पश्यति ।
अत एवारूप्यभूमिकं चित्तं चेतःपर्यायपूर्वनिवासाभिज्ञाभ्यां न गृह्णाति;
ऊर्ध्वभूमिकत्वात् ।
कथमेता लभ्यन्ते ? अनुचिताः प्रयोगतः
लभ्याः, उचितास्तु विरागतः ।
जन्मान्तराभ्यस्ता अभिज्ञा वैराग्यतो लभ्यन्ते, वैशेषिक्यः प्रयोगतः ।
सर्वासाम् तु प्रयोगेणोत्पादनम् ।
तृतीया त्रीण्युपस्थानानि,
चेतःपर्यायाभिज्ञा त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि; चित्तचैत्ता-
लम्बनत्वात् ।
आद्यं श्रोत्रं द्विचक्षुषी ॥ ४४ ॥
'अभिज्ञा' इति वर्तते । ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञाः स्मृत्युपस्थान-
मित्यर्थः । रूपालम्बनत्वात् । ऋद्धिश्चतुर्बाह्यायतनालम्बना, अन्यत्र शब्दात् ।
दिव्यश्रोत्रचक्षुरभिज्ञे शब्दरूपायतनालम्बने ।
कथं तर्हि "च्युत्युपपादज्ञानेनैव १ अमी २ बत ३ भवन्तः सत्त्वाः काय-
कथमेता लभ्यन्त इति । प्राप्तिमधिकृत्य प्रश्नः । सम्मुखीभावस्तु
चित्तानाम् । अनुचितानां च प्रयोगत एव । अनुचिताः प्रयोगत इति ।
वैशेषिक्यो या अनुत्पादपूर्वाः । सर्वासाम् तु प्रयोगेणोत्पादनमिति । याश्च
वैराग्याल्लभ्यन्ते, याश्च प्रयोगतः, तासां सर्वासाम् ।
अन्यत्र शब्दादिति । उच्छेदित्वात् शब्दो न निर्मीयते । वक्ष्यति हि—
“कामाप्तं निर्मितं वाह्यं चतुरायतनम्” (अभि० को० ७.४९) इति ।
कथं तर्हीति विस्तरः । यदि चक्षुरभिज्ञा रूपायतनालम्बना, कथं
१. च्युतोपपाद०—का० । २. जानाति अमी—का० ।
३. का० पुस्तके नास्ति ।
अभि० को० ४ : ६