सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1137, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1137

१११४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
आसां परमार्थेन
अशैक्ष्यन्त्या,
आस्रवक्षयज्ञानसाक्षात्क्रियैवाशैक्षी विद्या।
तदाख्ये द्वे तत्सन्तानसमुद्भवात्।
अन्ये द्वे अशैक्ष्यसन्तानसम्भूतत्वादशैक्ष्यावुच्येते। नैव तु ते शैक्ष्यौ
नाशैक्ष्यौ।
किं पुनरेते अभिज्ञे शैक्ष्यस्य नोच्येते? यतः शैक्ष्यौ विद्ये नोच्येते।
इष्टे शैक्ष्यस्य नोक्ते तु विद्ये साविद्यसन्ततेः ॥ ४६ ॥
न हि साविद्यसन्ताने विद्याव्यवस्थानं युज्यते; पुनरप्यविद्या-
भिभवात् ॥ ४६ ॥
आसां चाभिज्ञानाम्
आद्या तृतीया षष्ठी च प्रातिहार्याणि,
ऋद्धिचेतःपर्यायास्रवक्षयाभिज्ञास्त्रीणि प्रातिहार्याणि यथाक्रमम्
ऋद्ध्यादेशनानुशासन-प्रातिहार्याणि। विनेयमनसामादितोऽत्यर्थं हरणात्
प्रातिहार्याणि; प्रातिशब्दयोरादिकर्मभृशार्थत्वात्। प्रतिहतमध्यस्थानां
मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा।
अशैक्षी विद्येति। अनास्रवत्वादित्यभिप्रायः। नैव तु१ ते१ पूर्वनिवास-
च्युत्युपपादाभिज्ञे न शैक्ष्यौ नाशैक्ष्यौ, सास्रवत्वात् ॥ ४६ ॥
त्रीणि प्रातिहार्याणि यथाक्रममिति। ऋद्धिविषयाभिज्ञा ऋद्धिप्रति-
हार्यम्। चेतःपर्यायाभिज्ञा आदेशनाप्रतिहार्यम्। ईदृशं ते चित्तमिति।
आस्रवक्षयाभिज्ञा अनुशासनप्रातिहार्यम्। यथाभूतोपदेश इत्यर्थः। प्रातिशब्दयो-
रादिकर्मभृशार्थत्वादिति। प्र-शब्दः आदिकर्मार्थः। इदमनेन कर्म
प्रारब्धमिति। अति-शब्दश्च भृशार्थः, अतिगत इति। तदिदमुक्तं भवति—
विनेयमनसाम् आदितः आदौ अतिभृशं हरन्त्येभिरिति प्रातिहार्यम्। प्रति-
हतमध्यस्थानामिति। नैरुक्तं२ विधिमाश्रित्योक्तम्। "वर्णागमो वर्णविपर्य-
यश्च" इति योज्यम्।
१-१. नैवर्तन्ते—जा०। २. वैयाकरणमित्यर्थः।