अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1145, कुल 1258 में से
संदर्भ में पढ़ें११२२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
नास्ति दिव्यं चक्षुः श्रोत्रं च तत्सभागं नित्यं विज्ञानसहितत्वात्, नापि
विकलम्; काणविभ्रान्ताभावात्, रूपावचरसत्त्ववत्। दूरसूक्ष्मवृतान्यपि
रूपाणि शब्दांश्च तयोर्विषयः। आह चात्र—
दूरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति।
मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते॥
कियद् दूरं पुनर्दिव्येन चक्षुषा पश्यति ? यस्य यादृशं चक्षुर्भवति।
श्रावक-प्रत्येकबुद्ध-बुद्धास्त्वनभिसंस्कारेण साहस्त्र-द्विसाहस्र-त्रिसाहस्रकान् लोक-
धातून् यथासंख्यं पश्यन्ति। ५४ ।।
अभिसंस्कारेण तु
द्वित्रिसाहस्रकासंख्यदृशोऽर्हत्खङ्गदैशिकाः ।
सर्वाभिसंस्कारेण सह श्रावकोऽपि द्विसाहस्रं लोकधातुं दिव्येन चक्षुषा
पश्यति। त्रिसाहस्रं खड्गविषाणकल्पः। बुद्धस्तु भगवानसंख्येयान् लोकधातून्
पश्यति यावदेवेच्छति।
किमृद्धिरेवोपपत्तिलाभिका भवति, अथान्यदपि ?
अन्यदप्युपपत्त्याप्तम्,
दिव्यश्रोत्रादिकमपि चतुष्टयमुपपत्तिप्रतिलब्धमस्ति¹। न तूपपत्त्याप्तं
किञ्चिदभिज्ञाख्यां लभते।
यत्तूपपत्तिप्रतिलम्भिकं दिव्यं चक्षुः,
विज्ञानसहितत्वादिति। रूपदर्शनमुखेनाभिनिहृतत्वान्नित्यं विज्ञान-
सहितमिति सभागमेव। काणविभ्रान्ताभावादिति। काणम्=आभ्यन्तर-
विकलम्। विभ्रान्तम्=केकरम्, सर्वतश्च न पश्यतीति। अर्थादुक्तं भवति—
दिव्यं चक्षुः पृष्ठतोऽपि पश्यति, पार्श्वतोऽपि पश्यति; न त्वेवमदिव्यं
चक्षुरिति ।। ५४ ।।
दिव्यश्रोत्रादिकमपि चतुष्टयमिति। आदि-शब्देन दिव्यं चक्षुः, पूर्वे-
निवासानुस्मृतिः, परचित्तज्ञानं च। एतदपि दिव्यश्रोत्रादिकं चतुष्टयम्।
उपपत्तिप्रतिलब्धमस्ति। दिव्यं चक्षुः केषामुपपत्तिप्रतिलम्भिकम् ? कामा-
वचराणां देवानाम्, अनागामिनां च रूपावचराणाम्, नारूप्यावचराणाम्।
तत्र रूपाभावाद् दृष्टिः गमनं निर्माणं च नास्ति। नापि दिव्यं श्रोत्रं
१ ०प्रतिलभ्य०—का०।