अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1140, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] सप्तमं कोशस्थानम् १११७
किं खल्वभिज्ञयैव निर्माणं निर्मीयते ? नेत्युच्यते । किं तर्हि ?
अभिज्ञाफलैः ।
निर्माणचित्तैस्तानि चतुर्दश ॥ ४९ ॥
तानि पुनश्चतुर्दश निर्माणचित्तानि ॥ ४९ ॥
यथाक्रमं ध्यानफलं द्वे यावत् पञ्च,
प्रथमध्यानफलं द्वे कामधातुप्रथमध्यानभूमिके निर्माणचित्ते । द्वितीय-
ध्यानफलं त्रीणि कामधातुप्रथमद्वितीयध्यानभूमिकानि । एवं तृतीयचतुर्थ-
ध्यानभूमिकानि चत्वारि पञ्च च योज्यानि ।
स्वभूमिकाधरभूमिकं निर्माणचित्तं ध्यानफलं वेदितव्यम् ।
नोर्ध्वजम् ।
नोर्ध्वभूमिकं निर्माणचित्तमधरध्यानफलमस्ति । द्वितीयादिध्यानफलं
कामावचरं निर्माणं प्रथमध्यानभूमिकाद् गतितो विशिष्यते ।
तल्लाभो ध्यानवत्,
तेषां च निर्माणचित्तानां ध्यानवल्लाभः ।
द्वयायतनमिति । रूप-स्प्रष्टव्यायतनम्, न गन्धरसायतनम्; समन्वा-
गमाभावादित्यभिप्रायः । न शब्दायतनम्, उच्छिन्नत्वात् । अभिघातजत्वा-
दित्यपरे । आगन्तुकत्वादित्यभिप्रायः ॥ ४९ ॥
द्वितीयध्यानफलं त्रीणीति । अधरभूमिके च द्वे, स्वभूमिकं चेति ।
चत्वारि पञ्च च योज्यानीति । तृतीयध्यानभूमिकानि चत्वारि । अधर-
भूमिकानि त्रीणि, स्वभूमिकं चेति । चतुर्थध्यानभूमिकानि पञ्च, अधर-
भूमिकानि च चत्वारि, स्वभूमिकं चेति ।
द्वितीयादिध्यानफलमिति विस्तरः । द्वितीयध्यानफलं निर्माणं
यन्निर्मात्रा निर्मितम् । प्रथमध्यानभूमिकात् निर्माणफलात् प्रथमध्यानफलाद्
गतितो विशिष्यते । तद् द्वितीयध्यानफलं निर्माणं द्वितीयां ध्यानभूमिं
गच्छति । प्रथमध्यानफलं तु तां न गच्छति, किं तर्हि ? प्रथमध्यानभूमि-
मेवेति गमनविशेषाद् विशिष्यते ।
एवं तृतीयादिध्यानफलं योज्यम् ।