सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1133, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1133

१११० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
परचित्तं हि ज्ञातुकाम आत्मनः कायचित्तयोर्निमित्तमुद्गृह्णाति—
कीदृशेऽपि मे काये कीदृशं चित्तं भवति । एवं परेषामप्याभुजतश्चित्तज्ञानादभि-
ष्पन्ना भवति । अभिनिष्पन्नायामभिज्ञायां रूपनिरपेक्षो जानाति ।
पूर्वनिवासं समनुस्मर्तुकामः समनन्तरनिरुद्धमनोविज्ञानो निमित्तमुद्गृह्य
प्रातिलोम्येन¹ अवस्थान्तराणि मनसिकरोति । यावत् सन्धिश्चित्तम् ।
ततोऽन्तराभवस्यैकक्षणं मरणोऽपि निष्पन्नो भवति । एवं परस्यापि स्मरति
अभिनिष्पन्नायां विलङ्घ्यापि स्मरणम् । अनुभूतपूर्वस्यैव स्मरणम् ।
शुद्धावासानां कथं स्मरणम् ? श्रवणेनानुभूतत्वात् । आरूप्यच्युत-
स्येहोपपन्नस्य परसन्तत्यधिष्ठानेनोत्पादनम् । अन्येषां स्वसन्तत्यधिष्ठानेन ।
ऋद्ध्यादीनां तु लघुत्वशब्दालोकमनसिकरणं प्रयोगः ॥ ४३ ॥
ताः पुनरेताः पञ्चाभिज्ञाः—
स्वाधोभूविषयाः,
यद्भूमिका ऋद्ध्यभिज्ञा भवति तां भूमिं तया गच्छति । निर्मिणोति
परचित्तं हि ज्ञातुकाम इति विस्तरः । आभुजत इति । आभोगं कुर्वतः ।
निमित्तमुद्गृह्णाति । चित्तप्रकारं परिच्छिद्येत्यर्थः । तत्प्रातिलोम्येनेति ।
तस्यैव चित्तस्य प्रतीपं समनन्तरनिरुद्धानि अवस्थान्तराणि मनसि करोति
विलङ्घ्यापि स्मरणमिति । एकं जन्म द्वे वा विलङ्घ्यापि व्यतिक्रम्यापि
स्मरणम् ।
शुद्धावासानां कथं स्मरणमिति । यद्यनुभूतपूर्वस्यैव स्मरणम्,
न हि शुद्धावासानामिहागमनमस्ति ; अनागामित्वात् तेन नैषामिहानुभूतिः ।
नापि तत्र, पृथग्जनानां तत्रानुपपत्तेः ? श्रवणेनानुभूतत्वादिति । श्रुतं हि
तेन भवति—शुद्धावासा नाम देवा एवम्भूता इति । द्विविधो ह्यनुभवः—
दर्शनानुभवः, स्मरणानुभवश्च । परसन्तत्यधिष्ठानेनोत्पादनमिति । ध्यान-
संगृहीतं पूर्वनिवासानुस्मृतिज्ञानम्, तेन चारूप्यावचरं चित्तं न गृह्णाति ।
कथं च पुनः परसन्तत्यधिष्ठानेनोत्पादनम् ? समनन्तरनिरुद्धान्मनोविज्ञानात्
परकीयं निमित्तमुद्गृह्णेति विस्तरः । अन्येषामिति । ये आरूप्येभ्यो न
प्रच्युताः, तेषां स्वसन्तत्यधिष्ठानेनैवोत्पादनम्; पूर्वनिवासानुस्मृतिज्ञानस्य
सुकरत्वात् ।
ऋद्ध्यादीनामिति । ऋद्धि-दिव्यश्रोत्र-दिव्यचक्षुरभिज्ञानां तिसृणां
यथाक्रमं लघुत्वमनसिकरणम् ऋद्धेः प्रयोगः । शब्दमनसिकरणं दिव्यश्रोत्रस्य ।
आलोकमनसिकरणं दिव्यचक्षुषः ॥ ४३ ॥
१. तत्समनन्तरप्राति०—का० ।