अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1144, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] सप्तमं कोशस्था म् ११२१ :
एषा च द्विविधा
ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा ॥ ५३ ॥
समासतः पञ्चविधामृद्धिं वर्णयन्ति—भावनाफलम्, उपपत्ति-
ताभिकम्, मन्त्रजाम्, औषधजाम्, कर्मजां च । यथा मान्धातुः, अन्तरा-
भविकानां च ॥ ५३ ॥
यदिदं दिव्यश्रोत्रमुक्तं चक्षुश्च, किमेते दिव्ये एव ? आहोस्वित् दिव्ये
इव दिव्ये, यथा बोधिसत्त्वचक्रवार्तगृहपतिरत्नानाम ?
दिव्यश्रोत्राक्षिणी,
यस्मात् ते
रूपप्रसादौ ध्यानभूमिकौ ।
ध्यानसमापन्नस्य शब्दालोकाभोगप्रयोगेण ध्यानभूमिकानि भूतान्यु-
पादायरूपप्रसादौ निर्वर्तते चक्षु श्रोत्रसामन्तके रूपशब्दयोर्दर्शनश्रवणहेतू इति
ध्यानभूमिकत्वात् दिव्ये एव ते चक्षुःश्रोत्रे ।
ते च पुनः—
सभागाऽवकले नित्यं दूरसूक्ष्मादिगोचरे ॥ ५४ ॥
चित्तवशेन वर्तन्त इति.वक्तव्यम् ? आह—निर्मातुः चित्तवशेन वर्तन्ते इति ।
यदि तर्हि नवायतनिकं निर्मीयते, इन्द्रियनिर्माणात् कथं नापूर्वसत्त्वप्रादुर्भावो
भवति ? सत्त्वसङ्ख्यातानि हीन्द्रियाणि" इति । अत आह—इन्द्रियाविनि-
र्भात्वादिति । यस्माच्चक्षुरादिभिरिन्द्रियैः पञ्चभिः स्वपरशरीरसम्बद्धं
निर्माणं रूप-रस-स्प्रष्टव्यस्वभावविनिर्भागिनावस्थितं भवत् नवायतनिक-
मित्युरुयते । न त्विन्द्रियं निर्मीयते—इत्येष सिद्धान्तः । यत् पुनस्तदेव स्वपर-
शरीरासम्बद्धं निर्मिणोति, तच्चतुरायतनिकमेव भवति ॥
यथा मान्धातुरन्तराभविकानां चेति । कर्मजाया ऋद्धेरेतदुदाहरण-
मुच्यते ॥ ५३ ॥
किमेते दिव्ये एवेति । किमयं दिव्यशब्दो मुख्यवृत्तिः, आहोस्वित्
औपचारिक इत्यभिप्रायः । यदि हि 'एते दिवि भवे दिव्ये' इत्यर्थो गृह्यते,
मुख्यवृत्तिरयं शब्दो भवति; अथ तु दिव्ये इवेति दिव्ये इति, औपचारिकः ।
यथा बोधिसत्त्व-चक्रवर्ति-गृहपतिरत्नानामिति औपचारिके दृष्टान्तं दर्शयति ।