अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1135, कुल 1258 में से
संदर्भ में पढ़ें१११२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
दुश्चरितेन समन्वागताः” इत्येवमादि ? न तत्तेन जानाति । अभिज्ञापरिवार-
ज्ञानं तु तदन्यदार्याणामुत्पद्यते येनैवं जानन्ति । अनिर्धारणाच्छेषे चतुःस्मृत्यु-
पस्थानस्वभावे इति सिद्धम् ।। ४४ ।।
अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः ।
दिव्यचक्षुःश्रोत्राभिज्ञे अव्याकृते । ते पुनश्चक्षुःश्रोत्रविज्ञानसम्प्रयुक्तप्रज्ञे ।
कथं तर्हि ते चतुर्ध्यानभूमिके सिद्धयतः ? आश्रयवशेन तद्भूमि-
निर्देशात् । तदाश्रये हि चक्षुःश्रोत्र चतुर्ध्यानभूमिके । आनन्तर्यमार्गवशेन
वा । अन्याश्चतस्रः कुशलाः । यत्तर्हि प्रकरणेषूक्तम्—“अभिज्ञा कतमा ?
कुशला प्रज्ञा” ( ) इति ? प्राधानिक एष निर्देशः, बाहुलिको वा ।
तर्हि च्युत्युपपादज्ञानेन अमी बत भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता
इत्येवमादि । न वाङ्मनस्कर्मसमन्वागमाश्चक्षुर्विज्ञानेन गृह्यन्ते । आदि-
शब्देन मिथ्यादृष्टिग्रहणम् । न तदिति । तद् वाङ्मनस्कर्मसमन्वागमादि
तेन चक्षुर्ज्ञानेन न जानाति । केन तर्हि ? इत्याह—अभिज्ञापरिवारज्ञानं तु
तदिति । मानसं तदित्यर्थः । शेषे इति । पूर्वेनिवासानुस्मृति-आस्रवक्षयाभिज्ञे ।
ते चतुःस्मृत्युपस्थानस्वभावे । कथम् ? आस्रवक्षयाभिज्ञा चतुःस्मृत्युप-
स्थानस्वभावा; दशज्ञानस्वभावत्वात् । षड्ज्ञानस्वभावत्वेऽपि कायवेदना-
चित्तस्मृत्युपस्थानान्यपि अन्यगतानि भाव्यन्ते ।। ४४ ।।
कथं तर्हि ते चतुर्ध्यानभूमिके सिद्धयतः ? न हि द्वितीयादिध्यान-
भूमिकं चक्षुर्ज्ञानं श्रोत्रज्ञानं वास्ति; चक्षुःश्रोत्रविज्ञानसम्प्रयुक्तत्वात् ।
तयोश्च द्वितीयादिषु ध्यानेषु अभावात् । वक्ष्यति हि—
“कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
द्वितीयादौ तदाद्याप्तम्” (अभि० को० ८.१३) इति ।
आश्रयवशेनेति विस्तरः । चक्षुःश्रोत्राश्रयवशेन तज्ज्ञानयोरपि
चतुर्ध्यानभूमिकत्वम् । चक्षुःश्रोत्रे चतुर्ध्यानभूमिके व्यवस्थाप्येते । प्राधानिक
एष निर्देशो बाहुलिको वेति । प्रधाने भवः प्राधानिकः । एवं बाहुलिकः ।
कुशला अभिज्ञा प्रधानभूता । अतस्तदपेक्ष्यनिर्देशः क्रियते—कुशला प्रज्ञा
अभिज्ञेति । अथवा—बाहुल्येनाभिज्ञाः कुशलाः । अत एवं निर्देश इति ।
मुद्गादिभावेऽपि माषराशिवद्व्यपदेशवत् ।।