सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

१००० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
दशोत्तरे चोक्तम्- "एको धर्म उत्पादयितव्यः-सामयिकी कान्ता
चेतोविमुक्तिः । एको धर्मः साक्षात्कर्तव्यः - अकोप्या चेतोविमुक्तिः" इति । यदि
चार्हत्त्वं सामयिकी कान्ता चेतोविमुक्तिरभविष्यत्, किमर्थं तत्रैव दशकेऽर्हत्त्वस्य
द्विग्रहणमकरिष्यत् ।
न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् । किं तर्हि ? साक्षात् कर्तव्यम् ।
मृद्विन्द्रियसंगृहीतं चार्हत्त्वमुत्पादयितव्यमिति । किमनेन ज्ञापितं भवति ? यदि
तावदुत्पादयितुं शक्यमित्यन्यदपि शक्यम् । अथोत्पादनमर्हतीति, अन्यत् सुतरा-
मर्हति । तस्मान्न सामयिकी विमुक्तिरर्हत्त्वम् ।
कथं तर्हि समयविमुक्तोऽर्हन्नुच्यते ? यस्य मृद्विन्द्रियत्वात् समयापेक्षः
समाधिसम्मुखीभावः । विपर्ययादसमयविमुक्तः । अभिधर्मेऽपि चोक्तम्- "त्रिभिः
द्विप्रकारत्वादर्हत्त्वस्य पृथग्वचनमिति वैभाषिकवचनावकाशं पश्यन् पुनराह-
यदि चार्हत्त्वमिति विस्तरः । यद्यर्हत्त्वमेव सामयिकी कान्ता चेतोविमुक्तिरभविष्यत्,
किमर्थं तत्रैव दशके न सूत्रान्तरे अर्हत्त्वस्य द्विग्रहणमकरिष्यत्-एको धर्मः
साक्षात्कर्तव्यः, अकोप्या चेतोविमुक्तिरिति । नैवाकरिष्यदित्यर्थः । एवं
ह्यावक्ष्यत्-एको धर्मः साक्षात्कर्तव्यश्चेतोविमुक्तिरिति । ब्रूयास्त्वर्हत्त्वं
द्विप्रकारम् । अतो वचनविभागेनोच्यते-एकमुत्पादयितव्यम्, द्वितीयं
साक्षात्कर्तव्यमिति ।
अत्र ब्रूमः- न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् । किं तर्हि ? साक्षात्कर्तव्य-
मिति । तत्रतत्र सूत्रे । अभ्युपेत्यापि ब्रूमः । मृद्विन्द्रियसंगृहीतं चोत्पादयितव्य-
मिति । किमनेन ज्ञापनेन ज्ञापितं कथितं भवति । यदि तावदुत्पादयितुं
शक्यमित्येतज्ज्ञापितं भवति । शकि लिङ् च (पा. सू. ३.३. ७२) इति कृत्यप्रत्यय-
लक्षणात् । अन्यदपि शक्यं यत्तीक्ष्णेन्द्रियसंगृहीतमर्हत्त्वम् । तथा च सत्येवं
सूत्रे वक्तव्यं स्यात्-एको धर्म उत्पादयितव्यः, चेतोविमुक्तिरिति । अथोत्पादन-
मर्हतीत्येतज्ज्ञापितं भवति । "अर्हे कृत्यतृचश्च" (पा. सू. ३.३.१७६) इति
लक्षणपरिग्रहात् । अन्यत् सुतरामर्हति । यत्तीक्ष्णेन्द्रियसंगृहीतमर्हत्त्वम्, तद्ध्य-
कोप्यत्वात् सुष्ठूत्पादयितुमर्हतीत्यभिप्रायः ।
कथं तर्हीति विस्तरः । यदि सामयिकी विमुक्तिरहत्त्वं भवति, एवं तद्योगात्
समयविमुक्तोऽर्हन्निति युज्यत इत्यभिप्रायः । समयापेक्षः समाधिसम्मुखीभाव

निर्देशः ] षष्ठं कोशस्थानम् १००१
स्थानैः कामरागानुशयस्योत्पादो भवति । कामरागानुशयोऽप्रहीणो भवत्यपरिज्ञातः
कामरागपर्यवस्था नीयाश्च धर्मा आभासगता भवन्ति, तत्र चायोनिशो मनस्कारः"
इति । परिपूर्णोत्पत्तिरेवमिति चेत् ? कस्य वा परिपूर्णकारणस्योत्पत्तिः ।
एवं तावदागमात् ।
२. कथं युक्तितः ? यदि तावदर्हतस्तद्रूपः प्रतिपक्ष उत्पन्नो येन क्लेशा
अत्यन्तमनुत्पत्तिधर्मतामापन्नाः, कथं पुनः परिहीयते ! अथ नोत्पन्नः, कथं
क्षीणास्रवो भवति ! अत्यन्तमनपोद्धृतायां तद्बीजधर्मतायामक्षीणास्रवो वा पुनः
कथमर्हन् भवतीत्येवं युक्तिः ।
अङ्गारकर्षूपमं तर्हि परिहार्यम्, यत्रेदमुक्तम्- "यस्य खलु श्रुतवत
आर्यश्रावकस्यैवं चरत एवं विहरतः कदाचित् कर्हिचित् स्मृतिसम्प्रमोषादुत्पद्यन्ते
पापका अकुशला वितर्काः" इति ? स हि तत्रार्हन्नेव ज्ञापितः, "दीर्घरात्र
इति । यस्मादस्य समाधिः सास्रवोऽनास्रवोऽपि वा समयमारोग्यदेशविशेषादि-
लक्षणमपेक्षते । अभिधर्मेऽपि चोक्तमिति विस्तरः । कामरागानुशयोऽप्रहीणो
भवतीत्येतदुदाहरणम् । इदं चाप्युदाहरणम्--तत्र चायोनि॒शोमनस्कार इति ।
परिपूर्णोत्पत्तिरेवमिति चेत् । स्यान्मता परिपूर्णकारणस्य क्लेशस्यैवमुत्पत्तिः,
अपरिपूर्णकारणस्य तु क्लेशस्य विषयबलादेवेति ? तद्युक्तम्, कस्माद् ? इत्याह--
कस्य वापिपरिपूर्णकारणस्योत्पत्तिरिति । कस्योत्पत्तिः ? यतः अपरिपूर्णकारणस्यो-
त्पत्तिरस्ति । यावती हि हेतुप्रत्ययसामग्री कार्यस्योत्पत्तये प्रसिद्धा, सा तदेक-
देशविकला सती तस्योत्पत्तये न भवति । तद्यथा - चक्षूरूपालोकमनस्कार-
सामग्री चक्षुर्विज्ञानस्योत्पत्तये प्रसिद्धा ।.स तदन्येतरविकला सती तदुत्पत्तये
न भवतीति तस्मान्न किञ्चिदेतत् ।
तद्रूप इति तत्प्रकारः । तत्स्वभाव इति वा । अथ नोत्पन्न इति प्रतिपक्षः ।
तद्बीजधर्मतायामिति । क्लेशबीजस्वभाव इत्यर्थः । तस्यामनपोद्धृतायामनुन्मूलि-
तायां कथं क्षीणास्रवो भवतीति । ब्रूयास्त्वम्- न भवतीति । अत आह--
अक्षीणास्रवो वा कथमर्हन् भवतीति ।
एवं चरत इति । स्मृतिमत्तश्चरत इत्यर्थः । अनन्तरं स्मृतिवचनात् । 'शैक्षः सः'
इत्यस्य वचनस्य परिहारार्थं स एव परिहाणिवाद्याह - स हि तत्रार्हन्नेव ज्ञापित
१. ० मनयो०-का० ।

१००२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
विवेकिनिम्नचित्तमुच्यते¹ यावनिर्वाणप्राग्भारम्" इति वचनात् ।
अर्हतो ह्येतद् बलमन्यत्रोक्तम्— "सर्वैरास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्ती-
भूतम्" इति चाभिधानात् ? अस्त्येतदेवम् । यावस्तु चारो न सुप्रतिबद्धस्तावदेवं
चरतोऽपि शैक्षस्यास्ति सम्भवः क्लेशोत्पत्ताविति शैक्षावस्थामधिकृत्यैवं
वचनाददोषः ।
प्रतिज्ञायते हि लौकिकमार्गप्रतिलब्धात् फलद्वयात् परिहाणिः । अर्हत्त्वादपि
तु परिहाणिं वर्णयन्ति वैभाषिकाः ।
किं पुनरिमेऽर्हन्त एव षड्गोत्रा भवन्ति ? अथान्येऽपि षड्गोत्रा भवन्ति ?
शैक्षानायाश्चि षड्गोत्राः,
शैक्षपृथग्जना अप्येवं षड्गोत्राः । तत्पूर्वकाण्येव चार्हतां गोत्राणि ।'
अपि तु—

इति । कथं कृत्वा ज्ञापितः ? इत्याह—दीर्घरात्रमिति विस्तरः । अपरिहाणि-
वादिनः स्यादेवं वचनावकाशः । शैक्षस्येदं विवेकिनिम्नचित्तमुच्यते यावनिर्वाण-
प्राग्भारमिति । अस्य परिहारार्थं परिहाणिवादी पुनराह—अर्हतो ह्येतद्बल-
मन्यत्रोक्तमिति सूत्रे । कथम् ? "कति भदन्तार्हतो भिक्षोः क्षीणास्रवस्य बलानि ?
अष्टौ शारिपुत्रार्हतो भिक्षोर्दीर्घरात्रं विवेकिनिम्नं चित्तं यावनिर्वाणप्राग्भारम् ।
अङ्गारकर्षूपमाश्चानेन कामा दृष्ट्वा भवन्ति । यथास्य कामान् जानतः कामान्
पश्यतो यः कामेषु कामच्छन्दः कामस्नेहः विस्तरेण यावत्कामाध्यवसानम्,
तन्नास्य चित्तं न पर्यादाय तिष्ठति" इति विस्तरः । किञ्च शीतीभूतं वान्तीभूत-
मिति चाभिधानात् । तत्रैवाङ्गारकर्षूपमे सूत्रेऽर्हन्नेव ज्ञापति इति ।
अस्त्येतदेवमिति । अङ्गारकर्षूपमे यदुक्तमर्हन्नेव ज्ञापित इति । यावत्तु चारो
न सुप्रतिबद्ध इति । पिण्डपातादिचारः । शैक्षावस्थामधिकृत्यैवं वचनाददोष
इति । यदेतदुक्तम्— "कदाचित् स्मृतिसम्प्रमोषादुत्पद्यन्ते पापका अकुशला
वितर्काः" इति, तच्छैक्षावस्थामधिकृत्योक्तम्, नार्हत्त्वावस्थाम् । यत्तूक्तम्—
'दीर्घरात्रं विवेकिनिम्नम्' इति, तच्छैक्षस्यापि सम्भवति । अर्हतस्तु प्रकर्षेण
भवतीति विशेषः । यच्चाप्युक्तम्—'सास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्तीभूतम्'
इति;, तदपि शैक्षावस्थामधिकृत्य सम्भवति, कामावचरास्रवस्थानीयधर्मशीती-

१. विवेकिनिम्नं चित्तं भवति-का० ।

निर्देशः ] षष्ठं कोशस्थानम् १००३
सञ्चारो नास्ति दर्शने ॥ ५८ ॥
दर्शनमार्गदन्यत्रेन्द्रियसञ्चारो भवति । प्रयोगासम्भवान्न दर्शनमार्गे । कश्चित्
पृथग्जनावस्थायामिन्द्रियाणि सञ्चरति, कश्चिच्छ्रद्धाधिमुक्तावस्थायाम् ॥ ५८ ॥
यदिदं सूत्र उक्तम्— “ये त्वनेन चत्वार आधिचैतसिका दृष्टधर्मसुखविहारा
अधिगतास्ततोऽहमस्यान्यतमान्यतमस्मात् परिहाणिं वदामि, या त्वनेनैकाकिना
यावदकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता, ततोऽहं न केनचित् पर्यायेण
परिहाणिं वदामि” इति, कथमकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिः ?
परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः ।
१. प्राप्तपरिहाणिः, यदि प्रतिलब्धात् गुणात् परिहीयते । २.अप्राप्त-
परिहाणिः, यदि प्राप्यं गुणं न प्राप्नोति । ३. उपभोगपरिहाणिः, यदि प्राप्तगुणं
न सम्मुखीकरोति ।
आसां पुनः परिहाणीनाम्—
अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा ॥ ५९ ॥
बुद्धस्योपभोगपरिहाणिरेव, नान्या । अकोप्यधर्मणः सा च, अप्राप्त-
भावाभिधानात्। अर्हत्त्वावस्थां चाधिकृत्य तथाभिधानाददोष इति आचार्यस्या-
भिप्रायः ।
प्रयोगासम्भवान् दर्शनमार्गे इति पञ्चदशक्षणो दर्शनमार्गः। तत्रेन्द्रियसञ्चारे
प्रयोगावकाशो नास्ति । कश्चित् पृथग्जनावस्थायामिन्द्रियाणि सञ्चरतीति ।
किमनित्याद्याकारपतितेन मार्गेणेन्द्रियाणि सञ्चरति, किमौदारिकाद्याकारेण
मार्गेणेन्द्रियाणि सञ्चरति, उताहो शान्ताद्याकारेणेति अविशेषितत्वादुभयथापि
सम्भवतीति पश्यामः। तथा ह्येनमर्थमाचार्यः सूचयिष्यति; 'न हि सास्रवेण
मार्गेणार्याणामिन्द्रियसञ्चारः' इत्यार्याणामिति विशेषात् । 'अपि नाम
ममेन्द्रियाणि तीक्ष्णानि स्युः' इति प्रयोगमभिसन्धाय । मार्गं लौकिकं लोकोत्तरं
चान्यस्यानन्तर्यविमुक्तिमार्गक्रमेणेन्द्रियाणि सञ्चरन्तीति वेदितव्यम् ।
कश्चिच्छ्रद्धाधिमुक्तावस्थायामित्यत्राशैक्षावचनम् । शैक्षपृथग्जनाधिकारात् ।
अशैक्षोऽपि त्विन्द्रियाणि सञ्चरतीति बोद्धव्यम् ॥५८॥
कथमकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिरिति । तीक्ष्णेन्द्रियत्वादस्य
दृष्टधर्मसुखविहारेभ्यः परिहाणिर्न सम्भवेत्, किमुताकोप्याया विमुक्तेरित्य-

१००४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
परिहाणिश्च; पुद्गलविशेषधर्माप्रापणात् । अन्यस्यार्हतः प्राप्तपरिहाणिरप्यस्ति । अत
उपभोगपरिहाणिवचनादकोप्यधर्मणः सूत्रविरोधः । सर्वस्यानास्रवा विमुक्तिर-
कोप्या । अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् । अत एतद् चोद्यमित्य-
परिहाणिवादी ॥ ५९ ॥
अथ योऽर्हत्फलात् परिहीयते किमसो पुनर्भायते ? नास्त्येतत्; यस्मात्
म्रियते न फलभ्रष्टः,
सम्भावयन् पृच्छति । बुद्धस्योपभोगपरिहाणिरेवेति । विनेयकार्यव्यापृतत्वाद्
दृष्टधर्मँसुखविहारान्नोपभुंक्ते । न सम्मुखीकरोतीत्यर्थः । सा चाप्राप्तपरिहाणि-
श्चेति । अकोप्यधर्मणः सा चोपभोगपरिहाणिः; कुतश्चिद्व्यासङ्गात् । अप्राप्ति-
परिहाणिश्च पुद्गलविशेषधर्माप्रापणात् । यस्

निर्देशः ] षष्ठं कोशस्थानम् १००५
नैव हि कश्चित् फलात् परिहीनः कालं करोति; "धन्धा भिक्षव आर्यश्राव-
कस्य स्मृतिसम्प्रमोषा, अथ च पुनः क्षिप्रमेवान्तं परिक्षयं सपदि संगच्छति" इति
सूत्रे वचनात् । अन्यथा ह्यनाश्वासिकं ब्रह्मचर्यं स्यात् ।
यतश्च फलात् परिहीयते तत्फलस्थेन यत्कार्यं
तदकार्यं करोति न ।
परिहीणोऽपि संस्तत्फलविरुद्धां क्रियां न करोति, शूरप्रस्खलनापतनवत् ।
अथेन्द्रियाणि सञ्चरतां कत्यानन्तर्यविमुक्तिमार्गा भवन्ति ?
विमुक्त्यानन्तर्यपथा नवाकोप्ये,
अकोप्यगोत्रे प्रतिविध्यमाने प्रतिवेधभावनाभ्यस्य नवानन्तर्यमार्गा
विमुक्तिमार्गाश्च भवन्ति, यथार्हत्त्वं प्राप्नुवतः । किं कारणम् ?
अतिसेवनात् ॥ ६० ॥
तस्य मृद्विन्द्रियगोत्रं भवतीति नाल्पेन व्यावर्तयितुं शक्यते; शैक्षाशैक्ष-
मार्गाभ्यां दृढीकृतत्वात् ॥ ६० ॥
दृष्टप्राप्ततायामेकैकः,
दृष्टिप्राप्तायां प्रतिविध्यमानायामेक एवानन्तर्यमार्गो भवति, एको
विमुक्तिमार्गः । प्रयोगमार्गस्तु सर्वत्रैक एव ।
ते पुनः सर्व एवानन्तर्यविमुक्तिमार्गाः
तथोक्तमिति । अत एतद्दोषमिति । यदुक्तं सूत्रमाश्रित्य कथमकोप्यधर्मणो
दृष्टधर्मसुखविहारेभ्यः परिहाणिरिति ॥ ५९ ॥
धन्धा इति मन्दाः । अन्यथा ह्यनाश्वसिकमिति । यद्यर्हत्त्वात् परिहीणः
पुनर्जायेत—
"सुचीर्णब्रह्मचर्येऽस्मिन् मार्गे चापि सुभाविते ।
तुष्ट आयुःक्षयाद्भवति रोगस्यापगमे यथा" ॥
इत्याश्वासः, एवंविधो न स्यादिति । तदकार्यमब्रह्मचर्यादिलक्षणम् । शूर-
प्रस्खलनापतनवदिति । यथा शूरस्य प्रस्खलने अपतनं भवति, शक्तित
आत्मधारणात् । तद्वदार्यः फलात् परिहीणोऽपि तत्फलमलब्ध्वा न म्रियते ।
शूरग्रहणमविह्वलत्वात् । बलवान् शूर इत्यपरे ।
कथमभ्यस्तम् ? इत्याह—शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वादिति ॥ ६० ॥
प्रयोगमार्गस्तु सर्वत्रैक एवेति । अकोप्यप्रतिवेधे, दृष्टिप्राप्यतायां च ।

१००६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अनास्रवाः,
न हि सास्रवेण मार्गेणार्याणामिन्द्रियसञ्चारः ।
क्व पुनरिन्द्रियाणि वर्धन्ते ?
नृषु वर्धनम् ।
मनुष्येष्वेवेन्द्रियसञ्चारो नान्यत्र; परिहाण्यसम्भवात् ।
कः पुनः कतमां भूमिं निश्रित्येन्द्रियाणि सञ्चरति ?
अशैक्षो नव निश्रित्य भूमीः,
अनागम्यस्थानन्तरं चत्वारि ध्यानानि, त्रीणि चारूप्याणि ।
शैक्षस्तु षट्,
आरूप्यवर्ज्यः ।
किं कारणम् ?
यतः ।। ६१ ।।
सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् ।
इन्द्रियाणि हि सञ्चरन् फलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा
तीक्ष्णेन्द्रियगोत्रं फलमार्गमेव प्रतिलभते । न चानागामिफलमारूप्यसंगृहीतमस्ती-
त्येतत्¹ कारणम् ॥ ६१ ॥
न हि सास्रवेणेति । आर्येन्द्रियसञ्चारस्य विवक्षितत्वात् । अन्यथा हि
कश्चित् पृथग्जनावस्थायामिन्द्रियाणि सञ्चरतीत्येतद्विरुष्यते ।
नान्यत्र परिहाण्यसम्भवादिति । परिहाणिभयाद्धीन्द्रियसञ्चार इष्यते ।
अन्यत्र षट्सु कामावचरेषु देवनिकायेषु रूपारूप्यधात्वोश्च परिहाणिर्नास्ती-
त्याह-ऊर्ध्वधातूपपन्न आर्यो नैवेन्द्रियाणि सञ्चरति । नापि कथंचित् परिहीयत
इति । उक्तमत्र कारणम्-कालान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वात् ।
आस्रवविशेषालाभाच्चेति । अथ कस्मात् कामावचरेषु देवेषु परिहाणिर्नास्ति ?
ये पूर्वमभ्युदारेभ्योऽपि विषयेभ्यः संविजन्तो नियतं सत्यानि पश्यन्ति, ते कथं
तानेवालम्ब्य परिहास्यन्ते ? अवश्यं हि ते तीक्ष्णेन्द्रिया भवन्तीत्यभिप्रायः ।
“अशैक्षो नव निश्रित्य” इति । तत्फलस्य नवभूमिसंगृहीतत्वसम्भवात् । फलं
१. ०मारूप्यभूमि०-का० ।

निर्देशः ] षष्ठ कोशस्थानम् १००७
त एते षडेवार्हन्तो नव भवन्ति; इन्द्रियभेदात् ।
कथं कृत्वा ?
द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः ॥ ६२ ॥
कतमे सप्त श्रावकाः ? परिहाणधर्मादयः पञ्च । अकोप्यधर्मा च द्विविधः—
उत्थापनागतः, आदितश्च तद्गोत्रः अकोप्यभेद एव । द्वौ बुद्धौ—प्रत्येकबुद्धः,
बुद्धश्च । इत्येते मृदुमृद्वादिनवप्रकारेन्द्रियभेदान्नव पुद्गला भवन्ति ॥ ६२ ॥
सर्व एव त्वार्यपुद्गलाः सप्त भवन्ति—श्रद्धानुसारो, धर्मानुसारी,
श्रद्धाधिमुक्तः, दृष्टिप्राप्तः, कायसाक्षी, प्रज्ञाविमुक्तः, उभयतोविमुक्तश्च ।
एते पुनः—
प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः ।
पुद्गलाः सप्त,
प्रयोगतः श्रद्धाधर्मानुसारिणौ; पूर्वमेव परप्रत्यधर्मानुसारिभ्यामर्थेषु प्रयोगात् ।
फलविशिष्टं चेति । फलं सकृदागामिफलम् । फलविशिष्टं प्रथमध्यानादि
प्रहाणाय प्रयोगानन्तर्यविमुक्तिविशेषमार्गलक्षणम् । फलमार्गमेव प्रतिलभत इति ।
कामधातुवैराग्यमात्रसंगृहीतम् । न चानागामिफलमारूप्यसंगृहीतमिति ।
‘पञ्चानामवरभागीयानां प्रहाणादनागामी’ इति सूत्रे वचनात्, दर्शनमार्गस्य
च तत्राभावात् । तदभावः कामधात्वनालम्बनादिति व्याख्यातमेतत् ॥ ६१ ॥
अकोप्यधर्मा च द्विविध इति । सूत्रे पठितत्वादकोप्यभेद एव । द्वौ बुद्धाविति ।
अकोप्यधर्मा मृदुमध्याधिमात्रेन्द्रियभेदात् त्रिधा भिद्यते । श्रावको ह्यकोप्य-
धर्माधिमात्रमृद्विन्द्रियः । प्रत्येकबुद्धोऽधिमात्रमध्येन्द्रियः । सम्यक्सम्बुद्धोऽधि-
मात्राधिमात्रेन्द्रिय इति । मृदुमृद्वादिनवप्रकारेन्द्रियभेदादिति । परिहाणिधर्मा
मृदुमृद्विन्द्रियो यावद्भगवानधिमात्राधिमात्रेन्द्रिय इति ॥ ६२ ॥
सप्त भवन्तीति । प्रत्येकबुद्धसम्यक्सम्बुद्धावुभयतोभागविमुक्तसंगृहीतावे-
वेति कृत्वा ।
पूर्वमेवेति विस्तरः । पूर्वमेव पृथग्जनावस्थायां परप्रत्ययेन परतः श्रुत्वा
स्मृत्युपस्थानादीन् धर्मान् पश्चादर्थेषु प्रयोगात् । चिन्ताभावनासेवनादित्यर्थः ।
तथा पूर्वमेव पृथग्जनावस्थायां प्रज्ञया द्वादशाङ्गप्रवचनधर्मानुसारेण स्वयमेवं
बोधिपक्षादीन् धर्माननुसरन्नर्थेषु प्रयोगात् । चिन्ताभावनासेवनात् । इत्येवं
प्रयोगतः श्रद्धाधर्मानुसारिणौ भवतः ।

षट् त्वेते,
द्रव्यतस्त्वेते षट् भवन्ति ।
द्वौ द्वौ मार्गत्रये यतः ॥ ६३ ॥
दर्शनमार्गे हि द्वौ पुद्गलौ, श्र द्धामनुसारिणौ । तावेव भावनामार्गे द्वौ
भवतः, श्रद्धाधिमुक्तदृष्टि प्राप्तौ । तौ पुनरशैक्षमार्गे द्वौ भवतः, समयासमायविमु-
क्ताविति । तत्रेन्द्रियतस्त्रयः, श्रद्धानुसारिणः । गोत्रतः पञ्च । मार्गन्तः पञ्चदश ।
अष्ट क्षान्तिसप्तज्ञानस्थाः । वैराग्यतस्त्रिसप्ततिः । सकलबन्धनः । कामवैराग्या-
श्रद्धाधिमोक्षप्रज्ञाधिक्यत इति । श्रद्धाधिमोक्षाधिक्यतः, प्रज्ञाधिक्यतश्च ।
श्रद्धयाधिमोक्षः, श्रद्धाधिमोक्षः, तस्याधिक्यात् मृद्विन्द्रियत्वम् । प्रज्ञाधिक्यात्
तीक्ष्णेन्द्रियत्वम् ।
विमुक्तित इति । क्लेशविमुक्तितः प्रज्ञया क्लेशाद्विमुक्तः प्रज्ञाविमुक्त इति
कृत्वा । समापत्तिविमुक्तित इति । समाप

निर्देशः ] षष्ठं कोशस्थानम् १००६
नव । एवं यावदाकिञ्चन्यायतनवैराग्यात् । आश्रयतो नव । त्रिद्वीपषड्देव-
निकायाः । इन्द्रियगोत्रमार्गवैराग्याश्रयतः पिण्डिताः¹ शतसहस्रं सम्पद्यन्ते
सहस्राणि च सप्तचत्वारिंशच्छतानि चाष्टौ पञ्चविंशतिश्च ।
एवमन्येऽपि पुद्गलाः सम्भवतः संख्येयाः ॥ ६३ ॥
भवन्ति । एवमेषां मार्गतः पञ्चदशधाभिन्नानां पुनरेकैको वैराग्यतस्त्रिसप्ततिः ।
कथम् ? सकलबन्धनस्तान कामधातावेकः, कामवैराग्यान्नव । एकप्रकारवीतरागो
यावन्नवप्रकारवीतरागः । एवं यावदाकिञ्चन्यायतनवैराग्यान्नवेति । भवाग्र-
वैराग्यान्नवेति न सम्भवति; लौकिकस्य मार्गस्य भवाग्रप्रतिपक्षस्याभावात् ।
त एतेऽष्टौ नवका द्विसप्ततिः । सकलबन्धनेन पूर्वोक्तेन सह त्रिसप्ततिर्भवन्ति ।
पुनरेते वैराग्यतः प्रत्येकं त्रिसप्ततिभिन्नाः । प्रत्येकमाश्रयतो नव । कथम् ? इत्याह
त्रिद्वीपषड्देवनिकायजा इति । त्रयो द्वीपा उत्तरकुरुवर्ज्याः, उत्तरकुरौ मार्गाभावात्
षड् देवनिकायाः कामावचराः, तत ऊर्ध्वं दर्शनमार्गाभावात् । तेषु जाता इति ।
प्रत्येकमेते नवगुणा भवन्ति । इन्द्रियगोत्रमार्गवैराग्याश्रयतः पिण्डिता इति ।
नैगमन उच्यते । इयन्त इति वृत्तौ लिखित्वा ।
एवमन्येऽपि पुद्गलाः सम्भवतः संख्येया इति । धर्मानुसारिप्रभृतयः ।
यथेन्द्रियगोत्रमार्गवैराग्याश्रयतः श्रद्धानुसारिणः संख्याताः, तथैव संख्येयाः
सम्भवत इति । धर्मानुसारिदृष्टि प्राप्तसमय विमुक्तानां गोत्रभेदो नास्ति,
श्रद्धाधिमुक्त समयविमुक्तयोस्तु गोत्रभेदोऽप्यस्तीति सम्भवत इत्युच्यते ।
तत्रेन्द्रियतस्त्रयो धर्मानुसारिणः, गोत्रत एक एवेति भेदो नास्ति । मार्गतः
पञ्चदश अष्टक्षान्तिसप्तज्ञानस्थाः । वैराग्यतस्त्रिसप्ततिः । सकलबन्धनः ।
कामवैराग्यान्नव । एवं यावदाकिञ्चन्यायतनवैराग्यात् आश्रयतो नव ।
त्रिद्वीपषड्देवनिकायजा इति । एवमिन्द्रियमार्गवैराग्याश्रयतः पिण्डिताः
सहस्राण्येकान्नत्रिंशत् सम्पद्यन्ते । शतानि च पञ्च पञ्चषष्टिश्च । एवमिन्द्रिय-
तस्त्रयः श्रद्धाधिमुक्ताः । गोत्रतः पञ्च प्रत्येकम् । वैराग्यतस्त्रिसप्ततिः प्रत्येकमेव
पूर्ववत् । आश्रयतो नव । त्रिद्वीपषड्देवनिकायजा इति । एवमिन्द्रियगोत्र-
वैराग्याश्रयतः पिण्डिताः नव सहस्राणि सम्पद्यन्ते । शतानि चाष्टौ पञ्च पञ्चा-
शच्च । केवलफलस्थो षोडशचित्तप्राप्तोऽधिकृतः ।
“श्रद्धाधिमुक्तदृष्टप्राप्तौ मृदुतीक्ष्णेन्द्रियौ तदा” (अभि० को० ६.३१)
इत्यनयोरिह विवक्षितत्वात् ।
१. पण्डिताः-का० ।

भगवद्विशेषस्त्वाह—"मार्गतो नव भवन्ति। भावनामार्गस्थत्वात्" इति।
तन्न बुद्ध्यामहे—केनाभिप्रायेणैवमुक्तमिति ! यद्ययमभिप्रायो भवेत्—मार्गतो
भूमौ भूमौ नव भवन्तीति, वैराग्यतस्त्रिसप्ततिरिति, स एवार्थो दर्शितो भवेत्
तद्व्यतिरेकादपि युक्तं स्यात्, तदेव हि परिमाणं स्यात् अथ नवभूमिकानस्रव-
भावनामार्गस्थत्वान्नवत्वमेषां व्यवस्थाप्येत ? तथा सति तत्परिमाणं पुनर्नव-
गुणीक्रियेत । एतावन्तश्च भवेयुरकाशीतिसहस्राणि, शतानि च षट्, पञ्च-
नवतिश्चेत्येवमुत्तरत्रापि वक्तव्यम् । यदि तु श्रद्धाधिमुक्त आ वज्रोपमात्
समाधेर्गृह्येत, ततोऽन्यथा गणयितव्यम्—इन्द्रियतस्त्रयः श्रद्धाधिमुक्ताः, गोत्रतः
पञ्च प्रत्येकम्, वैराग्यत एकाशीतिः, त्रिसप्ततौ भवाग्राष्टप्रकारवीतरागानष्टावधि-
कान् प्रक्षिप्य, आश्रयत एकान्नत्रिंशत् । कथम् ? कामधातौ नवोपपत्तिस्थानानि,
रूपधातौ षोडश स्थानानि, चत्वारश्चारूप्या इति । एवमिन्द्रियगोत्रवैराग्याश्रयतः
पिण्डिता सहस्राणि पञ्चत्रिंशत्, शते च द्वे पञ्चत्रिंशच्चेति । दृष्टिप्राप्तस्य
गोत्रभेदो नास्ति । इन्द्रियवैराग्याश्रयतः पिण्डिताः सहस्रं सम्पद्यन्ते शतानि च
नव, एका सप्ततिश्च । यदि त्वा वज्रोपमात् समाधेर्दृष्टिप्राप्तो गृह्यते, तत एवं
संख्यातव्याः—इन्द्रियवैराग्याश्रयतः पिण्डिताः सप्तचत्वारिंशदधिकानि सप्त
सहस्राणि सम्पद्यन्ते । काय साक्षी श्रद्धाधिमुक्त-दृष्टिप्राप्तयोरन्तर्भूत इति न
गण्यते । यदि पुनर्गण्यते, इन्द्रियतस्त्रयः । यदि श्रद्धाधिमुक्तः स कायसाक्षी,
गोत्रतः पञ्च । यदि दृष्टिप्राप्तः, नास्ति गोत्रभेदः । मार्गतः उभयोःपि नास्ति
भेदः । आकिञ्चन्यायतनबीतरागत्वात् वैराग्यतोऽपि नास्ति भेदः । यद्यपि
भवाग्रे सकलबन्धन¹ एकप्रकारवीतरागो यावदष्टप्रकारवीतराग इति । मार्गतो
वैराग्यतो वास्ति भेदः । न तु मार्गवैराग्यकृतं कायसाक्षित्वमिति नास्य तत्कृत-
स्तद्भेदो व्यवस्थाप्यते ।
आश्रयतो वा बहुधा भेदः । कामावचराश्रयत्वात् यावद्द्वाग्राश्रयत्वादिति
भगवद्विशेषः ।
कथमाकाशानेन्त्यायतनाद्याश्रयः कायसाक्षी भवति ? एवं तु युक्तं पश्यामः
आश्रयतः पञ्चविंशति , कामधातौ नवोपपत्तिस्थानानि, रूप धातौ च षोडश
स्थानानीति । तत्र ह्यार्यो निरोधसमापत्तिमूत्पादयेत् । यदि तु कामरूपाश्रयो-
त्पादितनिरोधसमापत्तियोगात् कायसाक्षीभूतस्यानागामिनः ? तत्समन्वागम-
मात्रप्रयोगात् पश्चादपि भवाग्राश्रयं कायसाक्षित्वमिष्येत । भवाग्रं षड्विंशतितम
आश्रयः स्यादित्यवगन्तव्यम् ।


१. ॰बन्दनः—जा० ।

निर्देशः ] षष्ठं कोशस्थानम् १०११
कोऽयमुभयतोभागविमुक्त इत्युच्यते ? कश्च प्रज्ञाविमुक्तः ?
निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः ।
यो निरोधसमापत्तिलाभी स उभयतोभागविमुक्तः; प्रज्ञासमाधिबलाभ्यां
क्लेशविमोक्षावरणविमुक्तत्वात् । इतरः प्रज्ञाविमुक्तः; प्रज्ञाबलेन केवलं क्लेशावरण-
विमुक्तत्वात् ।
यदुक्तं भगवता—
“क्लेशान् प्रहायेह हि यस्तु पञ्च अहार्यधर्मा परिपूर्णशैक्षः” इति ।
कियता परिपूर्णः शैक्षो भवति ?
समापत्तीन्द्रियफलैः पूर्णः शैक्षोऽभिधीयते ॥ ६४ ॥
त्रिविधा शैक्षस्य परिपूरिः—फलतः, इन्द्रियतः, समापत्तितश्च । फलत
एव—श्रद्धाधिमुक्तस्याकायसाक्षिणोऽनागामिनः । इन्द्रियत एव—दृष्टिप्राप्तस्यावीत-
रागस्य । फलेन्द्रियतः—दृष्टिप्राप्तस्य कायसाक्षिणोऽनागामिनः । फलसमापत्तितः—
एवमिन्द्रियगोत्राश्रयतः परिगण्य गणयितव्यः । प्रज्ञाविमुक्तस्यापि भेदः
इन्द्रियतस्त्रयः प्रज्ञाविमुक्तः । गोत्रतः पञ्च । यदि समयविमुक्तः, अथासमय-
विमुक्ता नास्ति भेदः ।
एवमुभयतोभागविमुक्तोऽपि योजयितव्यः ॥ ६३ ॥
प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वादिति । प्रज्ञाबलेन क्लेशा-
वरणविमुक्तत्वात्, समाधिबलेन च विमोक्षावरणविमुक्तत्वात् । विमोक्षाः
पुनरष्टौ वक्ष्यन्ते । रूपी रूपाणि पश्यतीति विस्तरः । तत्र क्लेशावरणमिति ।
क्लेशा एवावरणम् । विमोक्षावरणमिति विमोक्षाणामावरणम् । तत्पुनः काय-
चित्तयोरकर्मण्यता, यया विमोक्षानुत्पादयितुं न शक्नोतीति ।
क्लेशान् प्रहायेह हि यस्तु पञ्चेति । पञ्चावरभागीयानि संयोजनानि
सत्कायदृष्ट्यादीन्युक्तानि । अहार्यधर्मेत्यपरिहाणिधर्मेत्यर्थः ।
फलत एवेति विस्तरः । श्रद्धाधिमुक्तत्वान्नेन्द्रियतः परिपूर्णत्वम् । अकाय-
साक्षित्वान्न समापत्तितः । अनागामित्वात् तु फलतः परिपूर्णत्वमस्ति । इन्द्रियत
एवेति । दृष्टिप्राप्तत्वाद्विन्द्रियतः परिपूर्णत्वम् । अवीतरागत्वात् तु न फलतो
नापि समापत्तितः; अनागामिफलसमापत्त्योरभावात् । एवमन्येषामपि सम्भवतो

१०१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
श्रद्धाधिमुक्तस्य कायसाक्षिणः । फलेन्द्रियसमापत्तिः--दृष्टिप्राप्तस्य कायसाक्षिणः ।
समापत्तित एव समापत्तांन्द्रियतश्च परिपूर्णत्वं नास्ति विना फलेन ॥ ६४ ॥
अशैक्षपरिपूर्णत्वं द्वाभ्याम्,
इन्द्रियतः, समापत्तिश्च । फलेन स्वपरिपूर्णस्याशैक्षत्वमेव नास्तीति नास्य
पुनः फलेन परिपूर्णापरिपूर्णत्वं व्यवस्थाप्यते । इन्द्रियत एव—असमयविमुक्तस्य
प्रज्ञाविमुक्तस्य । समापत्तित एव—समयविमुक्तस्योभयभागविमुक्तस्य । इन्द्रिय-
समापत्तिभ्याम्—असमयविमुक्तस्योभयतोभागविमुक्तस्य ।
बहव इमे मार्गभेदा उक्ताः--लौकिक लोकोत्तर-दर्शन-भावनाऽशैक्षमार्गाः
प्रयोगानन्तर्यविमुक्तिविशेषमार्गा इति । कतिविध एष समास्तो मार्ग इति ?
मार्गः समासतः ।
विशेषमुक्त्यानन्तर्यप्रयोगाख्यश्चतुर्विधः ॥ ६५ ॥
१. प्रयोगमार्गः, यस्मादनन्तरमानन्तर्यमार्गोत्पत्तिः । २. आनन्तर्यमार्गः,
येनावरणं प्रजहाति । ३. विमुक्तिमार्गः, यस्तत्प्रहेयावरणविनिर्मुक्तः प्रथमत¹
उत्पद्यते । ४. विशेषमार्गः, य एभ्योऽन्यो मार्गः ।
योज्यम्। समापत्तित एवेति । समापत्तित एव परिपूर्णत्वं नेन्द्रियफलाभ्यामिति
नास्त्येतत् । कस्मात् ? न ह्यसत्यामनागामिफलप्राप्तौ निरोधसमापत्तिरस्ति ।
समापत्तीन्द्रियतश्च विना फलेनेति । समापत्तीन्द्रियत एव च परिपूर्णत्वं न
फलत इत्येतदपि नास्ति । यस्मादनागामिफलमप्राप्तस्य निरोधसमापत्तिर्ना-
स्तीति ॥ ६४ ॥
इन्द्रियतः समापत्तिश्चेति । तीक्ष्णेन्द्रियतया निरोधसमापत्तिलाभतया
चेत्यर्थः । इन्द्रियत एवेति विस्तरः । असमयविमुक्तस्येति वचनात् । अस्येन्द्रियतः
परिपूर्णत्वम्; प्रज्ञाविमुक्तस्येति वचनात् । न समापत्तितोऽस्य परिपूर्णत्वम् ।
अनिरोधसमापत्तिलाभी हि प्रज्ञाविमुक्त इत्युक्तम् । समापत्तित एवेति; समय-
विमुक्तस्येति वचनात् । नेन्द्रियतः परिपूर्णत्वमस्य भवति; उभयतोभागविमुक्त-
स्येति वचनात् । समापत्तितोऽस्य परिपूर्णत्वम् । निरोधसमापत्तिलाभीत्यु-
भयतोभागविमुक्त इत्युक्तम् । इन्द्रियसमापत्तिभ्याम् । किम् ? परिपूर्णत्वम् ।
असमयविमुक्तत्वादिनिद्रियतः उभयतोभागविमुक्तत्वात् समापत्तित इति दर्शयति ।
१. तत्प्रथमतः-का० ।

कस्मात् मार्ग इत्युच्यते ? एष हि निर्वाणस्य पन्थाः; तेन^१ तद्गमनात् ।
निर्वाणं मार्गयन्त्यनेनेति वा ।
विमुक्तिविशेषमार्गयोः कथं मार्गत्वम् ? तज्जातीयाधिमात्रतरत्वाद्^२,
उत्तरोत्तरप्रापणात् , निरुपधिशेषप्रवेशाद् वा ॥ ६५ ॥
आनन्तर्यमार्गो येनावरणं प्रजहातीति । अप्रहाणमार्गसम्भवात् । अस्ति स
आनन्तर्यमार्गो येनावरणं न प्रजहाति । इन्द्रियसञ्चारादिषु । यस्तत्प्रहेयावरण-
निर्मुक्तः प्रथमत इति । य आनन्तर्यमार्गप्रहेयेणावरणेन निर्मुक्तः । प्रथमत इति
विशेषणम् । यस्मात् तृतीयादिषु क्षणेषु तज्जातीयो मार्गो विशेषमार्ग इतीष्यते ।
तेन एव चाह—विशेषमार्गों य एभ्योऽन्यो मार्ग इति । प्रयोगमार्गादिभ्योऽन्य
इत्यर्थः । किञ्च-- यदि प्रथमत इति न ब्रूयात्, विमुक्तिमार्गो यस्तत्प्रहेयावरण-
निर्मुक्त इत्येतावद् ब्रूयान् । एवं सति दुःखधर्मज्ञानात् परेण सर्वे आनन्तर्य-
मार्गाद्यस्तत्प्रहेयावरणनिर्मुक्ता उत्पद्यन्त इति सर्वे विमुक्तिमार्गाः स्युः । अनिष्टं
चैतत्; आनन्तर्यमार्गादिष्वपि विमुक्तिमार्गप्रसङ्गात् । तस्मादानन्तर्यमार्गस्य
दुःखधर्मज्ञानक्षान्त्यादेर्यत् प्रहेयमावरणम्, दुःखदर्शनप्रहातव्यो निकायो
यावद्भावनाप्रहातव्यः, तेन प्रहेयावरणेन निर्मुक्तो यः प्रथमत उत्पद्यते स
विमुक्तिमार्गः । नान्यस्तत्प्रहेयावरणनिर्मुक्तत्वेऽपीति । य एभ्यः प्रयोगमार्गा-
दिभ्यस्त्रिभ्योऽन्यः स, विशेषमार्गः । षोडशान्मागौन्वयज्ञानक्षणात् परेण
सप्तदशादयस्तज्जातीया येऽनास्रवाः क्षणाः, ते विशेषमार्गस्वभावा इत्यव-
गन्तव्यम् । एवमन्यदपि विमुक्तिज्ञानं यत्प्राकर्षिकं क्षयज्ञानादि, तदपि
वक्तव्यम् । यश्च दृष्टधर्मसुखविहाराय वैशेषिकगुणाभिनिर्हाराय वा मार्गः,
सोऽपि विशेषमार्ग एव प्रयोगमार्गः, यस्मादानन्तर्यमार्गोत्पत्तिरित्युक्तम् । अतो
लौकिका अग्रधर्माः प्रयोगमार्ग इति गम्यते । यस्तु प्रतिलोमतः क्षान्त्यादिमार्गः,
स कस्मिन्नन्तर्भवतीति वक्तव्यम् ? आह—प्रयोगमार्ग एवान्तर्भवति । विप्रकृष्ट-
स्त्वसौ प्रयोगमार्ग इत्ययं तस्याग्रधर्मेभ्यो विशेषः । उदाहरणार्थत्वाच्चाचार्येण
सन्निकृष्ट एव प्रयोगमार्ग उक्त इति ।
एष हि निर्वाणस्य पन्थाः । तेन तद्गमनादिति । लोके येन गम्यते स माग
इति प्रतीतः । अनेन च निर्वाणं गम्यते प्राप्यते, तस्मान्मागं इति दर्शयति ।
मार्गयन्त्यनेन वेति । "मार्गोऽन्वेषणे" इति धातुः पठ्यते । तस्यैद् घञि रूपं
मार्ग इति । येन निर्वाणमन्विष्यते स मार्ग इति ।
१. एतेन—का० । २. तज्जातीयादधि०—का० ।
अभि० को० ३ : १७

१०१४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गल-
मार्ग एव पुनः प्रतिपदुक्तः; निर्वाणप्रतिपादनात् । चतस्रः प्रतिपदः—
अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा, अस्ति दुःखा क्षिप्राभिज्ञा । एवं सुखापि
द्विविधा । तत्र—
ध्यानेषु मार्गः प्रतिपत्सुखा,
चतुर्ध्यानेषु मार्गः सुखा प्रतिपद्; अङ्गपरिग्रहणाशमथविपश्यनासमताभ्या-
मयत्नवाहित्वात् ।
दुःखाऽन्यभूमिषु । • •
अन्यास्वनागम्यध्यानान्तरारूप्यभूमिषु मार्गो दुःखा प्रतिपद्; अङ्गापरिग्रहात्,
शमथविपश्यनान्यूनत्वाच्च यत्नवाहित्वात् । शमथन्यूने ह्यनागम्यध्यानान्तरे
विपश्यनान्यूना आरूप्या इति ।
विमुक्तिविशेषमार्गयोः कथं मार्गत्वमिति । न हि ताभ्यां निर्वाणं प्राप्यते ।
प्रयोगानन्तर्यमार्गयोरेव तत्प्राप्तौ सामर्थ्यान्न तयोरिति अभिप्रायः । तज्जातीया-
धिमात्रतरत्वादिति । प्रहाणमार्गजातीयौ चालम्बनाकारानास्रवत्वसादृश्यात् ।
अधिमात्रतरौ च हेतूपचयतः । यथा ह्यानन्तर्यमार्गश्चतुःसत्यालम्बनषोडशा-
कारोऽनास्रवश्च, एवं विमुक्तिविशेषमार्गावपि। अधिमात्रतरत्वेनैव तु तस्माद्विशेष
इति । उत्तरोत्तरापणात् । निरुपधिशेषप्रवेशाद्वेति । यस्माद्विमुक्तिमार्गेण विशेष-
मार्गेण च उत्तरोत्तरो मार्गः प्राप्यते, तस्मादनयोर्मार्गत्वमित्यर्थः । यस्माद्वा
ताभ्यां निरुपधिशेषं निर्वाणं प्रविशति यदुत्पत्तौ निरुपधिशेषनिर्वाणप्रवेश
इति ।
अपरे पुनरेवं व्याचक्षते—उत्तरोत्तरप्रापगान्निरुपधिशेषप्रवेशः, तस्मा-
दनयोर्मार्गत्वमिति ॥ ६५ ॥
निर्वाणप्रतिपादनादिति । यस्मादनेन निर्वाणं प्रतिपद्यत इत्यर्थः । एवं
सुखापि द्विविधेति । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा, अस्ति सुखा क्षिप्राभिज्ञेति ।
अङ्गपरिग्रहणाशमथविपश्यनासमताभ्यामयत्नवाहित्वादिति । अङ्गैः परिग्रहः ।
शमथविपश्यनयोः समत्वम् । अङ्गपरिग्रहश्च शमथविपश्यनासमत्वं च, ताभ्याम-
यत्नवाहित्वम् । तस्मात्सुखा प्रतिपत् । यस्मादङ्गपरिगृहीतानि ध्यानानि शमथ-
विपश्यनाभ्यां समानि च, तस्मादयत्नवाहीनि । अतश्च सुखासौ प्रतिपदिति ।
१. ०परिग्रहशमथ०-का० ।

सा पुनर्द्विविधापि प्रतिपत्—
धन्धाभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु ॥ ६६ ॥
मृद्विन्द्रियस्य सुखा दुःखा वा प्रतिपद्धन्धाभिज्ञा, तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा ।
धन्धाभिज्ञा अस्यां प्रतिपदि सेयं धन्धाभिज्ञा । एवं क्षिप्राभिज्ञा । धन्धस्य
वा पुद्गलस्येयमिति धन्धाभिज्ञा ।
पुनरप्येष मार्गो बोधिपक्ष्याख्यां लभते । सप्तत्रिंशद् बोधिपक्षा धर्माः—
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः,
पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्ग इति ॥ ६६ ॥
अङ्गापरिहादिति विस्तरः । अङ्गापरिहादनागम्यध्यानान्तरा रूप्या यत्नवाहिनः ।
शमथविपश्यनान्यूनत्वाच्च सम्भवतस्ते यत्नवाहिनः ; शमथन्यूनत्वादनागम्यं
ध्यानान्तरे यत्नवाहिनी ;

१०१६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
तत्र—
अनुत्पादक्षयज्ञाने बोधिः,
क्षयज्ञानमनुत्पादज्ञानं च । पुद्गलभेदेन तिस्रो बोधय उच्यन्ते—श्रावक-
बोधिः, प्रत्येकबोधिः, अनुत्तरा सम्यक्सम्बोधिरीति; अशेषाविद्याप्रहाणात् ।
ताभ्यां स्वार्थस्य यथाभूतं कृतापुनःकर्तव्यतावबोधाच्च ।
तादनुलोम्यतः ।
सप्तत्रिंशत् तु तत्पक्षाः²,
बोधेरनुलोमत्वाद् बोधिपक्षाः सप्तत्रिंशदुत्पद्यन्ते ।
नामतो द्रव्यतो दश ॥ ६७ ॥
दश द्रव्याणि सर्वे बोधिपक्षाः ॥ ६७ ॥
अशेषाविद्याप्रहाणादिति । यस्मादशेषत्रैधातुक्यविद्याप्रहाणम्, तस्मादुभे'
बोधिः । अनेन शैक्षपृथग्जनानां प्रज्ञा न बोधिर्व्यवस्थाप्यत इति दर्शयति । कथं
च यथाक्रमम् ? ताभ्यां स्वार्थस्य यथाभूतं कृतापुनःकर्तव्यतावबोधाच्च । क्षयज्ञानेन
यथाभूतं कृतावबोधात् तत्क्षयज्ञानं बोधिः । 'दुःखं मे परिज्ञातम्' इति यथाभूतं
प्रजानाति, 'समुदयो मे प्रहीणः' इति, निरोधो मे साक्षात्कृतः', 'मार्गो मे
भावितः' इति यथाभूतं प्रजानातीति । अनुत्पादज्ञानेन यथाभूतमपुनःकर्तव्यमिति ।
'मार्गो मे भावितो न पुनर्भावयितव्यः' तदनुत्पादज्ञानमपि बोधिः । 'दुःखं
मे परिज्ञातं न पुनः परिज्ञातव्यम्' इति यथाभूतं प्रजानाति, 'समुदयो मे
प्रहीणो न पुनः प्रहातव्यः' इति, 'निरोधो मे साक्षात्कृतो न पुनः साक्षात्-
कर्तव्यः' इति, 'मार्गो मे भावितो न पुनर्भावयितव्यः' इति यथाभूतं प्रजा-
नातीति । 'दुःखं मे परिज्ञातम्' इत्यनेन क्षयज्ञानम्, 'न पुनः परिज्ञातव्यम्'
इत्यनेनानुत्पादज्ञानम्—इत्युभयमपि तीक्ष्णेन्द्रियस्य पुद्गलस्य दर्शयतीति सर्वं
नेयम् ।
तदेवं क्षयज्ञानमनुत्पादज्ञाने च बोधिरित्यस्यार्थं प्रसाध्य समुच्चयार्थं
प्रसाधयन्नाह—'तादानुलोम्यतः सप्तत्रिंशत्तु तत्पक्षाः' इति । तत्रेह बोधेरनु-
लोमस्तदनुलोमः, तद्भावस्तादानुलोम्यम्; तस्मात् तादानुलोम्यतो बोधिपक्षाः।
बोधिशब्देन सांवेगोऽनुलोम इति बोधिपक्षाः स्मृत्युपस्थानादयः सप्तत्रिंशदुच्यन्ते
प्रवचने पु...
१. यथाभूत०-का० ।

निर्देशः ] षष्ठं कोशस्थानम् १०१७
कतमानि दश ?
श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रोत्युपेक्षणे ।
प्रश्रब्धिशीलसङ्कल्पाः,
इत्येतानि दश द्रव्याणि ।
कथं कृत्वा ?
प्रज्ञा हि स्मृत्युपस्थितिः ॥ ६८ ॥
वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः ।
प्रज्ञावीर्यसमाधिस्वभावा हि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः । अत
इन्द्रियाणि तावद् बलानि च नामग्राहिकया श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाद्रव्याणि पञ्च ।
स्मृत्युपस्थानानि धर्मप्रविचयसम्बोध्याङ्गं सम्यग्दृष्टिश्च प्रज्ञैव । सम्यक्प्रहाणानि
दश द्रव्याणीति। केषाञ्चिन्मतेन। हि "वैभाषिकाणामेकादश काय-
वाक्कर्मणोरसम्भिन्नत्वात्" इति ॥ ६७॥
"प्रज्ञा हि स्मृत्युपस्थितिः" इति प्रज्ञा स्मृत्युपस्थानमित्यर्थः । स्मृति-
रुपतिष्ठतेऽनयेति कृत्वा। तथा हि सूत्र उक्तम्- "काये कायानुपश्यी" इति
विस्तरः।
"वीर्यं सम्यक्प्रहाणाख्यम्" इति। यस्मादुक्तम्- "उत्पन्नानां पापकानाम-
कुशलानां धर्माणां प्रहाणाय छन्दं जनयति, व्यायच्छते, वीर्यमारभते" इति
सर्वम् ।
"ऋद्धिपादाः समाधयः" इति। यस्मादुक्तम्- "छन्दसमाधिप्रहाणसंस्कार-
समन्वागतमृद्धिपादं भावयति" इति सर्वम्। प्रहाणसंस्काराः पुनरत्राष्टौ सूत्रे
पठ्यन्ते। कथम् ? तथाभूतस्य यश्छन्दः यो व्यायामः या श्रद्धा या प्रश्रब्धिः या
स्मृतिः यत्सम्प्रजन्यम् या चेतना योपेक्षा-इम उच्यन्ते प्रहाणसंस्कारा इति। इन्द्रि-
याणि तावदिति विस्तरः। स्वनामग्रहणेन यानीन्द्रियबलस्वभावानि श्रद्धावीर्यस्मृति-
समाधिप्रज्ञा द्रव्याणि पञ्च। तेषां प्रज्ञैव सा यानि चत्वारि स्मृत्युपस्थानानि।
यच्च बोध्यङ्गेषु धर्मप्रविचयसम्बोध्याङ्गम्। या च मार्गाङ्गेषु सम्यग्दृष्टिः। न
द्रव्यानन्तरम्। वीर्यमेव तद्यानि चत्वारि सम्यक्प्रहाणानि। यच्च बोध्यङ्गेषु
वीर्यसम्बोध्याङ्गम्। यश्च मार्गाङ्गेषु सम्यग्व्यायामः। समाधिरेव च सः। ये चत्वार

५०१८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
वीर्यसम्बोध्याङ्गं सम्यग्व्यायामश्च वीर्यमेव। ऋद्धिपादाः समाधिसम्बोध्याङ्गं
सम्यक्समाधिश्च समाधिरेव। स्मृतिसम्बोध्याङ्गं सम्यक्स्मृतिश्च स्मृतिरेव।
किमवशिष्यते? प्रीतिप्रस्रब्ध्युपेक्षासम्बोध्याङ्गानि, सम्यक्सङ्कल्पः१,
शीलाङ्गानि च। तान्येतानि पञ्च द्रव्याणि। एवमेते बोधिपक्ष्या दश द्रव्याणि
भवन्ति।
वैभाषिकाणामेकादश। कायवाक्कर्मणोरसम्भिन्नत्वात् शीलाङ्गानि द्वे द्रव्ये
इति।
यत्त्वेतदुक्तम्—“प्रज्ञावीर्यसमाधिस्वभावाः स्मृत्युपस्थानादयः” इति।
अत्र वेदितव्यम्—
प्रधानग्रहणं सर्वे गुणाः प्रायोगिकास्तु ते ॥ ६९ ॥
प्रधानग्रहणेनैवमुक्तम्। सर्वे तु प्रायोगिका गुणाः स्मृत्युपस्थानसम्यक्-
प्रहाणर्द्धिपादाः।
ऋद्धिपादाः। यच्च बोध्यङ्गेषु समाधिसम्बोध्याङ्गम्, यच्च मार्गाङ्गेषु
सम्यक्समाधिः।
किमवशिष्यते। यन्न प्रज्ञेन्द्रियादिस्वभावम्। बोध्यङ्गेषु प्रीतिप्रश्रब्ध्युपेक्षा-
सम्बोध्यङ्गान्यवशिष्यन्ते; मार्गाङ्गेषु सम्यक्संकल्पाः, शीलाङ्गानि च त्रीणि—
सम्यग्वाक्, सम्यक्कर्मान्त, सम्यगाजीव इति।
दश द्रव्याणीति। श्रद्धादीनि पञ्च, प्रीतिसम्बोध्याङ्गादीनि च पञ्चेति
शीलाङ्गानि त्रीण्यविज्ञप्तिस्वभावानीति कृत्वैकं द्रव्यं व्यवस्थाप्यते।
वैभाषिकाणामेकादश द्रव्याणि। कायवाक्कर्मणोरसम्भिन्नत्वाद् द्वे द्रव्यमिति
कृत्वा। अभिप्रायवशात् पक्षद्वयेऽप्यदोषः। यदि तु मुख्यवृत्त्या तस्मिन् कलापे
यावन्ति द्रव्याणि सन्ति, तावन्ति गण्येरन्; नैव तानि दश द्रव्याणि, समाहित-
विज्ञप्तिरूपाणां सप्तद्रव्यत्वात्। षोडश द्रव्याणीति वक्तव्यं स्यात्।
प्रधानग्रहणेनैवमुक्तम्। प्रज्ञादिस्वभावाः स्मृत्युपस्थानादय इति। सर्वे तु
प्रायोगिकगुणाः सास्रवानास्रवाः श्रुतचिन्ताभावनामया यथायोगं स्मृत्युपस्थान-
सम्यक्प्रहाणर्द्धिपादाः। प्राधान्यं पुनस्तद्बलेनान्येषां वृत्तेः। न पुनस्ते न सन्ति।
१. ०सङ्कल्पाः-जा०।

निर्देशः ] षष्ठं कोशस्थानम् १०१६
कस्माद्वीर्यं सम्यक्प्रधानमुक्तम् ? तेन सम्यक्कायवाङ्‌मनांसि प्रधीयन्ते ।
समाधिः कस्माद् ऋद्धिपाद उक्तः ? तत्प्रतिष्ठितत्वात् १ सर्वगुणसम्पत्तेः ।
ये त्वाहुः—"समाधिरेवर्द्धिः पादाश्छन्दादयः” इति । तेषां द्रव्यतस्त्रयोदश
बोधिपक्षाः २ प्राप्नुवन्ति; छन्दचित्तयोराधिक्यात् । सूत्रं च विरुध्यते—"ऋद्धिं च
वो भिक्षवो दर्शयिष्यामि ऋद्धिपादांश्च यावद् । ऋद्धिः कतमा ? इह भिक्षुरनेक-
विधमृद्धिविषयं प्रत्यनुभवति । एको भूत्वा बहुधा भवति” इति विस्तरः ।
प्रज्ञाप्रधानानि हि स्मृत्युपस्थानानीत्यतः प्रज्ञाग्रहणम् । न तु प्रज्ञैव स्मृत्युप-
स्थानम् । किं तर्हि ? प्रज्ञावीर्यस्मृतिसमाधिप्रीतिप्रस्रब्ध्युपेक्षासम्यक्सङ्कल्पा-
दयोऽपीति । प्रयोगिकग्रहणमुपपत्तिलभ्यश्रद्धादिनिरासार्थम् । एवं वीर्यप्रधा-
नानि सम्यक्प्रधानानि, समाधिप्रधाना ऋद्धिपादा इति विस्तरेण वक्तव्यम् ।
ऋद्धिपादाः समाधय इति कुत एतत् ? सूत्रात् । उक्तं हि—"छन्दं चापि
भिक्षवो भिक्षुरधिपति कृत्वा लभते समाधिम्, सोऽस्य भवति छन्दसमाधिः ।
चित्तम्, वीर्यम्, मीमांसां चापि भिक्षवो भिक्षुरधिपतिं कृत्वा लभते समाधिम्,
सोऽस्य भवति मीमांसासमाधिः” इति ।
तेन हि सम्यक्कायवाङ्‌मनांसि प्रधीयन्त इति । प्रधीयन्ते = धार्यन्ते,
नियम्यन्ते, प्रवर्तन्ते वा कदाचिदनेनेति प्रधानम् । तत्प्रतिष्ठितत्वादिति ।
यस्मात् सर्वगुणसमापत्तिलक्षणा ऋद्धिस्तस्मिन् समाधौ प्रतिष्ठिता । ऋद्धेः
पादः प्रतिष्ठेति ऋद्धिपाद इति ।
ये त्वाहुः समाधिरेव ऋद्धिः, पादाश्छन्दादयः, छन्दचित्तवीर्यमीमांसा इति ।
तेषामेवंवादिनां वैभाषिकाणां त्रयोदश बोधिपक्षा प्राप्नुवन्ति । छन्दचित्तयो-
राधिक्यादेकादशसु प्रक्षेपे । वीर्यप्रज्ञे त्वत्र नाधिके; सम्यक्प्रधानस्मृत्युपस्था-
नेष्वन्तर्भावात् । बहुधा भवतीति विस्तर इति । बहुधा भूत्वैको भवति
आविर्भावम् तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति । तिरः कुड्यं तिरः प्राकारम-
सज्जमानः कायेन गच्छति, तद्यथा आकाशे । पृथिव्यामुन्मज्जननिमज्जनं
करोति, तद्यथोदके । उदकेऽभिद्यमानेन स्रोतसा गच्छति, तद्यथा पृथिव्याम् ।
आकाशे पर्यङ्केन क्रामति, तद्यथा शकुनिः पक्षी । इमौ वा पुनः भूयो चन्द्र-
मसावेवं महर्द्धिकावेवंमहानुभावौ पाणिना आमाष्टि, परिमाष्टि यावद् ब्रह्मलोकं
कायेन वशे वर्तयत इति इयमुच्यते ऋद्धिः । ऋद्धिपादाः कतमे ? छन्दसमाधिः,
१. तत्प्रतिष्ठत्वात्—का० । २. बोधिपक्ष्याः—का० ।