अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1036, कुल 1258 में से
संदर्भ में पढ़ेंकस्मात् मार्ग इत्युच्यते ? एष हि निर्वाणस्य पन्थाः; तेन^१ तद्गमनात् ।
निर्वाणं मार्गयन्त्यनेनेति वा ।
विमुक्तिविशेषमार्गयोः कथं मार्गत्वम् ? तज्जातीयाधिमात्रतरत्वाद्^२,
उत्तरोत्तरप्रापणात् , निरुपधिशेषप्रवेशाद् वा ॥ ६५ ॥
आनन्तर्यमार्गो येनावरणं प्रजहातीति । अप्रहाणमार्गसम्भवात् । अस्ति स
आनन्तर्यमार्गो येनावरणं न प्रजहाति । इन्द्रियसञ्चारादिषु । यस्तत्प्रहेयावरण-
निर्मुक्तः प्रथमत इति । य आनन्तर्यमार्गप्रहेयेणावरणेन निर्मुक्तः । प्रथमत इति
विशेषणम् । यस्मात् तृतीयादिषु क्षणेषु तज्जातीयो मार्गो विशेषमार्ग इतीष्यते ।
तेन एव चाह—विशेषमार्गों य एभ्योऽन्यो मार्ग इति । प्रयोगमार्गादिभ्योऽन्य
इत्यर्थः । किञ्च-- यदि प्रथमत इति न ब्रूयात्, विमुक्तिमार्गो यस्तत्प्रहेयावरण-
निर्मुक्त इत्येतावद् ब्रूयान् । एवं सति दुःखधर्मज्ञानात् परेण सर्वे आनन्तर्य-
मार्गाद्यस्तत्प्रहेयावरणनिर्मुक्ता उत्पद्यन्त इति सर्वे विमुक्तिमार्गाः स्युः । अनिष्टं
चैतत्; आनन्तर्यमार्गादिष्वपि विमुक्तिमार्गप्रसङ्गात् । तस्मादानन्तर्यमार्गस्य
दुःखधर्मज्ञानक्षान्त्यादेर्यत् प्रहेयमावरणम्, दुःखदर्शनप्रहातव्यो निकायो
यावद्भावनाप्रहातव्यः, तेन प्रहेयावरणेन निर्मुक्तो यः प्रथमत उत्पद्यते स
विमुक्तिमार्गः । नान्यस्तत्प्रहेयावरणनिर्मुक्तत्वेऽपीति । य एभ्यः प्रयोगमार्गा-
दिभ्यस्त्रिभ्योऽन्यः स, विशेषमार्गः । षोडशान्मागौन्वयज्ञानक्षणात् परेण
सप्तदशादयस्तज्जातीया येऽनास्रवाः क्षणाः, ते विशेषमार्गस्वभावा इत्यव-
गन्तव्यम् । एवमन्यदपि विमुक्तिज्ञानं यत्प्राकर्षिकं क्षयज्ञानादि, तदपि
वक्तव्यम् । यश्च दृष्टधर्मसुखविहाराय वैशेषिकगुणाभिनिर्हाराय वा मार्गः,
सोऽपि विशेषमार्ग एव प्रयोगमार्गः, यस्मादानन्तर्यमार्गोत्पत्तिरित्युक्तम् । अतो
लौकिका अग्रधर्माः प्रयोगमार्ग इति गम्यते । यस्तु प्रतिलोमतः क्षान्त्यादिमार्गः,
स कस्मिन्नन्तर्भवतीति वक्तव्यम् ? आह—प्रयोगमार्ग एवान्तर्भवति । विप्रकृष्ट-
स्त्वसौ प्रयोगमार्ग इत्ययं तस्याग्रधर्मेभ्यो विशेषः । उदाहरणार्थत्वाच्चाचार्येण
सन्निकृष्ट एव प्रयोगमार्ग उक्त इति ।
एष हि निर्वाणस्य पन्थाः । तेन तद्गमनादिति । लोके येन गम्यते स माग
इति प्रतीतः । अनेन च निर्वाणं गम्यते प्राप्यते, तस्मान्मागं इति दर्शयति ।
मार्गयन्त्यनेन वेति । "मार्गोऽन्वेषणे" इति धातुः पठ्यते । तस्यैद् घञि रूपं
मार्ग इति । येन निर्वाणमन्विष्यते स मार्ग इति ।
१. एतेन—का० । २. तज्जातीयादधि०—का० ।
अभि० को० ३ : १७