अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1035, कुल 1258 में से
संदर्भ में पढ़ें१०१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
श्रद्धाधिमुक्तस्य कायसाक्षिणः । फलेन्द्रियसमापत्तिः--दृष्टिप्राप्तस्य कायसाक्षिणः ।
समापत्तित एव समापत्तांन्द्रियतश्च परिपूर्णत्वं नास्ति विना फलेन ॥ ६४ ॥
अशैक्षपरिपूर्णत्वं द्वाभ्याम्,
इन्द्रियतः, समापत्तिश्च । फलेन स्वपरिपूर्णस्याशैक्षत्वमेव नास्तीति नास्य
पुनः फलेन परिपूर्णापरिपूर्णत्वं व्यवस्थाप्यते । इन्द्रियत एव—असमयविमुक्तस्य
प्रज्ञाविमुक्तस्य । समापत्तित एव—समयविमुक्तस्योभयभागविमुक्तस्य । इन्द्रिय-
समापत्तिभ्याम्—असमयविमुक्तस्योभयतोभागविमुक्तस्य ।
बहव इमे मार्गभेदा उक्ताः--लौकिक लोकोत्तर-दर्शन-भावनाऽशैक्षमार्गाः
प्रयोगानन्तर्यविमुक्तिविशेषमार्गा इति । कतिविध एष समास्तो मार्ग इति ?
मार्गः समासतः ।
विशेषमुक्त्यानन्तर्यप्रयोगाख्यश्चतुर्विधः ॥ ६५ ॥
१. प्रयोगमार्गः, यस्मादनन्तरमानन्तर्यमार्गोत्पत्तिः । २. आनन्तर्यमार्गः,
येनावरणं प्रजहाति । ३. विमुक्तिमार्गः, यस्तत्प्रहेयावरणविनिर्मुक्तः प्रथमत¹
उत्पद्यते । ४. विशेषमार्गः, य एभ्योऽन्यो मार्गः ।
योज्यम्। समापत्तित एवेति । समापत्तित एव परिपूर्णत्वं नेन्द्रियफलाभ्यामिति
नास्त्येतत् । कस्मात् ? न ह्यसत्यामनागामिफलप्राप्तौ निरोधसमापत्तिरस्ति ।
समापत्तीन्द्रियतश्च विना फलेनेति । समापत्तीन्द्रियत एव च परिपूर्णत्वं न
फलत इत्येतदपि नास्ति । यस्मादनागामिफलमप्राप्तस्य निरोधसमापत्तिर्ना-
स्तीति ॥ ६४ ॥
इन्द्रियतः समापत्तिश्चेति । तीक्ष्णेन्द्रियतया निरोधसमापत्तिलाभतया
चेत्यर्थः । इन्द्रियत एवेति विस्तरः । असमयविमुक्तस्येति वचनात् । अस्येन्द्रियतः
परिपूर्णत्वम्; प्रज्ञाविमुक्तस्येति वचनात् । न समापत्तितोऽस्य परिपूर्णत्वम् ।
अनिरोधसमापत्तिलाभी हि प्रज्ञाविमुक्त इत्युक्तम् । समापत्तित एवेति; समय-
विमुक्तस्येति वचनात् । नेन्द्रियतः परिपूर्णत्वमस्य भवति; उभयतोभागविमुक्त-
स्येति वचनात् । समापत्तितोऽस्य परिपूर्णत्वम् । निरोधसमापत्तिलाभीत्यु-
भयतोभागविमुक्त इत्युक्तम् । इन्द्रियसमापत्तिभ्याम् । किम् ? परिपूर्णत्वम् ।
असमयविमुक्तत्वादिनिद्रियतः उभयतोभागविमुक्तत्वात् समापत्तित इति दर्शयति ।
१. तत्प्रथमतः-का० ।