सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1025, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1025

१००२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
विवेकिनिम्नचित्तमुच्यते¹ यावनिर्वाणप्राग्भारम्" इति वचनात् ।
अर्हतो ह्येतद् बलमन्यत्रोक्तम्— "सर्वैरास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्ती-
भूतम्" इति चाभिधानात् ? अस्त्येतदेवम् । यावस्तु चारो न सुप्रतिबद्धस्तावदेवं
चरतोऽपि शैक्षस्यास्ति सम्भवः क्लेशोत्पत्ताविति शैक्षावस्थामधिकृत्यैवं
वचनाददोषः ।
प्रतिज्ञायते हि लौकिकमार्गप्रतिलब्धात् फलद्वयात् परिहाणिः । अर्हत्त्वादपि
तु परिहाणिं वर्णयन्ति वैभाषिकाः ।
किं पुनरिमेऽर्हन्त एव षड्गोत्रा भवन्ति ? अथान्येऽपि षड्गोत्रा भवन्ति ?
शैक्षानायाश्चि षड्गोत्राः,
शैक्षपृथग्जना अप्येवं षड्गोत्राः । तत्पूर्वकाण्येव चार्हतां गोत्राणि ।'
अपि तु—

इति । कथं कृत्वा ज्ञापितः ? इत्याह—दीर्घरात्रमिति विस्तरः । अपरिहाणि-
वादिनः स्यादेवं वचनावकाशः । शैक्षस्येदं विवेकिनिम्नचित्तमुच्यते यावनिर्वाण-
प्राग्भारमिति । अस्य परिहारार्थं परिहाणिवादी पुनराह—अर्हतो ह्येतद्बल-
मन्यत्रोक्तमिति सूत्रे । कथम् ? "कति भदन्तार्हतो भिक्षोः क्षीणास्रवस्य बलानि ?
अष्टौ शारिपुत्रार्हतो भिक्षोर्दीर्घरात्रं विवेकिनिम्नं चित्तं यावनिर्वाणप्राग्भारम् ।
अङ्गारकर्षूपमाश्चानेन कामा दृष्ट्वा भवन्ति । यथास्य कामान् जानतः कामान्
पश्यतो यः कामेषु कामच्छन्दः कामस्नेहः विस्तरेण यावत्कामाध्यवसानम्,
तन्नास्य चित्तं न पर्यादाय तिष्ठति" इति विस्तरः । किञ्च शीतीभूतं वान्तीभूत-
मिति चाभिधानात् । तत्रैवाङ्गारकर्षूपमे सूत्रेऽर्हन्नेव ज्ञापति इति ।
अस्त्येतदेवमिति । अङ्गारकर्षूपमे यदुक्तमर्हन्नेव ज्ञापित इति । यावत्तु चारो
न सुप्रतिबद्ध इति । पिण्डपातादिचारः । शैक्षावस्थामधिकृत्यैवं वचनाददोष
इति । यदेतदुक्तम्— "कदाचित् स्मृतिसम्प्रमोषादुत्पद्यन्ते पापका अकुशला
वितर्काः" इति, तच्छैक्षावस्थामधिकृत्योक्तम्, नार्हत्त्वावस्थाम् । यत्तूक्तम्—
'दीर्घरात्रं विवेकिनिम्नम्' इति, तच्छैक्षस्यापि सम्भवति । अर्हतस्तु प्रकर्षेण
भवतीति विशेषः । यच्चाप्युक्तम्—'सास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्तीभूतम्'
इति;, तदपि शैक्षावस्थामधिकृत्य सम्भवति, कामावचरास्रवस्थानीयधर्मशीती-

१. विवेकिनिम्नं चित्तं भवति-का० ।