सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1037, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1037

१०१४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गल-
मार्ग एव पुनः प्रतिपदुक्तः; निर्वाणप्रतिपादनात् । चतस्रः प्रतिपदः—
अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा, अस्ति दुःखा क्षिप्राभिज्ञा । एवं सुखापि
द्विविधा । तत्र—
ध्यानेषु मार्गः प्रतिपत्सुखा,
चतुर्ध्यानेषु मार्गः सुखा प्रतिपद्; अङ्गपरिग्रहणाशमथविपश्यनासमताभ्या-
मयत्नवाहित्वात् ।
दुःखाऽन्यभूमिषु । • •
अन्यास्वनागम्यध्यानान्तरारूप्यभूमिषु मार्गो दुःखा प्रतिपद्; अङ्गापरिग्रहात्,
शमथविपश्यनान्यूनत्वाच्च यत्नवाहित्वात् । शमथन्यूने ह्यनागम्यध्यानान्तरे
विपश्यनान्यूना आरूप्या इति ।
विमुक्तिविशेषमार्गयोः कथं मार्गत्वमिति । न हि ताभ्यां निर्वाणं प्राप्यते ।
प्रयोगानन्तर्यमार्गयोरेव तत्प्राप्तौ सामर्थ्यान्न तयोरिति अभिप्रायः । तज्जातीया-
धिमात्रतरत्वादिति । प्रहाणमार्गजातीयौ चालम्बनाकारानास्रवत्वसादृश्यात् ।
अधिमात्रतरौ च हेतूपचयतः । यथा ह्यानन्तर्यमार्गश्चतुःसत्यालम्बनषोडशा-
कारोऽनास्रवश्च, एवं विमुक्तिविशेषमार्गावपि। अधिमात्रतरत्वेनैव तु तस्माद्विशेष
इति । उत्तरोत्तरापणात् । निरुपधिशेषप्रवेशाद्वेति । यस्माद्विमुक्तिमार्गेण विशेष-
मार्गेण च उत्तरोत्तरो मार्गः प्राप्यते, तस्मादनयोर्मार्गत्वमित्यर्थः । यस्माद्वा
ताभ्यां निरुपधिशेषं निर्वाणं प्रविशति यदुत्पत्तौ निरुपधिशेषनिर्वाणप्रवेश
इति ।
अपरे पुनरेवं व्याचक्षते—उत्तरोत्तरप्रापगान्निरुपधिशेषप्रवेशः, तस्मा-
दनयोर्मार्गत्वमिति ॥ ६५ ॥
निर्वाणप्रतिपादनादिति । यस्मादनेन निर्वाणं प्रतिपद्यत इत्यर्थः । एवं
सुखापि द्विविधेति । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा, अस्ति सुखा क्षिप्राभिज्ञेति ।
अङ्गपरिग्रहणाशमथविपश्यनासमताभ्यामयत्नवाहित्वादिति । अङ्गैः परिग्रहः ।
शमथविपश्यनयोः समत्वम् । अङ्गपरिग्रहश्च शमथविपश्यनासमत्वं च, ताभ्याम-
यत्नवाहित्वम् । तस्मात्सुखा प्रतिपत् । यस्मादङ्गपरिगृहीतानि ध्यानानि शमथ-
विपश्यनाभ्यां समानि च, तस्मादयत्नवाहीनि । अतश्च सुखासौ प्रतिपदिति ।
१. ०परिग्रहशमथ०-का० ।