सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1034, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1034

निर्देशः ] षष्ठं कोशस्थानम् १०११
कोऽयमुभयतोभागविमुक्त इत्युच्यते ? कश्च प्रज्ञाविमुक्तः ?
निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः ।
यो निरोधसमापत्तिलाभी स उभयतोभागविमुक्तः; प्रज्ञासमाधिबलाभ्यां
क्लेशविमोक्षावरणविमुक्तत्वात् । इतरः प्रज्ञाविमुक्तः; प्रज्ञाबलेन केवलं क्लेशावरण-
विमुक्तत्वात् ।
यदुक्तं भगवता—
“क्लेशान् प्रहायेह हि यस्तु पञ्च अहार्यधर्मा परिपूर्णशैक्षः” इति ।
कियता परिपूर्णः शैक्षो भवति ?
समापत्तीन्द्रियफलैः पूर्णः शैक्षोऽभिधीयते ॥ ६४ ॥
त्रिविधा शैक्षस्य परिपूरिः—फलतः, इन्द्रियतः, समापत्तितश्च । फलत
एव—श्रद्धाधिमुक्तस्याकायसाक्षिणोऽनागामिनः । इन्द्रियत एव—दृष्टिप्राप्तस्यावीत-
रागस्य । फलेन्द्रियतः—दृष्टिप्राप्तस्य कायसाक्षिणोऽनागामिनः । फलसमापत्तितः—
एवमिन्द्रियगोत्राश्रयतः परिगण्य गणयितव्यः । प्रज्ञाविमुक्तस्यापि भेदः
इन्द्रियतस्त्रयः प्रज्ञाविमुक्तः । गोत्रतः पञ्च । यदि समयविमुक्तः, अथासमय-
विमुक्ता नास्ति भेदः ।
एवमुभयतोभागविमुक्तोऽपि योजयितव्यः ॥ ६३ ॥
प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वादिति । प्रज्ञाबलेन क्लेशा-
वरणविमुक्तत्वात्, समाधिबलेन च विमोक्षावरणविमुक्तत्वात् । विमोक्षाः
पुनरष्टौ वक्ष्यन्ते । रूपी रूपाणि पश्यतीति विस्तरः । तत्र क्लेशावरणमिति ।
क्लेशा एवावरणम् । विमोक्षावरणमिति विमोक्षाणामावरणम् । तत्पुनः काय-
चित्तयोरकर्मण्यता, यया विमोक्षानुत्पादयितुं न शक्नोतीति ।
क्लेशान् प्रहायेह हि यस्तु पञ्चेति । पञ्चावरभागीयानि संयोजनानि
सत्कायदृष्ट्यादीन्युक्तानि । अहार्यधर्मेत्यपरिहाणिधर्मेत्यर्थः ।
फलत एवेति विस्तरः । श्रद्धाधिमुक्तत्वान्नेन्द्रियतः परिपूर्णत्वम् । अकाय-
साक्षित्वान्न समापत्तितः । अनागामित्वात् तु फलतः परिपूर्णत्वमस्ति । इन्द्रियत
एवेति । दृष्टिप्राप्तत्वाद्विन्द्रियतः परिपूर्णत्वम् । अवीतरागत्वात् तु न फलतो
नापि समापत्तितः; अनागामिफलसमापत्त्योरभावात् । एवमन्येषामपि सम्भवतो