अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1041, कुल 1258 में से
संदर्भ में पढ़ें५०१८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
वीर्यसम्बोध्याङ्गं सम्यग्व्यायामश्च वीर्यमेव। ऋद्धिपादाः समाधिसम्बोध्याङ्गं
सम्यक्समाधिश्च समाधिरेव। स्मृतिसम्बोध्याङ्गं सम्यक्स्मृतिश्च स्मृतिरेव।
किमवशिष्यते? प्रीतिप्रस्रब्ध्युपेक्षासम्बोध्याङ्गानि, सम्यक्सङ्कल्पः१,
शीलाङ्गानि च। तान्येतानि पञ्च द्रव्याणि। एवमेते बोधिपक्ष्या दश द्रव्याणि
भवन्ति।
वैभाषिकाणामेकादश। कायवाक्कर्मणोरसम्भिन्नत्वात् शीलाङ्गानि द्वे द्रव्ये
इति।
यत्त्वेतदुक्तम्—“प्रज्ञावीर्यसमाधिस्वभावाः स्मृत्युपस्थानादयः” इति।
अत्र वेदितव्यम्—
प्रधानग्रहणं सर्वे गुणाः प्रायोगिकास्तु ते ॥ ६९ ॥
प्रधानग्रहणेनैवमुक्तम्। सर्वे तु प्रायोगिका गुणाः स्मृत्युपस्थानसम्यक्-
प्रहाणर्द्धिपादाः।
ऋद्धिपादाः। यच्च बोध्यङ्गेषु समाधिसम्बोध्याङ्गम्, यच्च मार्गाङ्गेषु
सम्यक्समाधिः।
किमवशिष्यते। यन्न प्रज्ञेन्द्रियादिस्वभावम्। बोध्यङ्गेषु प्रीतिप्रश्रब्ध्युपेक्षा-
सम्बोध्यङ्गान्यवशिष्यन्ते; मार्गाङ्गेषु सम्यक्संकल्पाः, शीलाङ्गानि च त्रीणि—
सम्यग्वाक्, सम्यक्कर्मान्त, सम्यगाजीव इति।
दश द्रव्याणीति। श्रद्धादीनि पञ्च, प्रीतिसम्बोध्याङ्गादीनि च पञ्चेति
शीलाङ्गानि त्रीण्यविज्ञप्तिस्वभावानीति कृत्वैकं द्रव्यं व्यवस्थाप्यते।
वैभाषिकाणामेकादश द्रव्याणि। कायवाक्कर्मणोरसम्भिन्नत्वाद् द्वे द्रव्यमिति
कृत्वा। अभिप्रायवशात् पक्षद्वयेऽप्यदोषः। यदि तु मुख्यवृत्त्या तस्मिन् कलापे
यावन्ति द्रव्याणि सन्ति, तावन्ति गण्येरन्; नैव तानि दश द्रव्याणि, समाहित-
विज्ञप्तिरूपाणां सप्तद्रव्यत्वात्। षोडश द्रव्याणीति वक्तव्यं स्यात्।
प्रधानग्रहणेनैवमुक्तम्। प्रज्ञादिस्वभावाः स्मृत्युपस्थानादय इति। सर्वे तु
प्रायोगिकगुणाः सास्रवानास्रवाः श्रुतचिन्ताभावनामया यथायोगं स्मृत्युपस्थान-
सम्यक्प्रहाणर्द्धिपादाः। प्राधान्यं पुनस्तद्बलेनान्येषां वृत्तेः। न पुनस्ते न सन्ति।
१. ०सङ्कल्पाः-जा०।