अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1038, कुल 1258 में से
संदर्भ में पढ़ेंसा पुनर्द्विविधापि प्रतिपत्—
धन्धाभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु ॥ ६६ ॥
मृद्विन्द्रियस्य सुखा दुःखा वा प्रतिपद्धन्धाभिज्ञा, तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा ।
धन्धाभिज्ञा अस्यां प्रतिपदि सेयं धन्धाभिज्ञा । एवं क्षिप्राभिज्ञा । धन्धस्य
वा पुद्गलस्येयमिति धन्धाभिज्ञा ।
पुनरप्येष मार्गो बोधिपक्ष्याख्यां लभते । सप्तत्रिंशद् बोधिपक्षा धर्माः—
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः,
पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्ग इति ॥ ६६ ॥
अङ्गापरिहादिति विस्तरः । अङ्गापरिहादनागम्यध्यानान्तरा रूप्या यत्नवाहिनः ।
शमथविपश्यनान्यूनत्वाच्च सम्भवतस्ते यत्नवाहिनः ; शमथन्यूनत्वादनागम्यं
ध्यानान्तरे यत्नवाहिनी ;