अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1015, कुल 1258 में से
संदर्भ में पढ़ें६६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
येषां त्ववश्यं परिहीयते यावत् प्रतिविध्यति, तेषां कामधातौ षड्, रूपारूप्य-
धात्वोः स्थिताकम्प्यः अकोप्यधर्मा च; तयोः परिहाणिचेतनेन्द्रियसञ्चारा-
भावात् ॥ ५७ ॥
कः पुनरेषां कुतः परिहीयते ? फलात् ? गोत्राद्वा ?
गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः³,
चेतनाधर्मादीनां चतुर्णां गोत्रात् परिहाणिः । न हि परिहाणधर्मा पुनः
स्वगोत्रात् परिहीयते । परिहाणधर्मादीनां पञ्चानां फलात् परिहाणिः । तेषामपि तु
न पूर्वकात् ।
यस्य यत् प्रथमगोत्रं स तस्मान्न परिहीयते; शैक्षाशैक्षमार्गाभ्यां दृढीकृत-
त्वात् । शैक्षस्तु लौकिकलोकोत्तराभ्यां दृढीकृतत्वात् न परिहीयते स्वगोत्रात् ।
रूपारूप्यधात्वोर्द्वौ स्थिताकम्प्य एकः । अकोप्यधर्मा च द्वितीयः । स्थिता-
कम्प्यस्तावद् बद्धाभिरुचिः स्यात्, न प्रतिवेधनभव्यताक्रियादरवानिति । न
कामधातौ स्थिताकम्प्यः प्रतिवेधनाभव्यतामपद्यते । रूपारूप्यधात्वोश्च
परिहाणिप्रत्ययो बलवान् नास्तीति नासौ परिहीयते । न चेन्द्रियाणि सञ्च-
रन्तीति स्थिताकम्प्यगोत्रक एव संस्तत्र भवति । अकोप्यविमुक्तियोगाच्चा-
कोप्यधर्मापि भवति । एवेति द्वावेव तौ भवतः । नातोऽन्ये ।
तयो रूपारूप्यधात्वोः परिहाणिचेतनेन्द्रियसञ्चाराभावात् । परिहाणधर्मा
तावत् तत्र नास्ति; परिहाण्यभावात् । अनुरक्षणाधर्मापि नास्ति; परिहाण्य-
भावेनानुरक्षितव्यानुयोगात् । अत एव चेन्द्रियसञ्चाराभावान् प्रतिवेधना-
भव्योऽपि न भवति । तथा चोक्तम्—"स चोर्ध्वजश्च नैवाक्षसञ्चारपरिहाणि-
भाग्" (अभि० को० ६.४१) इति । तत्र च नात्मसञ्चेतना न परसञ्चेतनास्तीति
चेतनाधर्मापि न भवतीति ॥ ५७ ॥
चेतनाधर्मादीनां चतुर्णामिति । चेतनानुरक्षणाधर्मस्थिताकम्प्यपरिवेधना-
भव्यानाम् । न हि परिहाणधर्मा पुनः स्वगोत्रात् परिहीयत इति । तस्य
गोत्रस्याकृत्रिमत्वात् । परिहाणधर्मादीनां पञ्चानामिति । यस्मात् परिहाण-
धर्मणोऽपि फलात् परिहाणिः सम्भवति । फलस्यागन्तुकत्वात् ।
"न पूर्वकाद्" इति । गोत्रात्, फलाच्च ।
स तस्मान् न परिहीयत इत्यर्थन् । कस्मात् ? इत्याह—शैक्षाशैक्षमार्गाभ्यां
दृढीकृतत्वादिति यच्छैक्षावस्थायां गोत्रमस्ति । तच्छैक्षेण मार्गेण भावितम् ।