सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary

आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished558 पृष्ठ

इस ग्रन्थ के बारे में

'तत्त्वार्थसूत्र' जैन दर्शन का वह सूत्र-ग्रन्थ है जिसे दिगम्बर और श्वेताम्बर, दोनों परम्पराएँ मान्यता देती हैं। इसके रचयिता आचार्य उमास्वामी (उमास्वाति) हैं, जिन्हें गृद्धपिच्छाचार्य भी कहा जाता है। दस अध्यायों में यह सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र को मोक्ष का मार्ग बताकर जीव, अजीव, आस्रव, बन्ध, संवर, निर्जरा और मोक्ष, इन सात तत्त्वों का विवेचन करता है।

'सर्वार्थसिद्धि' इस सूत्र-ग्रन्थ पर आचार्य पूज्यपाद (देवनन्दी) की संस्कृत वृत्ति है, जो दिगम्बर परम्परा में इसकी सबसे प्राचीन और प्रामाणिक व्याख्या मानी जाती है। बाद की टीकाएँ, जैसे अकलंक का 'तत्त्वार्थराजवार्तिक', इसी पर आधारित हैं।

यह संस्करण पं. फूलचन्द्र सिद्धान्तशास्त्री ने सम्पादित किया है और इसमें मूल वृत्ति के साथ विस्तृत हिन्दी अनुवाद है। यह भारतीय ज्ञानपीठ की मूर्तिदेवी ग्रन्थमाला (संस्कृत ग्रन्थांक १३) में छपा; स्कैन १९७१ (वीर निर्वाण संवत् २४९६) के द्वितीय संस्करण का है। विषय-क्रम में रत्नत्रय और नय-विचार, जीव के भेद, नरक और देवलोक की रचना, पुद्गल, धर्म, अधर्म, आकाश और काल, अणुव्रत और महाव्रत, आठ प्रकार के कर्म-बन्ध, तथा संवर, निर्जरा, शुक्लध्यान, केवलज्ञान और मोक्ष आते हैं। ५५८ पृष्ठों का यह ग्रन्थ जैन सिद्धान्त के गम्भीर अध्ययन के लिए है।

पृष्ठ 175 स्कैन

– ११८ § १५४ ] प्रथमोऽध्यायः ६३
§ १५१. कायानुवादेन स्थावरकायेषु गुणस्थानभेदाभावादल्पबहुत्वाभावः। त्रसकायिकानां
पञ्चेन्द्रियवत् ।
§ १५२. योगानुवादेन वाङ्मनसयोगिनां पञ्चेन्द्रियवत् । काययोगिनां सामान्यवत् ।
वेदानुवादेन स्त्रीपुंवेदानां पञ्चेन्द्रियवत् । नपुंसकवेदानामवेदानां च सामान्यवत् ।
§ १५३. कषायानुवादेन क्रोधमानमायाकषायाणां पुंवेदवत् । अयं तु विशेषः मिथ्यादृष्टयोऽ- ५
नन्तगुणाः । लोभकषायाणां द्वयोरुपशमकयोस्तुल्या संख्या । क्षपकाः संख्येयगुणाः । सूक्ष्मसांपराय-
शुद्ध्युपशमकसंयता विशेषाधिकाः । सूक्ष्मसांपरायक्षपकाः संख्येयगुणाः । शेषाणां सामान्यवत् ।
§ १५४. ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिषु सर्वतः स्तोकाः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 176 स्कैन

६४ सर्वार्थसिद्धौ [ १।८ § १५५ -
§ १५५. संयमानुवादेन सामायिकच्छेदोपस्थापनाशुद्धिसंयतेषु द्वयोरुपशमकयोस्तुल्या संख्या।
ततः संख्येयगुणौ क्षपकौ। अप्रमत्ताः संख्येयगुणाः। प्रमत्ताः संख्येयगुणाः। परिहारशुद्धिसंयतेषु
अप्रमत्तेभ्यः प्रमत्ताः संख्येयगुणाः। सूक्ष्मसांपरायशुद्धिसंयतेषु उपशमकेभ्यः क्षपकाः संख्येयगुणाः।
यथाख्यातविहारशुद्धिसंयतेषु उपशान्तकषायेभ्यः क्षीणकषायाः संख्येयगुणाः। अयोगकेवलिनस्ता-
वन्त एव। सयोगकेवलिनः संख्येयगुणाः। संयतासंयतानां नास्त्यल्पबहुत्वम्। असंयतेषु सर्वतः
स्तोकाः सासादनसम्यग्दृष्टयः। सम्यङ्मिथ्यादृष्टयः¹ संख्येयगुणाः। असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 177 स्कैन
  • ११८ § १६३ ] प्रथमोऽध्यायः ६५

§ १५९. सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिषु सर्वतः स्तोकाश्चत्वार उपशमकाः । इतरेषां
प्रमत्तान्तानां सामान्यवत् । ततः संयतासंयताः संख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः ।
क्षायोपशमिकसम्यग्दृष्टिषु सर्वतः स्तोका अप्रमत्ताः । प्रमत्ताः संख्येयगुणाः । संयतासंयताः १ संख्येय-
गुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । औपशमिकसम्यग्दृष्टीनां सर्वतः स्तोकाश्चत्वार उप-
शामकाः । अप्रमत्ताः संख्येयगुणाः । प्रमत्ताः संख्येयगुणाः । संयतासंयताः २ असंख्येयगुणाः । असंयत- ५
सम्यग्दृष्टयोऽसंख्येयगुणाः । शेषाणां नास्त्यल्पबहुत्वम् ३ ।
१६०.

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 178 स्कैन

६६ सर्वार्थसिद्धौ [ १।९ § १६४ –
मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥६॥
१६४. ज्ञानशब्दः प्रत्येकं परिसमाप्यते । मतिज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्ययज्ञानं
केवलज्ञानमिति । इन्द्रियैर्मनसा च यथास्वमर्थो¹ मन्यते अनया मनुते मननमात्रं वा मतिः । तदावरण-
²कर्मक्षयोपशमे सति निरूप्यमाणं श्रूयते अनेन³ तत् शृणोति श्रवणमात्रं वा श्रुतम् । अनयोः प्रत्या-
सन्ननिर्देशः कृतः कार्यकारणभावात् । तथा च वक्ष्यते “श्रुतं मतिपूर्वम्” इति । अवाग्धानादवच्छिन्न-
विषयाद्वा अवधिः । परकीयमनोगतोऽर्थो मन इत्युच्यते । साहचर्यात्तस्य पर्ययणं परिगमनं मनः-
पर्ययः । मतिज्ञानप्रसङ्ग इति चेत्; न; अपेक्षामात्रत्वात् । क्षयोपशमशक्तिमात्रविजृम्भितं हि तत्केवलं
स्वपरमनोभिर्व्यपदिश्यते । यथा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 179 स्कैन
  • १।१० § १६७ ] प्रथमोऽध्यायः ६७
    विप्रकृष्टः । कुतः विप्रकृष्टान्त॑'रत्वात् । प्रत्यक्षात्परोक्षं पूर्वमुक्तं सुगमत्वात् । श्रुतपरिचितानुभूता^२
    हि मतिश्रुतपद्धतिः सर्वेण प्राणिगणेन प्रायः प्राप्यते यतः । एवमेतत्पञ्चविधं ज्ञानम् । तद्भेदादयश्च
    पुरस्ताद्वक्ष्यन्ते ।
    § १६५. “प्रमाणनयैरधिगमः” इत्युक्तम् । प्रमाणं च केषांचित् ज्ञानमभिमतम् । केषांचित्
    संनिकर्षः । केषांचिदिन्द्रियमिति । अतोऽधिकृतानामेव मत्यादीनां प्रमाणत्वख्यापनार्थमाह— ५
    तत्प्रमाणे ॥१०॥
    § १६६. तद्ग्रहणं किमर्थम् । प्रमाणान्तरपरिकल्पनान्निवृत्त्यर्थम् । संनि^३कर्षः प्रमाणमिन्द्रियं
    प्रमाणमिति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 180 स्कैन

स्यात् । इन्द्रियमपि यदि प्रमाणं स एव दोषः; अल्पविषयत्वात् चक्षुरादीनां ज्ञेयस्य चापरिमाण-
त्वात् ।
§ १६८. सर्वेन्द्रियसन्निकर्षाभावश्च; चक्षुर्मनसोः प्राप्यकारित्वाभावात् । अप्राप्यकारित्वं च
उत्तरत्र वक्ष्यते ।
§ १६९. यदि ज्ञानं प्रमाणं फलाभावः । अधिगमो हि फलमिष्टं न भावान्तरम् । स चेत्प्रमाणं,
न तस्यान्यत्फलं भवितुमर्हति । फलवता च प्रमाणेन भवितव्यम् । संनिकर्षे इन्द्रिये वा प्रमाणे सति
अधिगमः फलमर्थान्तरभूतं युज्यते इति । तदयुक्तम् । यदि संनिकर्षः प्रमाणं अर्थाधिगमः फलं,
तस्य द्विष्ठत्वात्तत्फलेनाधिगमेनापि द्विष्ठेन भवितव्यमिति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 181 स्कैन
  • १।१० § १७२ ] प्रथमोऽध्यायः ६९
    § १७१. प्रमिणोति प्रमीयतेऽनेन प्रमितिमात्रं वा प्रमाणम्। किमनेन प्रमीयते। जीवादिरर्थः।
    यदि जीवादेरधिगमे प्रमाणं प्रमाणाधिगमे च अन्यत्प्रमाणं परिकल्पयितव्यम् । तथा सत्यनवस्था ।
    नानवस्था प्रदीपवत् । यथा घटादीनां प्रकाशने प्रदीपो हेतुः² स्वस्वरूपप्रकाशनेऽपि स एव, न
    प्रकाशान्तरं³ मृग्यं तथा प्रमाणमपीति अवश्यं चैतदभ्युपगन्तव्यम् । प्रमेयवत्प्रमाणस्य प्रमाणान्तर-
    परिकल्पनायां स्वाधिगमाभावात् स्मृत्यभावः । तदभावाद् व्यवहारलोपः स्यात् ।
    § १७२. वक्ष्यमाणभेदापेक्षया द्विवचननिर्देशः । वक्ष्यते हि "आद्ये परोक्षम्, प्रत्यक्षमन्यद्"
    इति स च द्विवचननिर्देशः प्रमाणान्तरसंख्यानिवृत्त्यर्थः ।
    § १७१ प्रमाण शब्दका

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 182 स्कैन

७० सर्वार्थसिद्धौ [ १।११ § १७३ –
§ १७३. 'उक्तस्य पञ्चविधस्य ज्ञानस्य प्रमाणद्वयान्तःपातित्वे प्रतिपादिते प्रत्यक्षानु-
मानादिप्रमाणद्वयकल्पनान्निवृत्त्यर्थमाह—
आद्ये परोक्षम् ॥११॥
§ १७४. आदिशब्दः प्राथम्यवचनः । आदौ भवमाद्यम् । कथं द्वयोः प्रथमत्वं मुख्योपचार-
कल्पनया । मतिज्ञानं तावन्मुख्यकल्पनया प्रथमम् । श्रुतमपि तस्य प्रत्यासत्त्या प्रथममित्युपचर्यते ।
ज्ञानको प्रमाण ही नहीं मानते। उनके यहाँ ज्ञानको भी प्रमाण माना गया है। जब वे ज्ञानको प्रमाण
मानते हैं तब हानबुद्धि, उपादानबुद्धि और उपेक्षाबुद्धि उसका फल माना जाता है। किन्तु
नैयायिकोंकी सन्निकर्ष और इन्द्रियको प्रमाण माननेकी बात समीचीन नहीं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 183 स्कैन
  • १।११ § १७५ ] प्रथमोऽध्यायः ७१
    द्विवचननिर्देशसामर्थ्याद् गौणस्यापि ग्रहणम् । आद्यं च आद्यं च आद्ये मतिश्रुते इत्यर्थः । तदुभयमपि
    परोक्षं प्रमाणमित्यभिसंबध्यते । कुतोऽस्य परोक्षत्वम् १ । परायत्तत्वात् "मतिज्ञानं इन्द्रियानिन्द्रिय-
    निमित्तम्" इति वक्ष्यते “श्रुतमनिन्द्रियस्य" इति च । अतः पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि
    च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्यात्मनो मतिश्रुतं उत्पद्यमानं परोक्षमित्या-
    ख्यायते । अत उपमानागमादीनामत्रैवान्तर्भावः । ५
    § १७५. अभिहितलक्षणात्परोक्षादितरस्य सर्वस्य प्रत्यक्षत्वप्रतिपादनार्थमाह -
    कल्पनासे प्रथम है । मतिज्ञान तो मुख्यकल्पनासे प्रथम है और श्रुतज्ञान भी उसके समीपका होनेसे
    प्रथम है ऐसा उपचार किया जाता है। सूत्रमें

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 184 स्कैन

?
Let's zoom in as much as possible:
म
त
स्त
स्या
पि
Wait, that is: म + त + स्त + स्या + पि!
That spells: तस्तस्यापि!
Why would it spell तस्तस्यापि? Could it be a typo in the original

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 185 स्कैन
  • ११२ § १८० ] प्रथमोऽध्यायः ७३
    § १७८. योगिप्रत्यक्षमन्यज्ज्ञानं दिव्यमप्यस्तीति चेत् । न तस्य प्रत्यक्षत्वं; इन्द्रियनिमि-
    त्तत्वाभावात्; अक्षेमक्षं प्रति यद्वर्तते तत्प्रत्यक्षमित्यभ्युपगमात् ।
    § १७९. किंच सर्वज्ञत्वाभावः प्रतिज्ञाहानिर्वा । अस्य योगिनो यज्ज्ञानं तत्प्रत्यर्थवशवर्ति वा
    स्याद् अनेकार्थग्राहि वा । यदि प्रत्यर्थवशवर्ति, सर्वज्ञत्वमस्य नास्ति योगिनः, ज्ञेयस्यानन्त्यात् । ५
    अथानेकार्थग्राहि, या प्रतिज्ञा-
    "विजानाति न विज्ञानमेकमर्थद्वयं यथा । एकमर्थं विजानाति न विज्ञानद्वयं तथा ।।"
    सा हीयते ।
    § १८०. अथवा "क्षणिकाः सर्वसंस्काराः" इति प्रतिज्ञा हीयते; अनेकक्षण ४ वृत्त्येकविज्ञानाभ्यु-
    पगमात् । अनेकार्थग्रहणं हि क्रमेणेति ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 186 स्कैन

७४ सर्वार्थसिद्धौ [ १।१३ § १८१ -
§ १८१. अभिहितोभयप्रकारस्य प्रमाणस्य आदिप्रकारविशेषप्रतिपत्त्यर्थमाह—
मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम् ॥१३॥
§ १८२. आदौ उद्दिष्टं यज्ज्ञानं तस्य पर्यायशब्दा एते वेदितव्याः; मतिज्ञानावरणक्षयोप-
शमान्तरङ्गनिमित्तजनितोपयोगविषयत्वादेतेषां श्रुतादिष्वप्रवृत्तेश्च । मननं मतिः, स्मरणं स्मृतिः,
५ संज्ञानं संज्ञा, चिन्तनं चिन्ता, अभिनिबोधनमभिनिबोध इति । यथासंभवं विग्रहान्तरं विज्ञेयम् ।
§ १८३. सत्यपि प्रकृतिभेदे रूढिबलाद्भवतु पर्यायशब्दत्वम् । यथा इन्द्रः२ शक्रः पुरन्दर
इति इन्धनादिक्रियाभेदेऽपि शचीपतेरेकस्यैव संज्ञा३ । समभिरूढनयापेक्षया तेषामर्थान्तरकल्पनायां
मत्यादिष्वपि स

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 187 स्कैन
  • ११४ § १८६ ] प्रथमोऽध्यायः ७५
    § १८४. अथस्यात्मलाभे किं निमित्तमित्यत आह—
    तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥
    § १८५. इन्द्तीति इन्द्र आत्मा । तस्य ज्ञस्वभावस्य तदावरणक्षयोपशमे सति स्वयमर्थान्
    ग्रहीतुमसमर्थस्य यदर्थोपलब्धि¹लिङ्गं तदिन्द्रस्य लिङ्गमिन्द्रि²यमित्युच्यते । अथवा लीनमर्थं गमय-
    तीति लिङ्गम् । आत्मनः सूक्ष्मस्यास्तित्वाधिगमे लिङ्गमिन्द्रियम् । यथा इह धूमोऽग्नेः । एवमिदं ५
    स्पर्शनादि करणं नासति कर्तर्यात्मनि भवितुमर्हतीति ज्ञातुरस्तित्वं गम्यते । अथवा इन्द्र इति
    नामकर्मोच्यते । तेन सृष्टमिन्द्रियमिति³ । तत्स्पर्शनादि उत्तरत्र वक्ष्यते ।
    § १८६. अनिन्द्रियं मनः अन्तःकरणमित्यनर्थान्तरम् । कथं पुनरिन्द्रियप्रतिषेधेन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 188 स्कैन

एव मनसि अनिन्द्रियशब्दस्य वृत्तिः । ईषदर्थस्य नञः प्रयोगात् । ईषद्विन्द्रियमनिन्द्रियमिति । यथा
अनु¹दरा कन्या इति । कथमीषदर्थः । इमानीन्द्रियाणि² प्रतिनियतदेशविषयाणि कालान्तरावस्था-
यीनि च । न तथा मनः इन्द्रस्य लिङ्गमपि सत्प्रतिनियतदेशविषयं कालान्तरावस्थायि च ।
§ १८७. तदन्तःकरणमिति चोच्यते । गुणदोषविचारस्मरणादिव्यापारे इन्द्रियानपेक्षत्वा-
च्चक्षुरादिवद् बहिरनुपलब्धेश्च अन्तर्गतं³ करणमन्तःकरणमित्युच्यते ।
§ १८८. तदिति किमर्थम् । मतिज्ञाननिर्देशार्थम् । ननु च तदनन्तरं 'अनन्तरस्य विधिर्वा
भवति प्रतिषेधो वा' इति तस्यैव ग्रहणं भवति । इहार्थमुत्तरार्थं च तदित्युच्यते । यन्मत्यादिपर्याय-
शब्दवाच्यं ज्ञानं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 189 स्कैन
  • ११५ § १९० ] प्रथमोऽध्यायः ७७

§ १८९. एवं निर्ज्ञातोत्पत्तिनिमित्तमनिर्णीतभेदमिति तद्भेदप्रतिपत्त्यर्थमाह—
अवग्रहेहावायधारणाः ॥१५॥
§ १९०. विषयविषयिसंनिपातसमनन्तरमाद्यं¹ ग्रहणमवग्रहः । विषयविषयिसंनिपाते सति
दर्शनं भवति । तदनन्तरमर्थ²ग्रहणमवग्रहः । यथा—चक्षुषा शुक्लं रूपमिति ग्रहणमवग्रहः । अवग्रह-
गृहीतेऽर्थे तद्विशेषाकाङ्क्षणमीहा । यथा—शुक्लं रूपं किं बलाका पताका³ वेति । विशेषनिर्ज्ञानाद्या- ५
थात्म्यावगमनमवायः । उत्पतननिपतनपक्षविक्षेपादिविर्बलाकैवेयं न पताकेति । अवेतस्य कालान्त-
रेऽविस्मरणकारणं धारणा⁶ । यथा—सैवेयं वलाका पूर्वाह्णे यामहमद्राक्षमिति । ⁷एषामवग्रहादीना-
मुपन्यासक्रम

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 190 स्कैन

§ १९१. उक्तानामवग्रहादीनां प्रभेदप्रतिपत्त्यर्थमाह—
बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् ॥१६॥
§ १९२. अवग्रहादयः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 191 स्कैन
  • ११६ § १९६ ] प्रथमोऽध्यायः ७९
    § १९४. बहुबहुविधयोः कः प्रतिविशेषः; यावता बहुष्वपि बहुत्वमस्ति बहुविधेष्वपि बहुत्व-
    मस्ति; एकप्रकारनानाप्रकारकृतो विशेषः । उक्तनिःसृतयोः कः प्रतिविशेषः; यावता सकलनिः-
    सरणान्निःसृतम् । उक्तमप्येवंविधमेव । अयमस्ति विशेषः, अन्योपदेशपूर्वकं ग्रहणमुक्तम् । स्वत एव
    ग्रहणं निःसृतम् ।
    § १९५. अपरेषां क्षिप्रनिःसृत इति पाठः । त एवं वर्णयन्ति श्रोत्रेन्द्रियेण शब्दमवगृह्यमाणं ५
    मयूरस्य वा कुररस्य वेति कश्चित्प्रतिपद्यते । अपरः स्वरूपमेवाश्रित्य२ इति ।
    § १९६. ध्रुवावग्रहस्य धारणायाश्च कः प्रतिविशेषः । उच्यते, क्षयोपशमप्राप्तिकाले विशुद्ध-
    परिणामसंतत्या प्राप्तात्क्षयोपशमात्प्रथमसमये

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 192 स्कैन

८० सर्वार्थसिद्धौ [ १।१७ § १९७ –
§ १९७. यद्यवग्रहादयो बह्वादीनां कर्मणामाक्षेप्तारः, बह्वादीनि पुनर्विशेषणानि कस्येत्यत
आह—

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 193 स्कैन
  • ११९ § २०१ ] प्रथमोऽध्यायः ८१
    § २००. व्यञ्जनमव्यक्तं¹ शब्दादिजातं तस्यावग्रहो भवति² नेहादयः। किमर्थमिदम् ।
    नियमार्थम्, अवग्रह एव नेहादय इति । स र्तहि एवकारः कर्तव्यः। न कर्तव्यः। 'सिद्धे
    विधिरारभ्यमाणो नियमार्थः ३ इति अन्तरेणैवकारं नियमार्थो भविष्यति। ननु अवग्रहग्रहणमुभयत्र
    तुल्यं तत्र किं कृतोऽयं विशेषः। अर्थावग्रहव्यञ्जनावग्रहयोर्व्यक्ताव्यक्तकृतो विशेषः। कथम् । अभि-
    नवशरावाद्रीकरणवत् । यथा जलकणद्वित्रा⁴सिक्तः सरावेाऽभिनवो नार्द्रीभवति, स एव पुनःपुनः ५
    सिच्यमानः शनैस्तिभ्यति, एवं श्रोत्रादिष्विन्द्रियेषु शब्दादिपरिणताः पुद्गला ५द्वित्रादिषु समयेषु
    गृह्यमाणा न व्यक्तीभवन्ति, पुनःपुनरवग्रहे सति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 194 स्कैन

८२ सर्वार्थसिद्धौ [ १।१९ § २०२ -
§ २०२. चक्षुषा अनिन्द्रियेण च व्यञ्जनावग्रहो न भवति । कुतः । 'अप्राप्यकारित्वात् ।
यतोऽप्राप्तमर्थमविदिक्कं युक्तं संनिकर्षविषयेऽवस्थितं बाह्यप्रकाशाभिव्यक्तमुपलभते चक्षुः मनश्चा-
प्राप्तमित्यनयोर्व्यञ्जनावग्रहो नास्ति ।
५ § २०३. चक्षुषोऽप्राप्यकारित्वं कथमध्यवसीयते । आगतो युक्तितश्च । आगमतस्तावँत्-
"पुट्ठं सुणेदि सद्दं अपुट्ठं चेव पस्सदे रूअं ।
गंधं रसं च फासं पुट्ठमपुट्ठं वियाणादि ।।"
§ २०४. युक्तितश्च - अप्राप्यकारि चक्षुः; स्पृष्टानवग्रहात् । यदि प्राप्यकारि स्यात् त्वगि-
न्द्रियवत् स्पृष्टमंजनं गृह्णीयात् न तु गृह्णात्यतो मनोवदप्राप्यकारीत्यवसेयम् । ततश्चक्षुर्मनसी
वर्जयित्वा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें