सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)
Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary
आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा
पृष्ठ 192, कुल 558 में से
संदर्भ में पढ़ें८० सर्वार्थसिद्धौ [ १।१७ § १९७ –
§ १९७. यद्यवग्रहादयो बह्वादीनां कर्मणामाक्षेप्तारः, बह्वादीनि पुनर्विशेषणानि कस्येत्यत
आह—
अर्थस्य ॥१७॥
§ १९८. चक्षुरादिविषयोऽर्थः । तस्य बह्वादिविशेषणविशिष्टस्य अवग्रहादयो भवन्तीत्य-
भिसंबन्धः क्रियते । किमर्थमिदमुच्यते यावता बह्वादिरर्थ एव । सत्यमेवं किन्तु प्रवादिकल्पना-
निवृत्त्यर्थं 'अर्थस्य' इत्युच्यते । केचित्प्रवादिनो मन्यन्ते रूपादयो गुणा एव इन्द्रियैः संनिकृष्यन्ते
तेनैतेषामेव ग्रहणमिति । तदयुक्तम्; न हि ते रूपादयो गुणा अमूर्ता इन्द्रियसन्निकर्षमापद्यन्ते । न १
तर्हि इदानीमिदं भवति रूपं मया दृष्टं गन्धो वा घ्रात इति । भवति च । कथम् । इयर्ति पर्यायांस्तै-
र्वाऽर्थत इत्यर्थो द्रव्यं तस्मिन्निन्द्र