मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
प्रकरण के सम्बन्ध की रक्षा की ओर दृष्टि रखने पर इसको अन्यथा करना सम्भव नहीं
२५ ] प्रथमाध्याये द्वितीयपादः १५७
अच्छी तरह पुरोडाश के पाक करने की प्रशंसा कथित होती है। फलतः, प्रकरण का
सम्बन्ध अक्षुण्ण रहता है। किन्तु इसको विधि मानने पर दर्शपूर्णमास प्रकरण में इसका
कोई भी सम्बन्ध नहीं रहेगा, क्योंकि, विधि “नैर्ऋतो विदग्धः कर्तव्यः” यही इसका याग
स्वरूप मानना पड़ेगा, किन्तु दर्शपूर्णमास प्रकरण में निर्ऋत याग का उपदेश नहीं है।
प्रकरण के सम्बन्ध की रक्षा की ओर दृष्टि रखने पर इसको अन्यथा करना सम्भव नहीं
है, अर्थवाद को विधि मानने में यह भी दोष है।
'प्रकरणे'=दर्शपूर्णमास आदि प्रकरण में, 'सम्भवम्' = अन्वय सम्भव होने पर,
'अपकर्षः'=प्रकरण से विच्युति, 'न कल्प्येत'=कल्पना करना उचित नहीं है;
“धियानर्थक्य”=विधि की व्यर्थता 'हि'=क्योंकि, “तं प्रति”=प्रकरण सम्बन्ध के पक्ष में,
जो प्रकरण में अन्वित हो सकता है उसका अपकर्ष अर्थात् प्रकरण से विच्युति करना
उचित नहीं है। प्रकरण का सम्बन्ध अक्षुण्ण रखने पर विधि मानना व्यर्थ है ॥ २४ ॥
विधौ च वाक्यभेदः स्यात् ॥ १.२.२५ ॥
शा० भा०—औदुम्बरो यूपो भवतीति विधावेतस्मिन्नाश्रीयमाणे ऊर्जोऽ-
वरुद्ध्या इत्येतस्मिंश्च वाक्यं भिद्येत । इत्थमौदुम्बरो यूपः प्रशस्तः, स चोर्जोऽ-
वरुद्ध्या इति । तस्माद् विधिवन्निगदानामपि स्तुतिरेव कार्यमर्थवादाना-
मिति ॥ २५ ॥
भा० वि०—एवं फलविधित्वनिराकरणेन स्तुतित्वमुक्त्वा विधित्वे दोषान्तर-
माह - विधौ वेति सूत्रं व्याचष्टे—औदुम्बर इति । एतस्मिंश्च विधावाश्रीयमाण
इत्यनुषङ्गः वाक्यभेदमभिनयति - इत्थमिति । औदुम्बरो यूपो भवतीत्यस्यैव
तावद्वर्तमानापदेशत्वसन्देहान्न विनार्थवादं पञ्चमलकारत्वेन विधित्वावसाय इति
प्रथमं तावदर्थवादतया सम्बन्धनीयमूर्जोऽवरुध्या इत्यन्तेन, पुनश्च तस्यैवोर्जोव-
रुध्यै यूपः कार्य इति विध्यन्तर्भावि वाक्यभेदः स्यादित्यर्थः; अधिकरणार्थमुप
संहरति—तस्मादिति । वायुर्वेत्यादिसमुच्चयार्थोऽपि शब्दः ॥ २५ ॥
त० वा०—स्तुतित्वेन विधिविभक्तिमुपजनय्य पुनस्तेनैव फलकल्पनायां
वाक्यभेदः तस्मादर्थवाद एवेति ॥ २५ ॥
(इति विधिवन्निगदाधिकरणम् ॥ २ ॥)
न्या० सु०—औदुम्बर इत्यादिभाष्यादौदुम्बरो यूपो भवतीत्यस्यापि प्राशस्त्यपरत्वं
प्रतिभाति । तच्चायुक्तम् । विध्येकवाक्यत्वं विनार्थवादत्वायोगात् । सोमापौष्णविध्येक-
वाक्यत्वाभ्युपगमे त्वौदुम्बरो यूपः प्रशस्त इतिभाष्यानुपपत्तिप्रसङ्गादित्याशङ्कयाह—
१५८ मीमांसादर्शनम् [ सू०
स्तुतित्वेनेति । न स्तुत्यर्थत्वेनेदमुपन्यस्तम्, किन्तु स्तुत्यन्वयवशनास्मिन्वर्तमानापदेश-
सन्दिग्धे पञ्चमलकारत्वनिश्चयात् विधावाश्रीयमाण इति स्तुतिनिश्चयेन विधित्वप्रतिपाद-
नार्थमिति भावः—उपजनय्येति । निश्चाय्येत्यर्थः ॥ २५ ॥
इति न्यायसुधायां द्वितीयमौदुम्बराधिकरणम् ।
भा० प्र०—'युक्तं तुवाक्यशेषत्वम्' इस सूत्र में कहा गया है कि वाक्य को विधि
मानने के लिए प्रथमतः इसको स्तुति अर्थात् अर्थवाद के रूप में इसको मानना होगा ।
‘वै’ आदि वाक्य को स्तुति के द्वारा विधि मानने पर वाक्यभेद का प्रसङ्ग होगा । वेद
में वाक्यभेद का परिहार ही समीचीन है । प्रकृत में ‘ऊग् वै’ इत्यादि वाक्य
को स्तुति के द्वारा अन्न रूप फल की विधि मानना उचित नहीं है, क्योंकि अन्न रूप फल
की विधि के लिए उदुम्बरत्व की प्रशंसा की गई है और उदुम्बरत्व का फल भी
विज्ञापित होता है—इस रूप में दो अर्थ मानने से वाक्यभेद होगा । इसलिए यह विधि
नहीं है, किन्तु अर्थवाद है ।
‘विधौ’=‘ऊक् वै’ इत्यादि वाक्य को विधि मानने पर, ‘च’=और, ‘वाक्यभेदः’=
वाक्यभेद नामक दोष, “स्यात्”=होगा, यदि विचार कर वाक्य को विधि मानने पर
वाक्यभेद दोष होगा ।
इस प्रसङ्ग में ‘वाक्यभेद’ दोष की अवगति करना आवश्यक है । अपौरुषेय वेद
वाक्य में वाक्यभेद एक दोष है । एक बार पठित वाक्य की आवृत्ति कर अनेक अर्थ
ग्रहण करना वाक्यभेद है । यह सत्य है कि पौरुषेय वाक्य में वाक्यभेद दोषावह नहीं
है । क्योंकि, अभिप्राय के अनुसार ही एक वाक्य के अनेक अर्थ की कल्पना की जा
सकती है । आकार इङ्गित और प्रमाणान्तर की सहायता से मनुष्य के अभिप्राय की
अवगति होती है । इन स्थलों में वक्ता के अभिप्राय के अनुसार एक वाक्य के अनेक अर्थ
की कल्पना दोषावह नहीं है । इसीलिए, श्लेषालङ्कार का प्रामाण्य रक्षित होता है ।
किन्तु, वेद अपौरुषेय है, उसका कोई स्वतन्त्र वक्ता नहीं है और स्वतन्त्र वक्ता न होने से
वेद में वक्ता के अभिप्राय के होने की सम्भावना ही नहीं है । वक्ता का अभिप्राय ही
तात्पर्य है, अतः, इस तात्पर्य लक्षण के अव्याप्ति-दोषदुष्ट होने से मीमांसक मत में तत्प्रतीत
गयोग्यत्व ही तात्पर्य है यह माना है । अनेक अर्थ मानने पर एक अर्थ को पौरुषेय
मानना होगा और पौरुषेय वाक्य वेदवाक्य न होने से उसका अप्रामाण्य भी अनिवार्य
है । ‘ग्रहं सम्माष्टि’ इस वाक्य में ग्रह=यज्ञीयपात्र विशेष का सम्मार्जन विहित है, किन्तु
उसका एकत्व और अनेकत्व अविवक्षित है । क्योंकि ग्रह का मार्जन एवं ग्रह का एकत्व
एक प्रयत्न से एक वाक्य के द्वारा विहित नहीं हो सकता है, क्योंकि ग्रह के एकत्व की
विवक्षा करने पर “ग्रहं सम्माष्टिः तं च एकम्” इस प्रकार दो वाक्य होगा और द्वितीय
वाक्य पौरुषेय अर्थात् पुरुषकृत आवृत्ति के द्वारा कथित होने से प्रमाण नहीं है । इसलिए
२६ ] प्रथमाध्याये द्वितीयपादः १५९
भामती की टीका कल्पतरु में कहा है कि—"अपौरुषेयी श्रुतिः पौरुषेयीमावृत्तिं न सहते"
अर्थात् अपौरुषेय वेद पुरुषकृत आवृत्ति का सहन नहीं करता है। अर्थात् आत्मीय रूप में
उसका सहन नहीं हो सकता है। इसीलिए वेद वाक्य अर्थ "यावद्वचन" जितने पद
हैं, उन कतिपय पदों से जो अर्थ होता है; वही ग्राह्य है और अध्याहार आदि के द्वारा
अन्य अर्थ करना सर्वथा असङ्गत है। क्योंकि वह अध्याहृत अर्थ पौरुषेय होगा। किन्तु
जहाँ कोई उपाय नहीं है, वहाँ वेद में भी अगत्या वाक्यभेद मानना ही पड़ता है, इसलिए
उपायान्तर के सम्भव होने पर वाक्यभेद अवश्य ही परिहार्य है ॥ २५ ॥
[ ३] हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ॥ १.२.२६ ॥
शा० भा०—अथ ये हेतुवन्निगदाः 'शूर्पेण जुहोति, तेन ह्यन्नं क्रियत (तै०ब्रा०
१।६।५) इत्येवमादयः, तेषु सन्देहः—किं स्तुतिस्तेषां कार्यमुत हेतुरिति । किं
प्राप्तम् ? हेतुः स्यादन्नकरणं होमस्य ।
नन्वप्रसिद्धे कार्यकारणभावे न हेत्वपदेशः । सत्यमेवं लोके, विधायिष्यते तु
वचनेन वेदे । शूर्पेण होमे कर्तव्येऽन्नकरणं हेतुरित्युपदिश्यते । किं प्रयोजनम् ?
अन्यदपि दर्व्विपिठरादि अन्नकरणं यत्, तेनापि नाम कथं होमः क्रियेतेति ।
कुतः ? तस्याप्यन्नक्रियायामर्थवत्ता । शक्यते च तेनाप्यन्नं कर्तुम् । एतद्धि क्रियत
इत्युच्यते । न हि वर्तमानकालः कश्चिदस्ति, यस्यायं प्रतिनिर्देशः । हेतौ च
श्रुतिः, स्तुतौ लक्षणा । यदि च दर्व्विपिठरादि न साक्षादन्नं करोतीति, नान्नकरण-
मित्यच्यते । व्यर्थे तस्मिन् शूर्पस्तुतिरनर्थिका स्यात् । शूर्पमपि हि न साक्षादन्नं
करोतीति, तेन विनाऽर्थेन शूर्पस्य स्तुतिर्नोपपद्यते ॥ २६ ॥
भा० वि० अधिकरणस्य विषयमाह — अथेति । श्रेयस्साधनत्वप्रतिपादक-
विधिविभक्त्यभावेन विधित्वाभावेऽपि हिशब्दादिभिः हेतुत्वं भविष्यतीति पूर्वा-
धिकरणसिद्धान्तहेतुप्रत्युदाहरणेनात्र पूर्वपक्षोत्थानादस्य तत्सङ्गतिरिति प्रकृता-
पेक्षितववाचिनाथशब्देन सूचितं ये हेतुवन्निगद्यन्ते, ननु 'चतुर्गृहीतान्याज्यानि
भवन्ति, नह्यत्रानुयाजा इज्यन्ते' इतिवत् परमार्थहेतवः, ते हेतुवन्निगदास्तेनेति
तृतीयाया शूर्पकरणमुच्यते करणमात्रं वेत्यपि निगमात् संशयमाह—तेष्विति ।
विमर्शपूर्वकं हेतुरिति पूर्वपक्षप्रतिज्ञां व्याचष्टे —किमित्यादिना । होमस्य=होम-
सम्बन्धस्येत्यर्थः । अत्र च पूर्वाधिकरण-पूर्वपक्षसूत्रात् अपूर्वत्वादिति हेत्वाकर्षार्थं-
स्सौत्रो वा शब्दः, स च भाष्यकृता स्यादित्यनेनैव व्याख्यातः । यद्यपि शूर्पेण
जुहोतीति वर्तमानापदेशस्यार्थवादविधुरस्य विधायकत्वात् अर्थवादतयोपयुक्तस्य
तेन हीत्यादेः पूर्वाधिकरणन्यायेन वाक्यभेदेन पुनर्हेतुविधित्वासंभवाद्विहिते
शूर्पहोमसम्बन्धे निर्विषयस्य हेतुविधानस्यासम्भवः तथापि होमकर्तव्यताया
१६० मीमांसादर्शनम् [ सू०
वाक्यान्तरसिद्धत्वाच्छूर्पहोमसम्बन्धस्य च शूर्पेणेत्यस्मादवगतेः अनुष्ठानस्य च
प्रयोगविधिना सिद्धेर्विध्यभावान्नार्थवादत्वम्, नाप्यानर्थक्यम्, तेन ह्यन्नमिति
शूर्पहोमसम्बन्धे अन्नकरणत्वरूपहेत्वपदेशान्यथानुपपत्त्या यद्यदन्नकरणं तेन तेन
होतव्यमिति विधिवाक्यानुमापकत्वात् अरयेति भावः ॥ २६ ॥
त० वा०—इह ये हेतुवन्निगद्यन्ते हिशब्दादिभिः न च परमार्थहेतवः, त
उदाहरणम् । तत्र यदि तावद्धेतुत्वं विधीयते, ततः पूर्वेणैव गतम् । यदिह हेतुत्वं
तच्छूर्पहोमसम्बन्धं प्रति, न चाविहितोऽसावस्तीति, कस्य हेतुरुच्यते ? अथ
भूतानुवादमात्रम्, तत्तु वायुक्षेपिष्ठत्ववद्गतमित्यनारब्धव्यमेतत् । उच्यते । न
तावदनेनैव वाक्येन हेतुत्वं विधीयते । न च भूतानुवादमात्रम्, किं तर्हि, हेतोः
प्रसिद्धपूर्वकत्वादसिद्धवदुपदिष्टस्य यावत्यसिद्धचाशङ्का, तत्राथर्ापत्तिलभ्याद्वचना-
त्सिद्धिः । याऽपि चार्थवादाकाङ्क्षा कस्मादिति ? साऽप्यनेनैव हेतुना निवर्त्यत
इति मन्यते । अथाप्यर्थवादत्वम्, तथाऽपि तदन्तर्निर्णीतहेतुत्वमेवेति, सर्वान्नकरण-
विषयं विज्ञायते । ततश्च हेतुरप्यस्तीति पूर्वः पक्षः । सम्बन्धस्य च विधेयत्वात्-
दगतमेव हेतुत्वं होमस्येति वदति—नन्वप्रसिद्धे कार्यकारणभाव इति । केचि-
दाहुः । कार्यकारणयोरेवानुमानम् । तथा च दध्नेन्द्रियकामस्येत्यत्रापि वक्ष्यति ।
तत्तवयुक्तम् । अकार्यकारणभूतानामपि कृत्तिकादीनामचिरोद्गतरौहिण्यादिप्रति-
पत्तिहेतुत्वदर्शनात् । अतो गम्यगमकत्वमेव कार्यकारणभावं मन्यते ।
ननु सोऽप्यनुमानोत्तरकालीनत्वादनङ्गम् । सत्यम् । अन्यस्मिन्नेव तु सम्बन्धे
सति पाश्चात्यप्रसिद्धयन्तमेनमनुमानव्यवहारोपलक्षणत्वेनोपन्यस्यति । यद्वा शक्त्य-
भिप्रायम् । ययोरेव हि व्याप्तिग्रहणकाले गम्यगमकसामर्थ्यात्मना कार्यकारण-
भावित्वेन साऽवधृता तत्रैव हेतुता ।
अथ वा उदाहृतविषयहेतुलक्षणमेतत् । अविनाभावो ह्यनेककार्यकारण-
स्वस्वामिसहचरभावादिप्रभेदभिन्नः, तत्रान्नकरणता होमे हेतुत्वेनोच्यमाना
सम्बन्धान्तराभावात्कारणत्वेन स्यात् । तच्चाप्रसिद्धं तस्मान्न हेत्वपदेशः सत्यम् ।
लोके हेतुव्यवहारकालात्प्रथमं प्रमाणान्तरेण सम्बन्धप्रसिद्धिरपेक्ष्यते । वेदे तु
हिशब्दप्रतिपादितहेतुत्वान्यथानुपपत्त्या सम्बन्धाभिधायि दृष्टान्तवचनं कल्प्येत-
यद्यदन्नकरणम्, तेन तेन जुहोतीति, तेन चोपपन्नं हेतुत्वम् । किं प्रयोजनमिति ।
यदि च हेतुरवतिष्ठेतेत्यनेनाभिप्रायेण । अपरस्त्वाह—व्याप्तौ सिद्धायां सर्वान्न-
साधनसाधनको होमः सिद्धो भवति । कुत इति । स एव सिद्धान्ताभिप्रायः ।
अथ वा कुतो दर्व्विपिठरादेः साधकतमत्वम् । इतरस्त्वाह—अन्नक्रियायां
तावत्तस्यार्थवत्ताऽस्ति, तावन्मात्रं वाश्रयिष्यते । शक्यते च तेनापीति । उपपत्ति-
२६ ] प्रथमाध्याये द्वितीयपादः १६१
शब्दस्यार्थः । पूर्वेण तु समानार्थता गम्यते । तेन विवक्षा । शक्त्यभिप्रायमेतत् ।
यदेव हि तदुपयोगिमात्रम्, तदेव शक्यते कथञ्चित्साधकतमत्वेन विवक्षितुम् ।
अथवाऽर्थवत्त्वं करणविभक्तिनिर्देशालम्बनमुपपत्त्या पुनर्वर्तमानानन्नक्रियस्य
हेतुत्वाभिधानात्तादृशस्य होमं प्रत्यनुपपत्त्याशङ्क्योपपत्तिं वदति—शक्यते च
तेनेति । तत्र चोदयति । एतद्धि क्रियत इत्युच्यते । तत्कथं शक्यत इत्यभि-
धीयते । वर्तमानक्रियास्यासम्भवादित्युत्तरम् । यद्वा स्वयमेवाऽऽशङ्क्य परिहरति—
यदि च न दर्विपिठरादीति । उभयोः परामर्शः । साधकतमत्व-वर्तमानत्वे चेत्तत्र
न विद्येते, शूर्पेऽपि तथैवेति स्तुतिर्न स्यात् । तेन यथा तव स्तुत्यर्थः, कथ-
ञ्चिद्विद्यते तथा मम हेत्वर्थ इत्यविशेषः । हेतौ च श्रुतिरित्यादि असम्बद्धवाक्य-
सम्बन्धिदोषादन्ते द्रष्टव्यम् । स्तुतौ लक्षणेति । अन्नकरणत्वेन सर्वजनाभिमतेन
प्राशस्त्यं लक्ष्यते । शूर्पेणेति चास्मिन्पक्षे नित्यानुवादोऽन्नकरणसामान्येनैव
प्राप्तस्य ।
इत्थं वा सूत्रगमनिका । तत्रार्थवादात्प्रयोजनवत्तरत्वमुपपत्तिरित्यप्रसिद्धं
सम्बन्धोऽपि, काल्पनिकवाक्याश्रयणात् । तस्माद्धेतुः ॥ २६ ॥
अथ तृतीयं हेतुवन्निगदाधिकरणम् ।
न्या० सु०—अधिकरणविषयप्रदर्शनार्थमथेति भाष्यं व्याचष्टे—इहेति । पूर्वप्रकृता-
पेक्षित्वावाच्यथशब्दप्रतिपादितपूर्वाधिकरणसङ्गतिसूचनार्थं हिशब्दादिभिरित्युक्तम् । पूर्वत्र
श्रेयःसाधनत्वप्रतिपादकविधिशब्दाभावेनौदुम्बरो यूपो भवतीत्यादीनां विधित्वे निराकृते,
तेन ह्यन्नं क्रियत इति हेतुत्वप्रतिपादकहिशब्दसद्भावेन हेतुत्वं भविष्यतीति पूर्वाधिकरण-
सिद्धान्तहेतुप्रत्युदाहरणरूपेणात्र पूर्वपक्षोत्थानात्सङ्गतिः । न च परमार्थहेतव इत्यनेन
हेतुवदिति वतेर्व्यावर्त्त्यं दर्शितम् । 'चतुर्गृहीतान्याज्यानि भवन्ति, न ह्यत्रानुयाजान् यक्ष्य-
न्भवती'त्यादयः—परमार्थहेतवः । आतिथ्येष्वानूयाजाभावेऽपि अष्टावुपभृति गृह्णातीति
प्रकृतौ विहितस्योपभृत्यष्टगृहीतस्य चोदकप्राप्तस्य निवृत्त्यर्थं चतुर्गृहीतत्वे विधीयमानेऽनु-
याजाभावस्य हेतुत्वाभिधानात् यत्र यत्रानुयाजाभावः, तत्र तत्राष्टगृहीताभाव इति ज्ञायते ।
प्रकृतौ चाष्टग्रहणस्य चतुर्द्वयद्वयलक्षणार्थत्वद्योतनार्थप्रयाजार्थं जुह्वां समानयने नियोगतोऽर्द्ध-
मेव समानेतव्यमिति ज्ञायते ।
हेतुः स्यादिति पूर्वपक्षभाष्यं हेतुविध्यभिप्रायम्, अनुवादाभिप्रायं वेति विकल्प्य विधि-
पक्षे तावदौदुम्बराधिकरणनिरस्तत्वादयुक्तमित्याक्षिपति—तत्रेति । यथा तत्र यदिह
फलवचनम्, तदौदुम्बरस्य यूपस्येत्यादिना प्रत्यक्षस्य विधेरभावात्कल्प्यस्य च कार्यविशेष-
सम्बन्धित्वेनैव कल्पयितुं शक्यतया, कार्यान्तरं प्रत्यभावात्फलपरत्वे स्वरूपविधानाशक्ति-
प्रसक्तेः फलवचनानर्थक्यमुक्तम्, तथेहापि प्रत्यक्षविध्यभावात्कल्प्यस्य च हेतुपरत्वेऽन्नकरण-
११
१६२ मीमांसादर्शनम् [ सू०
मात्रस्य होमसाधनत्वविध्यनुमानेन शूर्पस्यापि प्राप्तिसम्भवाच्छूर्पहोम सम्बन्धविधानानुपपत्ते-
स्तत्र हेतुविधानार्थक्यम् । अन्नकरणमात्रस्य तु होमसम्बन्धं प्रति हेतुविधानमितरेतरा-
श्रयापत्तेरनाशङ्क्यमेवेति शूर्पहोम सम्बन्धं प्रतीति काक्वा द्योतितम् । अनुवादपक्षे त्वा-
नर्थक्येन पूर्वपक्षः प्रसज्येत । तत्त्वर्थवादाधिकरणे निरस्तमित्याह - अथेति । ततश्च पूर्वं-
पक्षासम्भावनाऽधिकरणारम्भो न युक्त इत्याह- इतीति ।
समाधत्ते - उच्यत इति । अस्यार्थः - नानेन शूर्पस्य होमसाधनत्वमुद्दिश्य तन्नान्नक ण-
त्वस्य हेतुत्वविधिराशङ्क्यते । यः पूर्वन्यायेन निरस्येत । यच्चात्रान्नकरणहेतुकन्दर्यादि-
र्होमसाधनत्वं विधेयमाशङ्क्यते, तन्न याच्छ्रूतेन विधीयते, येन गौरवापत्त्या निरस्येते-
त्यनेनैवेत्येवकारेण सूचितम् । एतच्च केवलहेतुत्वेन पूर्वपक्षमङ्गीकृत्योच्यते ।
यदा तु शूर्पेण जुहोतीति विधिमङ्गीकृत्य तेन ह्यन्नं क्रियत इत्यस्य तच्छेषत्वेनार्थ-
वादत्वमभ्युपगम्य तदालम्बनसिद्धयर्थं हेतुविधिरपि दर्यादिप्राप्तिफलको भविष्यतीति,
हेत्वर्थवादसमुच्चयेन पूर्वपक्षः क्रियते; तदा पूर्वन्यायनिरस्तत्वाशङ्कव नास्तीति तावच्छब्देन
सूचितम् । न चेत्यानर्थक्यपरिहारायोक्तम् । कि तर्ह्यस्य प्रयोजनमिति पृष्टे, सिद्धवदुप-
दिष्टस्य हेतुत्वस्य यावत्यन्वयांशे प्रसिद्ध्याशङ्का, तत्रांशे अर्थापत्तिलभ्याद्वचनात्सिद्धि-
रित्युक्तम् । हेतोरन्वयकल्पकत्वोपपादनाय प्रसिद्धिपूर्वकत्वादित्युक्तम् । न चात्र सिद्धवच्छब्द-
प्रयोगमात्रेण हेत्वनुवादाशङ्का । अप्राप्ताननुवादायोगानुपदिष्टस्येति यस्य ते हेतुविधिरित्ये-
तद्भाष्यव्याख्यायां च तव हेतुविधिर्वादितादित्याद्यभ्युपेत्य वादे च यद्यपि हेतुविधानमिति
स्पष्टम् । विधेयत्वाभिधानात् साधुशब्दाधिकरणे च व्याकरणस्यासन्देहप्रयोजनत्वनिग-
करणावसरे तथा हेतुविधिर्हेत्वर्थवादो वेति हेत्वधिकरणविचारं स्वयमेव दर्शयिष्यति ।
अज्ञातज्ञापत्वरूपस्य चात्र विधेयत्वस्यानुष्ठाप्यरूपविधेयत्वाभावप्रतिपादनार्थेन सिद्धवच्छ-
ब्देनाभिप्रेतत्वान्नव्यापारत्वे हेतुत्वस्याविधेयत्वं वाच्यम् । गौरवं तु कल्पकपदमहितैः श्रुतैः
पदैर्हेतुविधिपूर्वकं तदन्यथानुपपत्त्याऽन्वयकल्पनाभिधानात्परिहृतम् ।
ननु सर्वस्य विधिपरत्वेऽर्थवादाभावाद्बिधिरवसीदेत आह-यापि चेति । कस्मादेत-
त्कर्त्तव्यमित्याशङ्कायामर्थवादाः सम्बन्ध्यन्ते । सा चात्र हेतुनैव पूरितेति भावः । यद्यपि
कथं भावापेक्षयाऽर्थवादाः संबन्ध्यन्ते, तथापि कर्त्तव्यमित्युक्ते कस्मादिति या पुरुषस्यापेक्षा
जायते, सेह हेतुपूरणार्थत्वाय दर्शिता । यद्यपि चेयं प्राशस्त्यविषयापेक्षा, तथापि सादृश्या-
दुभयविषयत्वभ्रमः पूर्वपक्षिण इति मन्यत इत्यनेन सूचितम् ।
यद्वा हेत्वर्थवादसमुच्चयेनायं पूर्वपक्षो न केवलहेतुत्वेनेत्याह - अथापीति । तदर्थ-
वादत्वमन्तर्निणीतं हेतुत्वमस्मिन्नित्यर्थः । भवतु तर्हि तेन ह्यन्नमित्यर्थवादः । तदुन्मीलितः
शूर्पेण जुहोतीति विधिः, तथापि तेनेत्यर्थवादानुसाराद्दर्यादीनामपि शूर्पतुल्यता, न तु
व्यावृत्तिः । अत एव शूर्पशब्देन लक्षणयान्नकरणेन जुहोतीति विधीयते । अस्मिन्नर्थवादे
सालम्बनत्वाय हेतुत्वेनाप्युपयोग इति, हेतुरपीत्यपिशब्देन समुच्चयो दर्शितः । होमस्या-
२६ ] प्रथमाध्याये द्वितीयपादः ·१६३
विधेयत्वेन हेत्वनाकाङ्क्षत्वात्तं प्रति हेतुविधानमयुक्तमाशङ्क्य, होमशब्दस्य सम्बन्ध-
लक्षणार्थत्वमाह—सम्बन्धस्य चेति ।
नन्विति भाष्यस्य परेषां व्याख्यानं दूषयितुमुपन्यस्यति-नन्विति । अन्यत्राप्येवमेवोक्त्या
भाष्यकृत्सम्मतिं प्रकटयति-तथा चेति । यद्धि यस्य कारणभूतं दृष्टम्, सिद्धे तच्चेत्साध्येऽपि१
कारणभूतमवगतं भवेत्, तत्तस्य साधनमिति भाष्ये वक्ष्यते दूषयति — तच्चेति ।
स्वयं त्रेधा व्याचष्टे — अत इति । क्रियासामान्यवाचिना करोतिना ज्ञानाख्यक्रिया-
विशेषो लक्ष्यत इति भावः । शङ्कते — नन्विति । अङ्गभूतनियमरूपसम्बन्धोपलक्षणत्वेना-
यमुपन्यस्तः, नाङ्गत्वेनेति परिहरति — सत्यमिति । अनुमाने व्यवह्रियते—अनेनेति ।
नियमोऽनुमानव्यवहारशब्देनोक्तः ।
एवं तु लक्षितलक्षणाप्रसङ्गाद् गम्यगमकलक्षणार्थाभ्यां कार्यकारणशब्दाभ्यां परेण
भावप्रत्ययेन कृतद्धितसमासेषु भावप्रत्ययेन सम्बन्धाभिधानमितिस्मरणात्, गम्यगमक-
सम्बन्धाभिधानाद् गम्यगमकयोश्च नियमलक्षणस्य सम्बन्धस्य शक्तिरूपत्वात्तत्प्रतिपादना-
र्थतदुक्तमिति पूर्वापरितोषाद्व्याख्यानान्तरमाह—यद्वेति । ननु शक्तिनिरपेक्षस्य हेतोर्व्या-
प्तिमात्रेण गमकत्वात्तत्प्रतिपादनं व्यर्थमत आह—ययोरेव हीति । ययोरेव सा शक्तिरव-
धृता, तत्रैव तयोरेव मध्ये एकस्येतरप्रति हेतुता। तत्रेति निर्धारणे सप्तमीद्विवचनं गमकस्य
चाधारत्वम्, गम्यस्य च विषयत्वम्, गम्यविषयागमकाधारत्यर्थः । कीदृशी शक्तिरित्यपेक्षिते
गम्यगमकसामर्थ्यात्मनेत्युक्तम् । तृतीयेत्थंभूतलक्षणे गम्यगमकसामर्थ्यरूपेत्यर्थः । तस्याः
प्रतिपत्त्युत्तरकालत्वेनानङ्गत्वमाशङ्क्य२--व्याप्तिग्रहणकाल इत्युक्तम् । कार्यावसेयत्वाच्छक्तेः
कथं ततः प्रागवधारणमित्याशङ्क्य, कार्यकारणभावित्वेनेत्युक्तम् । अयमाशयः—नियम-
लक्षणः सम्बन्धोऽनुमानाङ्गम् । न चासावविनाभावमात्रेण भवति सत्यप्यविनाभावे हिंसा-
त्वाधर्म्मसाधनत्वयोर्नियम्यनियामकत्वाभावात् किं त्वाक्षेप्याक्षेपकभावेन यद्यस्मिन्सत्य-
नेनावश्यं भवितव्यमिति यदाक्षेपकशक्तत्वेनावसोयते, तदेव तेन नियन्तुं शक्यते स्वरूप-
प्रयुक्तं हि साहित्यं नियमः, प्रयोजकत्वं चाक्षेपकत्वम् । एतच्च विस्तरेणाचार्य्यैरनुमान-
वादेऽभिहितम् ।
'व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्म्मः प्रयोजकः ।
अस्मिन्सत्यमुना भाव्यमिति शक्त्या निरूप्यते ॥
तस्माद्य एव यस्यार्थो नियतो ऽदृष्टशक्तिकः ।
स एव गमकस्तस्य न प्रसङ्गान्वितो ऽपि यः ॥
साध्यहेतुत्वमर्थानां व्याप्तिशक्त्यनुरोधतः ।
श्लो० अनु० परि० सं० १४,२३,११०; इतिच ।
१. यद्धि वह्न्यादिः यस्य धूमादेः सिद्धे महानसे साध्येऽपि पक्षेऽपीत्यर्थः ।
२. प्रतीत्युत्तरेति २ पु० पा० ।
१६४ मीमांसादर्शनम् [ सू०
सा चाक्षेपशक्तिर्व्याप्तिग्रहणकाल एवावधार्यते—तथा हि । धूमस्याग्निसाहित्यं नित्यं
दृश्यते, तस्य धूमस्वरूपप्रयुक्तत्वाभावे नित्यत्वायोगादर्थापत्त्या धूमस्वरूपस्य प्रयोजकत्वम्,
कल्प्यते । तत्र धूमत्वश्यामलत्वोर्द्धंगतित्वायनेकसम्पाते धूमत्वमेवप्रयोजकम्, नान्यदिति व्यवस्था
शक्त्या विनानुपपद्यमाना शक्तिं कल्पयति । अतोऽनुमानाङ्गभूतनियमलक्षणसंबन्धसिद्धय-
र्थेयं शक्तिः न गम्यगमकभावसिद्धयर्था, येन तदुत्तरकालावसेया स्यात् । सत्यां तु शक्तौ,
नियमवच्च तेन गम्यगमकभवो भविष्यतोति भाविनीं गम्यगमकतामालोच्य गम्यगमक-
शक्तिरित्युच्यते । तदेव कार्यकारणभावित्वेनेति भविष्यत्कालवाचिगम्यादिपठितभाविशब्द-
प्रयोगेण दर्शितम् । कार्यकारणशब्दौ गम्यगमक।रो व्याख्यातौ ।
यस्मिन्सामर्थ्ये सति नियामकमग्न्यादि गम्यं भविष्यति, नियम्यं च धूमादि गमकं
तत्कार्यकारणभाविसामर्थ्यम्, तस्य भावः कार्यकारणभावित्वं तेनेतीयमपि तृतीयेत्थंभूतलक्ष-
णार्थैव । अनेन च भाष्यगतो भावशब्दो भवतेर्णिजन्तादेरजित्यच्प्रत्ययमुत्पाद्य भावनार्थो
व्याख्यातः । भावनं चोत्पादनम्, तच्च शक्त्यधीनमिति, कार्यकारणभावशब्देन गम्यगमक-
भावापादिका शक्तिरुक्ता भवति ।
एवमपि कार्यकारणशब्दयोर्लक्षणावृत्त्यपरिहाराद्भावशब्दस्य शक्तावप्रयुक्तत्वादपरि-
तोषात्स्वमतेनान्यथा व्याचष्टे—अथ वेति । काणादा ह्यस्येदं कार्यं कारणं संयोगि समवायि
एकार्थसमवायिविरोधि चेति लैङ्गिकमित्यनुमानाङ्गभूताविनाभावोपाधित्वेन कार्यकारण-
भावादिच्छन्ति । लोकेऽपि त्वेवमेव दृश्यते । इह चान्नकरणत्वेन दर्व्यादेर्होमसाधनत्वं
विधीयमानमन्नकरणत्वकारणकमेव भवति । भाष्यगतहोमशब्दवच्चात्रत्योऽपि संवन्धलक्ष-
णार्थः । आक्षेपभाष्यमुपसंहरति-तस्मादिति । हेतुव्यपदेशशब्देनैतदुक्तम्, हेतुर्हि प्रमाणान्तर-
प्रसिद्धः स व्यपदेश्यः सिद्धवत्कीर्त्तनीयो भवति, न चायं तथेति, न हेतुत्वं युक्तमिति ।
सत्यमिति समाधानभाष्यं व्याचष्टे—सत्यमिति । अनेन च विधायिष्यते कार्यकारण-
भावो दृष्टान्तवचनेन कल्प्येतेति व्याख्यातम् । दृष्टान्तशब्देन दृष्टश्चासावन्तश्चेति समीप-
वचनान्तशब्दाङ्गीकारेण सह दृष्टिरूपास्यान्याप्तिरुक्ता । कल्पिताया अपि व्याप्तेरशाब्द्याः
शाब्देन हेतुनाऽन्वयमाशङ्क्यान्यसिद्धयर्थं वचने कलानमुक्तम् ।
सप्तमेऽपि वचनं पुनर्द्विविधं प्रत्यक्षमानुमानिकं चेति वदता भाष्यकारेण श्रुतार्थापत्तेः
शब्दकल्पकत्वमेव प्रकटितम् । शब्दकल्पकत्वानङ्गीकारे चाग्नये जुष्टन्निर्वपामीत्यादेर्मन्त्रस्य
विकृतावसन्निहिताग्न्यादिपदनिवृत्त्या साकाङ्क्षस्यापि सूर्यादिनार्थेन नैराकाङ्क्ष्यसिद्धेनं
सूर्यादिपदप्रक्षेपेणोहः सिद्धयेत् सूत्रकृताव्यर्थाद्वा कल्पनैकदेशत्वादिति स्रुवेणावद्यतीत्यादि-
श्रुतवाक्यैकदेशादश्रुत इव द्रव्यमित्यादिपदकल्पनैवोक्ता ।
चतुर्थेऽप्यश्रुतफलेष्वेकाहकाण्डपठितेषु विश्वजिदादिषु ‘चोदनायां फलाश्रुतेः कर्ममात्रं
विधीयते न ह्यशब्दं विधीयत इति फलप्रतिपादकशब्दाभावान्निष्फलत्वं पूर्वपक्षयित्वा ‘अपि
वाम्नानसामर्थ्याच्चोदनार्थेन गम्येत अर्थानां ह्यर्थवत्त्वेन वचनानि प्रतीयन्ते अर्थतो ह्यसम-
२६ ] प्रथमाध्याये द्वितीयपादः १६५
र्थानाम्मानन्तर्य्येऽपि असम्बन्धः तस्माच्छ्रुत्येकदेशः स' इति श्रुतवाक्यैकदेशभूतस्वर्गकामा-
दिपदकल्पनमेव वक्ष्यते । अर्थस्य शब्दैकदेशभूतस्वर्गकामादिपदकल्पनमेव वक्ष्यते । अर्थस्य
शब्दैकदेशत्वायोगाच्छ्रुतार्थापत्तिमाहुर्यं शब्दस्याकल्पिकाम्, अतः सूत्र-भाष्य-न्याय-
तन्त्रविरोधात्ते निराकृताः ।
कीदृशं दृष्टान्तवचनमित्यपेक्षिते दर्शयति—यद्यदिति । शूर्पेण होम इति भाष्यं हेतुः
स्यादित्यनेन पुनरुक्तमाशङ्क्य उपसंहारार्थत्वेन व्याचष्टे—तेन चेति । शूर्पेण होमे
कर्त्तव्ये इति द्वितीयपूर्वपक्षाभिप्रायेणोक्तम् । प्रथमपूर्वपक्षे तु समस्तस्य वाक्यस्य केवलहेतु-
परत्वात्तदर्थानुपपत्तिकल्पितसर्वान्नकरणसाधनत्वविधिप्राप्तत्वेन शूर्पस्य तच्छ्रुतेरवयुत्यानु-
वादत्वादुपलक्षणार्थं शूर्पग्रहणम् । शूर्पेणान्येन वा होमः कर्त्तव्य इत्यर्थः । किं प्रयोजन-
मिति प्रश्नभाष्यं व्याप्तिवचनकल्पनेन प्रयोजनस्योक्तत्वादयुक्तमाशङ्क्य व्याचष्टे—किं
प्रयोजनमिति । द्वितीये पूर्वपक्षे चैतदुक्तं तदा हि शूर्पेण जुहोतीति विधेस्तेन ह्यन्नं क्रियत
इत्यर्थवादनिराकाङ्क्षत्वे सत्यपि, शूर्पासम्भवेऽनुकल्पभूतदर्व्यादिप्राप्त्यर्थं तेन ह्यन्नं क्रियत
इत्यस्यापि परावृत्त्य हेतुपरतेष्यते । तत्र शूर्पश्रुतेरुपलक्षणार्थत्वात्तेन ह्यन्नं क्रियत इत्य-
विशेषेणान्नकरणमात्रस्य हेतुत्वप्रतिपादनान्न हेतुपरत्वे व्यवस्था लक्ष्यत इति, श्रुतविधि-
त्यागेनाश्रुतविधिकल्पनस्य किं प्रयोजनमिति प्रश्नाभिप्रायो व्याख्येयः ।
द्विविधमपि प्रश्नाभिप्रायन्निराकर्त्तुमन्यदपीत्युत्तरभाष्यं व्याचष्टे—अपरस्त्वाहति ।
शास्त्रस्य महाविषयत्वम्, पुरुषस्य चानुष्ठानसौकर्य्यमश्रुतविधिकल्पनस्य अनेन प्रयोजनमुक्तम् ।
अन्नकरणत्वाविशेषात्सर्वेषां होमसाधनत्वेऽभिहिते, कुत इति प्रश्नभाष्यन्निराभिप्रायमा-
शङ्क्याह—कुत इति तेनेति । शूर्पपरामर्शितत्प्रातिपदिकात्परया तृतीया शूर्पंगतस्यै-
वान्नरकरणत्वस्य हेतुत्वाभिधानात् कुतो दर्व्यादिप्राप्तिरिति यः सिद्धान्ताभिप्रायः यदि च
हेतुरित्यत्र सूत्रे वक्ष्यते, स एवात्र प्रश्ने ज्ञेय इत्यर्थः ।
अभिप्रायन्तरमाह—अथ वेति । अभिप्रायद्वयनिराकरणार्थत्वेन सौत्रार्थवत्त्वपद-
व्याख्यानार्थं तस्यापीति भाष्यं व्याचष्टे—इतरस्त्वाहति । तृतीयोपात्तस्य करणत्वस्य
हिशब्दोपात्तहेतुत्वविधावुद्देश्यत्वान्नाप्रातिपदिकान्वयलाभेन शूर्पंगतत्वेन विशेष्टुमशक्यत्वात्
अन्नकरणमात्रस्य हेतुत्वाद्व्यादिप्राप्तिसिद्धिरित्याद्यभिप्रायार्थः । करणत्वं चार्थवत्त्वशब्देना-
भिप्रेतं द्वितीये रूपयोगित्वं दव्यदिः पाकाद्यपेक्षया विप्रकर्षेऽपि यदन्नक्रियायामुपयोगित्वं
तदेवात्यन्तविप्रकृष्टलाङ्गलाद्यपेक्षया साधकतमत्वेन विवक्ष्यत इत्यर्थः । 'शक्यते चेति'
भाष्यं सौत्रोपपत्तिशब्दव्याख्यानार्थतया व्याचष्टे—शक्यते चेति । पौनरुक्त्यमाशङ्कते—
पूर्वेण त्विति । परिहरति—तेनेति । कर्त्तुमिति । करोतिना अन्नक्रियाविषयाविवक्षा
लक्ष्यते, तेनान्नं कियत इति विवक्षितुं शक्यत इत्यर्थः । वेदे वक्तृभावाद्विवक्षानुपपत्तेर्व्या-
चिख्यासात्र विवक्षाशब्देनाभिप्रेता । एतदेव व्याचष्टे-यदेव हीति । एवं चार्थवत्त्वपदोक्तो-
पयोगित्वे सत्यपि साधकतमत्वाभावात्करणत्वानुपपत्त्याशङ्कानिराकरणार्थत्वेनोपपत्तिपदस्य
१६६ मीमांसादर्शनम् [. सू०
पौनरुक्त्यं परिहृतम् । अर्थवत्त्वशब्देन करणत्वनिर्देशालम्बनत्वमुक्तम् । उपपत्तिशब्देन
तु क्रियत इति वर्त्तमानाङ्गक्रियत्वनिर्देशालम्बनत्वमुक्तम् । उपपत्तिशब्देन तु क्रियत इति
वर्त्तमानाङ्गक्रियत्वनिर्देशालम्बनमिति स्पष्टमेवापौनरुक्त्यमित्याह - अथ वेति । होमं प्रति
साधनत्वानुपपत्तिमाशङ्क्य, सौत्रेणोपपत्तिशब्देनोपपत्ति भाष्यकृद्वदति - शक्यते चेति ।
ग्रन्थेनेत्यर्थः । तत्र शक्य इत्यनेन करोतेः शक्तिलक्षणार्थत्वमुक्तम् । लटो वा भूतभविष्य-
त्कालक्षणार्थत्वं चशब्देन सूचितम् । 'एतद्धीति' भाष्यं साध्याहारं व्याचष्टे---तन्नेति ।
कथं चाकारि करिष्यते वेत्यभिधीयत इति । अत्राप्यध्याहार्य्यं न हीत्युत्तरभाष्यं व्याचष्टे-
वर्त्तमानेति । वर्त्तमानाङ्गक्रियस्य होमसाधनत्वासम्भवात्करोतिना वा शक्तिर्लक्ष्यते, लटो
वा भूतभविष्यत्कालत्वमित्यर्थः । भाष्यमपि यस्मान्न वर्त्तमानान्नक्रियाकालः कश्चिद्धोम-
साधनमस्ति । तस्माल्लक्षणाश्रयणमिति योज्यम् । एतदेवोत्तरभाष्यमेकग्रन्थत्वेन व्याचष्टे-
यद्धेति । लक्षणापत्तेरुभयपक्षसाम्येनादोषत्वप्रतिपादनार्थस्य व्यर्थे स्तुतिरन्याय्येति चेदिति
वक्ष्यमाणसूत्रस्य सर्वपूर्वपक्षोपपत्तिसङ्कल्पनाय व्याख्यानार्थम् । यदि चेति भाष्यं व्याचष्टे-
यदि चेति । क्रियावर्त्तमानत्वयोरेकपदोपादानादन्योन्यनिरपेक्षयोश्चानुपपत्त्यभावादैक्यमङ्गी-
कृत्वोभयोरित्युक्तं वर्त्तमानत्वशब्देन च क्रियावर्त्तमानत्वमभिप्रेतम् । चोद्यसामान्यमात्रेण
दोषत्वानपायात्सूत्रभाष्यापेक्षितपरिहारसाम्यमपि दर्शयति-तेनेति ।
हेताविति भाष्यं कथन्तर्ह्यपेक्षितमत आह- हेताविति । भाष्यकृताऽर्थवत्त्वपदस्यैव
श्रौतार्थवादपरतया व्याख्यातत्वात् सूत्रान्तरव्याख्यानार्थं यदि चेत्यस्मात्प्राक् पठितमित्य-
दोषः । तदिदानीं व्याचष्टे-स्तुताविति । न ह्यन्नकरणत्वाविशेषाद्दर्व्यादिवच्छूर्पस्य
प्राप्तेः शूर्पेण जुहोतीत्यनर्थकं स्यादत आह- शूर्पेणेति । भाष्यकृद्वयाख्याने हेतुत्वप्रतिज्ञायां
हेत्वनभिधानादर्थवत्त्वोपपत्तिहेत्वोश्च साध्यानभिधानात्सूत्रस्य न्यूनत्वापत्तेः ।
स्वयं व्याख्यानान्तरमाह - इत्थं वेति । विधिर्वा स्यादपूर्वादितिपूर्वाधिकरणपूर्वपक्ष-
हेतोरत्राप्यनुषङ्गेण पूर्वपक्षप्रतिज्ञायां हेत्वपेक्षापूरणात् स्याच्छब्देन चान्वयवाक्यकल्पतया
हेतुत्वायोगाशङ्कापरिहारं मत्वान्वयवाक्यस्य दर्व्यादिप्राप्तिफलत्वोपपादनार्थत्वेनार्थवत्त्वो-
पपत्त्योः साध्यकाङ्क्षापूरणात्सूत्रस्यान्यूनत्वं भाष्यकृतोऽभिप्रेतम् ॥२६॥
भा० प्र०-पूर्व अधिकरण में विधि की तरह कथित वाक्यों का अर्थवादत्व स्थिर
किया गया है । प्रकृत में हेतु के समान कथित वाक्यों का अर्थवादत्व स्थापन करने के
लिए इस सूत्र से पूर्व पक्षी की अवतारणा की जा रही है । इस सूत्र में "वा" शब्द पूर्व
पक्ष का सूचक है । "शूर्पेण जुहोति तेन ह्यन्नं क्रियते" (जै० ब्रा० १।६।५) शूर्प के द्वारा
होम करें, क्योंकि उसी के द्वारा अन्न सम्पादित होता है, इस तरह के वाक्यों में हेतु का
निर्देश किया गया है, उसको हेतुविधि कहा जाता है । क्योंकि, इन वाक्यों में 'हि' शब्द
पठित है । हि शब्द हेतु का बोधक है । इस प्रकार इसको हेतु विधि मानने पर श्रौत
अर्थ ही गृहीत होता है, अन्यथा, अर्थवाद मानने पर वाक्य में लक्षणा माननी पड़ेगी,
२७ ] प्रथमाध्याये द्वितीयपादः १६७
मुख्य अर्थ सम्भव रहने पर लक्षणा मानना उचित नहीं है। यदि यह कहा जाय कि इन
वाक्यों में हेतुविधि मानने का क्या फल है ? इसके समाधान में यही कहना उचित है कि
दर्वी स्थाली आदि द्रव्यों से अन्न का सम्पादन होता है, उनमें किसी एक के करने से ही
कार्य चलेगा, शूर्प से ही होम करना चाहिए—यह कोई नियम नहीं है। शूर्प ही अन्न
का करण है—यह भी बात नहीं है, वरन् दर्वी स्थाली आदि भी अन्न का करण है।
शूर्प से तो केवल तण्डुल के छिलके को हटाया जाता है, किन्तु, दर्वी, स्थाली आदि
से अन्न का पाक होता है। इसलिए शूर्प की अपेक्षा दर्वी स्थाली आदि ही अन्न का
साधकतम होने से प्रकृत में करण है। अतः शूर्प, दर्वी, स्थाली, आदि में विकल्प ग्रहण
ही उचित है—यही पूर्वपक्ष का आशय है।
'हेतुः'='हेतु विधि, 'वा' पूर्व पक्ष का सूचक, 'स्यात्' =होगा, अर्थवत्त्वोपपत्तिभ्याम् =
अर्थवत्त्व अर्थात् प्रयोजन साधकत्व एवं उपपत्ति अर्थात् युक्ति होने से, 'तेन अन्नं क्रियते"
यह वाक्य हेतु विधि है, हेतु से ही दर्वी आदि का होमसाधनत्व रूप सार्थक होता है,
इसीलिए उक्त वाक्य में 'हि' शब्द के द्वारा उपपत्ति अर्थात् युक्ति भी उल्लिखित है।
(पूर्व पक्ष) ॥ २६ ॥
स्तुतिस्तु शब्दपूर्वत्वादचोदना च तस्य ॥ १.२.२७ ॥
शा० भा०—न त्वेतदस्ति शब्दपूर्वकोऽयमर्थोऽन्नकरणं हेतुरिति । शब्द-
श्चान्नकरणं शूर्पहोमे हेतुरित्याह, न च दर्विपिठरहोमे । तेन शब्दपूर्वं शूर्पम्,
न च दर्विपिठरादेश्चोदना ॥ २७ ॥
भा० वि०—ननु गृहीतव्याप्तिकस्य लोके हेतुत्वेन व्यपदेशादन्नकरणत्वस्य च
होमसम्बन्धेन सहागृहीतव्याप्तिकत्वात् कथं हेतुत्वमिति—स्यादिति । सूत्रावयवं
निरस्याशङ्कामाह—नन्विति । अत्र क्रियासामान्यवाचिना करोतिना ज्ञानाख्यः
क्रियाविशेषो लक्ष्यते, तेन कार्यं गम्यम्, कारणं च गमकम्, गम्यगमकशब्दयोश्च
कृदन्तत्वात् तत्परेण भावप्रत्ययेन सम्बन्धाभिधायिना भवितव्यम्, कृत्तद्धित-
समासेषु सम्बन्धाभिधानं त्वतल्भ्यामिति स्मरणात् । सम्बन्धस्य च कारकाणां
क्रियोत्पादनशक्तिरूपत्वात् तस्याश्च व्याप्यव्यापकव्यवहारहेतुत्वेन व्याप्तिरूप-
त्वात् कार्यकारणभावशब्देन व्याप्तिर्गीयते, तेन व्याप्तिरूपे तस्मिन् असिद्धे कथं
हेतुव्यपदेश इत्यर्थः, लोके हेतुव्यवहारात् पूर्वमेव प्रमाणान्तरेण व्याप्तिसिद्धेः
अपेक्षात् एव, वेदे तु 'सिद्धवद्धेत्वपदेशान्यथानुपपत्तिकल्पितेन यद्यदन्नकरणं तेन
तेन होतव्यमिति वचनेन कार्यकारणभावाख्यः संबन्धो विधायिष्यते—प्रतिपाद-
यिष्यत इति सूत्रावयवेन परिहरति--सत्यमित्यादिना । हेतुः स्यादित्यनेनोक्त-
मुपसंहरति--शूर्पेणेति । अत्र च समस्तस्य वाक्यस्य केवलहेतुपरत्वात् तदन्यथा-
१६८ मीमांसादर्शनम् [ सू०
नुपपत्तिकल्पितसर्वान्नकरणसाधनत्वविधिप्राप्तत्वेन शूर्पस्य तच्छ्रुतेरेवानुवाद-
त्वात् उपलक्षणार्थं शूर्पग्रहणम्, तेन शूर्पेणान्येन वा होमे कर्तव्य इत्यर्थः ।
ननु शूर्पेण जुहोतीति श्रुतं विधिं परित्यज्य शूर्पश्रुतेः उपलक्षणार्थत्वं
चाश्रित्य तेन ह्यन्नमिति हेतुनिर्देशान्यथानुपपत्त्या अश्रुतविधिकल्पने किं प्रयो-
जनमिति पृच्छति--किमिति । उत्तरं - अन्यदपीति । शास्त्रस्य महाविषयत्वं
तेन च यस्य कस्यचिदन्नकरणस्य सर्वदा लाभात् पुरुषस्यानुष्ठानसौकर्यं
प्रयोजनमिति भावः ।
ननु शूर्पश्रुतेरुपलक्षणार्थत्वेऽपि तेनेति साधकतमार्थया तृतीया कथं दर्व्या-
दीनां करणत्वप्राप्तिस्तेषामसाधकतमत्वादिति चोदयति-कुत इति । अर्थवत्त्व-
पदव्याख्यानेन परिहरति-तस्यापीति । दर्व्यादेरप्यन्नक्रियायामुपयोगमात्रमस्त्ये-
वेत्यर्थः । तथापि तेनेति तृतीयोक्तसाधकतमत्वासिद्धिरित्याशङ्क्योपपत्तिपदं
व्याचष्टे-शक्यते चेति । नात्र तेनेति साधकतमत्वमभिप्रेतम्, किन्तु लाङ्गलाद्य-
पेक्षया दर्व्यादीनामन्तरङ्गसाधनत्वं तावन्मात्रेण तृतीयोपपत्तिरिति भावः ।
यद्वा पूर्वभाष्य एवार्थवत्त्वपदेनापेक्षितं करणत्वं तृतीयालम्बनमभिधाय
क्रियत इति वर्तमानान्नक्रियतापदिष्टस्य कथं होमसंबन्धे हेतुत्वमुच्यते, एकस्य
युगपत् क्रियाद्वयायोगादित्याशङ्क्योपपत्तिपदं व्याचष्टे-शक्यते चेति । अत्र
क्रियत इति करोतिना तच्छक्तिमुपलक्ष्य तस्यावर्तमानत्वमभिधीयते ।
अथवा लटा भूतभविष्यद्वाचिनोः लुङ्लिटोरर्थः क्रियायामेव लक्ष्यते,
उभयथापि तेनान्नं क्रियते=कर्तुं शक्यत इति श्रुत्यर्थोपपत्तिशब्देनोक्तमित्यर्थः ।
ननु करोत्यादेर्मुख्यार्थपरित्यागेन लाक्षणिकार्थत्वं कस्मादाश्रीयते तत्राह-
एतद्धीति । कर्तुं शक्यत्वं तत्र हेतुर्नहीति यस्मान्न वर्तमानक्रियाकालः कश्चि-
द्दर्व्यादिहोमसाधनमस्ति यस्यार्थस्यायं क्रियत इति प्रतिनिर्देशो व्यपदेशः ।
तस्माल्लक्षणाश्रयणमिति योजना । यदा तु वर्तमानः काल इति पाठः तदा न
हि वर्तमानः कालोऽन्नक्रियाया अस्मिन् प्रयोगे सम्भवति, होमसाधनत्वानुपपत्तेः
यस्य क्रियत इति प्रतिनिर्देश इति योज्यम्, एवमर्थवत्त्वोपपत्तिभ्यां इति व्याख्या-
यार्थवत्त्वमन्यथा व्याचष्टे-हेतौ चेति । शब्दः=हि शब्दः स्तुताविति सर्वजना-
भिमतेनान्नकरणत्वेन प्रशस्त्यं लक्ष्यत इत्यर्थः ।
ननु त्वत्पक्षेऽपि साधकतमार्थंतृतीयायापेक्षितसाधनत्वस्य कृञादिशक्तिवर्त-
मानत्वस्य लटा वा भूतभविष्यत्वयोर्लक्षणयापद्येतेत्याशङ्क्य सिद्धान्तेऽपि शूर्प-
विषये सा तुल्येति वक्तुं व्यर्थे स्तुतिरिति सूत्रं तस्यार्थं सकलपूर्वपक्षसङ्कलना-
यात्रैवाह-यदि चेति । व्यर्थे तस्मिन्निति दर्व्यादिस्साधकतमत्वाद्यभावेनार्थशून्ये