सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पादानपरतया व्याचष्टे — यश्चेति ।

३५ ] प्रथमाध्याये द्वितीयपादः २२१
अनेन च यश्चेत्यादिभाष्यं व्याख्यातं लिङ्गान्मन्त्रस्य प्रथनाङ्गत्व्वावगतेरभिमर्शंनकाले
प्रयोज्यत्वानुपपत्ते रपरितोषात्पुरोडाशप्रथनविषय एवान्यथाभाष्यं व्याचष्टे—अथ वेति ।
अस्मिन्पक्षे कथमसत्यनुक्ते पुरोडाशकर्तृ ˚के प्रयोज्यव्यापाररूपे प्रथने प्रयोजकव्यापारवाची
प्रथयतीतिशब्द इति प्रश्नभाष्यार्थः । उत्तरभाष्यं व्याचष्टे—तदुपपादयतीति । प्रतीकेनैक-
देशेन गृहीतो यो मन्त्रः तेनोपात्तः प्रयोज्यव्यापारो यस्मिन्ब्राह्मणे, तत्प्रथयतीति ।
प्रयोजकव्यापारं विधत्त इत्यर्थः । यश्चेति भाष्यं प्रथस्वेति प्रेषणरूपे प्रयोजकव्यापारा-
भिधानेन प्रयोज्यव्यापाराभिधानानुपादानादस्मिन्पक्षेऽनुपपन्नमाशङ्क्य, प्रयोज्यव्यापारो-
पादानपरतया व्याचष्टे — यश्चेति ।
नन्वेतयान्नाद्यकामं याजयेदित्यादिषु प्रयोज्यव्यापारानुपादानेऽपि प्रयोजकव्यापारो-
पादानदर्शनात्तत्पूर्वकत्वनियमो नास्तीत्युत्तरं कस्मान्नोक्तमत आह—यद्यपि चेति ।
अर्थक्रमानुसा रिशब्दक्रमनियमादर्शनेनास्याभिप्रायस्यातितुच्छत्वात्प्रश्नोत्तरभाष्ययोश्चोभयो-
रप्यनाजंवापत्ते रपरितोषात्स्वमतेनार्थवादगतयज्ञपंतिप्रथनप्रश्नविषयतया व्याचष्टे—अथ
वेति । अत्रैवोत्तरभाष्यं व्याचष्टे—तदभिधीयत इति । नन्वस्मिन्पक्षे मन्त्रेणेत्यादिभाष्यं
पुरोडाशप्रथनाभिधायित्वादयुक्तं स्यादत आह—मन्त्रेणेति । नन्वेवं तर्ह्यरु ते यज्ञपतिः
प्रथतामिति ब्रवीति यश्चोरु ते यज्ञपतिः प्रथतामिति ब्रूत इति च वक्तव्यमत आह—
प्रथस्वेत्यतमिति । ततश्चैवं भाष्यार्थो भवतीत्याह—यश्चैवमिति । यश्चोरु ते यज्ञपतिः
प्रथतामिति शब्दोच्चारणेन यज्ञपतिं प्रथयतोत्यर्थः । कथं शब्दोच्चारणमात्रेण प्रथन-
कर्तृत्वं स्यादत आह—गुणवादादिति । प्रेषणरूपप्रयोजकव्यापारकर्तृत्वमुत्पादनरूपप्रयो-
जकव्यापारकर्तृत्वेनोपचर्यत इत्यर्थः ।
यद्वा तत्करोति तदाचष्टे इत्याख्यानेऽपि णिजुत्पत्तिस्मरणान्मुख्यवृत्तित्वेन प्रथनाख्या-
नात्प्रथयतिशब्दोपपत्तिरित्याह – अथ वेति । एवं व्याख्याने यज्ञपतिप्रथनस्य फलत्वाभावे
निरालम्बना स्तुतिर्न युक्तेत्याशङ्कोत्थानात्पूर्वग्रन्थसङ्गतिः समञ्जसेति, एतदेव व्याख्या-
नमभिप्रेतम् ॥३५॥
भा० प्र०—"उरु प्रथस्वेति पुरोडाशं प्रथयति" (तै० ब्रा० ३।२।८।४) यह ब्राह्मण
वाक्य न तो मन्त्र का विधायक है और न प्रशंसा है । यह वाक्य 'यज्ञपतिमेव तं प्रथयति'
यह वाक्य मन्त्रार्थ का ही अनुवादक है इसके द्वारा मन्त्र-प्राप्त प्रथन की प्रशंसा की
गई है । इस सूत्र में 'वा' शब्द वैयर्थ्य का वारण करता है । अर्थवाद से सम्बन्ध के
लिए ही ब्राह्मण में विधि कही गई है ।
“अर्थवादः” = ‘वा’ (एव) = आशङ्कित विफलता के निवारण के लिए है । “उरु
प्रथस्वेति प्रथयति” इस स्थल में अर्थवाद होने से ब्राह्मण ग्रन्थ में मन्त्र के अर्थ का
अनुवाद किया गया है ॥ ३५ ॥

२२२ मीमांसादर्शनम् [ सू०
अविरुद्धं परम् ॥ १.२.३६ ॥
शा० भा०—यदुक्तं पदनियमस्यार्थवत्त्वादविवक्षितार्था मन्त्रा इति । काम-
मनर्थको नियमः, न दृष्टमप्रमाणम् । नियतोच्चारणमदृष्टायेति चेत् ? अविरुद्धा
अदृष्टकल्पनाऽस्मत्पक्षेऽपि । एवं प्रत्याय्यमानमभ्युदयकारि भवतीति ॥ ३६ ॥
भा० वि०—परमविवक्षितार्थत्वकारणं दूषयति--अविरुद्धमिति । परमित्य-
नुवादभागं व्याचष्टे--यदुक्तमिति । अर्थवत्त्वाद्धेतोरर्थवत्त्वायैति यावत् । नियम
एव निष्प्रयोजनत्वादविवक्षितो भवतु, न दृष्टफलमर्थाभिधानमप्रमाणमविवक्षित-
मिति दूषयति--काममिति । नियमस्यापि निष्प्रयोजनत्वमसिद्धमिति शङ्कते--
नियमेति । अविरुद्धमिति सूत्रावयवं व्याचक्षाणः परिहरति--अविरुद्धेति ।
अदृष्टकल्पनाप्रकारमाह--एवमिति । क्रमविशेषवद्भिः पदसमूहैरर्थरूपं प्रत्या-
य्यमानमित्यर्थः, उच्चारणाददृष्टं ब्रुवतापि यथाक्रमनियमाददृष्टं कल्प्यते इति
न विरोध इत्यर्थः ॥ ३६ ॥
त० वा० अदृष्टार्थोच्चारणवादिनोऽपि तन्नियमादपरमवश्यं कल्पनीयमदृष्टम्,
तन्ममापि प्रत्यायननियमाद्भविष्यतीत्यविरोधः । एतेन मन्त्रत्वादिनियमः
प्रयुक्तः । सत्स्वप्युपायान्तरेषु विशिष्टानुपूर्वीकमन्त्रविशेषास्नानादुपायान्तरनिवृत्तौ
नियमाददृष्टमात्रकल्पनया सिद्धमर्थाभिधानम् ॥ ३६ ॥
न्या० सु० - यदुक्तमिति भाष्येणार्थपरत्वे विशिष्टपदक्रमसमूहात्मकवाक्यनियमानर्थ-
क्याशङ्कानुभाषणाथंत्वेन परमिति सूत्रावयवं व्याख्याय, काममित्यादिना परिहारार्थ-
त्वेनाविरुद्धमिति सूत्रावयवो व्याख्यातः, तस्य तात्पर्यमाह—दृष्टार्थेति । क्रमान्यत्वेऽप्यु-
च्चारणविशेषावगमाददृष्टान्तरं विनोच्चारणक्रमनियमानर्थक्यापत्तेरदृष्टद्वयकल्पनात्पूर्वपक्षे
गौरवमित्याशयः । वाक्यनियमहेतोर्व्याख्यानान्तरेष्वप्येतदेव सूत्रं परिहारार्थत्वेन योजयति—
एतेनेति । एतेन नियमाददृष्टकल्पनायामपि दृष्टार्थस्याविरोधिनादृष्टार्थहेतुत्वेन मन्त्रत्वादि-
नियमो निराकृत इत्यर्थः; एतदेव विवृणोति—सत्स्वपीति ॥ ३६॥
भा० प्र०—पूर्वपक्ष में 'अग्निमूर्द्धा दिवः' इत्यादि मन्त्रों का पद विन्यास का क्रम
नियत है, अर्थात् क्रम में किसी प्रकार का परिवर्तन सम्भव न होने से ( अपरिवर्तनीय )
होने से वह अदृष्टार्थक है—यह मैं भी स्वीकार करता हूँ । जिस रूप में मन्त्र का पाठ
है, उसी रूप में वह उच्चारणीय है, व्यतिक्रमकर उच्चारण करने पर वह याग के फल
के साधनीभूत अपूर्व का जनक नहीं होता है । किन्तु, अदृष्ट के अनुरोध से अर्थ-प्रकाश
रूप दृष्ट प्रयोजन का अपलाप करना उचित नहीं है । क्योंकि, अदृष्ट दृष्ट का विघातक
नहीं हो सकता है । कारण, दृष्ट के उपपादन के लिए ही अदृष्ट की कल्पना होती है,