सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पादने शास्त्रशब्दवाच्यत्वबाधः१ ।

५९० मीमांसादर्शनम् [ सू०
वाक्यशेषाणाञ्च शास्त्रगतानामर्थतत्त्वप्रतिपादनपरत्वं न लभ्यते । नापि तत्प्रति-
पादने शास्त्रशब्दवाच्यत्वबाधः१ ।
अथापि विधिप्रतिषेधात्मकेनैव शास्त्रेण भवितव्यमिति काचित्परिभाषा ।
तथाऽप्येवंविधाः साधुशब्दाः प्रत्येतव्या इतीदृशो विधिः संभवत्येव । यो२
वाक्यान्तरावगतादृष्टफलार्थी यद्यविनष्टैः शब्दैर्भाषितुमिच्छेत्, स चैतानेवंरूपाने-
तत्क्रममात्रांश्च वर्णानुपाददीत, नाधिकान्न न्यूनांश्चेति यावद्रूपं विधिप्रतिषेधौ
शक्यौ दर्शयितुमिति, शास्त्रविषयत्वसिद्धिः । निःसन्दिग्धवृद्धबालप्रयुक्तदेवदत्त-
तत्तादिशब्दोपमयाऽपि च सर्वशब्दानां विनष्टाविनष्टरूपैरवश्यं भवितव्यमिति
शक्यं विज्ञातुम् । एवं व्याकरणानुगतवैदिकशब्दाविनाशसादृश्यादपि तद्विध-
लौकिकाविनष्टत्वोपमानं दर्शयितव्यम् ।
अर्थपत्त्याऽपि साधुत्वसमर्थम्
तथा लौकिकार्थप्रत्ययोत्थापितवाचकत्वार्थापत्तिलभ्यस्तावदेकः साधुत्व-
निश्चयः । ततः संभवत्प्रमादालस्यकरणवैगुण्यनिमित्तापभ्रष्टरूपवर्जितकेवलसाध्व-
न्वाख्यानस्यान्थानुपपद्यमानत्वादपरयाऽप्यर्थापत्त्या सिद्धमेव साधुत्वज्ञानम् ।
अपभ्रंशेषु साधुत्वं तुल्यार्थत्वादुच्यते ।
लक्षणाभावमार्गेण तस्याभावोऽपि निश्चितः ॥ इति ॥ ८७४
षण्णामपि प्रमाणानां साध्वसाधुत्वनिर्णये ।
व्यापारोऽस्तीति को जल्पेत्साधुत्वं निष्प्रमाणकम् ॥ ८७५
यद्यप्यनभियुक्तानां प्रयोगोऽस्ति ससंकरः ।
अभियुक्ता विवेक्ष्यन्ते तथाऽपि ब्राह्मणादिवत् ॥ ८७६
यथा च पद्मरागादीन्काचस्फटिकमिश्रितान् ।
परीक्षका विजानन्ति साधुत्वमपरे तथा ॥ ८७७
यथा रत्नपरीक्षायां साध्वसाधुत्वलक्षम् ।
तथा व्याकरणात्सिद्धं साधुशब्दनिरूपणम् ॥ ८७८
पौरुषेयव्याकरणागमपरम्परायामपि च तदनुगतसाधुत्वानन्तरदर्शनात्
पूर्वदृष्टविवेकज्ञानमात्रपरत्वाद्वा नान्धपरम्परावचन्त्यायप्रसङ्गः । यावानिह
दृष्टांशः स वैदिकविधिप्रतिषेधद्वयादेवोपपन्नः । तत्सिद्ध्यर्थाविनिष्टरूपाज्ञानं
वेदशिष्टप्रयोगसंवादिव्याकरणान्वाख्यानपारम्पर्येण सद्यः फलत्वात्सुलभमिति न
पुरुषकृतत्वनिमित्तदोषप्रसङ्गः ।
१. क. वाच्यत्वं बाघः । २. क. यद्वाक्यान्तरा ।

२९ ] प्रथमाध्याये तृतीयपादः ५९१
यत्तु दृष्टार्थत्वात्स्वसामर्थ्यप्राप्तत्वादेव 'अप्राप्ते शास्त्रमर्थवत्' ६-२-४ इति
वाचकभाषणविधानमनुपपन्नमिति तत्राधिकरणेनेवोत्तरं 'नियमाार्था¹ वा
श्रुतिरुच्यते' ४-२-२३ इति ।
यत्त्ववाचकत्वेनापशब्दानामप्रसङ्गाद्व्यावर्त्याभावे नियमानुपपत्तिरिति ।
तत्रोच्यते—नियमः परिसंख्या वा न व्यावर्त्यादृतेनेष्यते ।
नित्यतामात्रकारी तु नियमः किं न लभ्यते ॥ ८७९
सति भाषितव्ये कदाचिदविनष्टेन भाषेत, कदाचित्प्रमादाशक्तिजापभ्रंशेना-
प्यक्षिनिकोचनादिना वा शब्दरहितेनैव प्रत्यापयेत् ।
अत्र श्रेयोऽर्थिनोऽवश्यं साधुभाषा नियम्यते ।
नियोगेन हि तां कुर्वन्नपूर्वं साधयिष्यति ॥ ८८०
यद्यपि च नियमेऽन्यनिवृत्तिरवश्यं कल्पनीया, तथाऽपि साधुशब्दस्मृतिव्य-
वहितानां कालरूढरूपभ्रान्तिवाचकत्वगृहीतानां चापशब्दानां संभवति² प्रयोगप्र
सङ्गे साधुनियमेन व्यावृत्तिः ।
अथ वा नैवापशब्दानमंपृथक्त्वे केचिदेकक्रियाविषयानेकद्रव्यगुणादिवद-
भिधायां प्राप्नुवन्ति ये साधुनियमेन व्यावर्त्येरन् ।
किं तु--साधूनेव प्रयुञ्जाना नाशयेयुरयत्नतः ।
मा³ विनीनशदित्येवं नियमस्तान्नियच्छति ॥ ८८१
तद्यथा 'यो विदग्धः, स नैर्ऋतः' इत्येवमादिदोषनिन्दापूर्वकम् 'अविदहता
श्रपयितव्यः' इति नियम्यते, तथा 'दुष्ट शब्दः स्वरतो वर्णतो वा' इत्यादिना
निन्दितत्वात्, 'तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा
एष यदपशब्दः' इति प्रमादादिनिमित्तविनाशेन शब्दकार्यादर्थसाधनादपेतोऽयं
म्लेच्छः, 'म्लेच्छ अव्यक्तायां वाचि, इति स्मरणात्स न प्रयोक्तव्य इति प्रतिषेधः ।
'तस्मादेषा व्याकृता वागुद्यते' इति च विधिरविनष्टप्रयोगनियमार्थः ।
ननु चाशक्तिजा दोषाः प्रमादजनिताश्च ये ।
परिहर्तुमशक्यत्वान्निषेधस्याप्यगोचराः ॥ ८८२
उच्यते—प्रमादमेव मा कार्षीः सामर्थ्याय यतस्व च ।
एवमर्थो निषेधोऽयं नाऽऽद्रियेताऽन्यथा ह्यसौ ॥ ८८३
अन्ये सुखमुखारूढा न क्लेशेन विवक्षवः ।
शक्ताश्चैवाप्रमत्ताश्च वदेयुरनिवारिताः ॥ ८८४
१. क. नियमाार्था श्रुति । २. क. सम्भविनि । ३. क. माविनोनश ।