सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

२६ कथासरित्सागर

२६ कथासरित्सागर
जानुभ्यां पर्यटन्तं च बालं जातु पिपीलिका।
कण्ठदेशे ददंशैनं मुक्तचूत्कारकातरम्॥५९॥
तावता तुमुलाक्रन्दमन्तःपुरमजायत।
राजापि पुत्र पुत्रेति चक्रन्द प्राकृतो यथा॥६०॥
क्षणात्तस्मिन्समाश्वस्ते बालेऽपास्तपिपीलिके।
दुःखकारणं राजा स निनिन्दैकपुत्रताम्॥६१॥
अस्ति कश्चिदुपायो मे येन स्युर्बहवः सुताः।
इति सत्परितापेन पप्रच्छ ब्राह्मणांश्च सः॥६२॥
ते च प्रत्यब्रुवन् राजन्नुपायोऽत्र तवास्त्ययम्।
हृत्वैतं त्वत्सुतं वह्नौ सन्मांसं हूयतेऽखिलम्॥६३॥
तद्धूमगन्धाघ्राणतो राज्ञ सर्वा प्राप्स्यन्ति तं सुतान्।
एतच्छ्रुत्वा स राजा तत्तथा सर्वमकारयत्॥६४॥
स्वपत्नी समसंख्यांश्च स पुत्रान् प्राप्तवान्नृपः।
अतस्त्वपि होमेन साधयामो वय सुतम्॥६५॥
इत्युक्त्वा धनदत्तं च ब्राह्मणाः कल्पितदक्षिणम्।
होमं चक्रुस्ततस्तस्य वणिजो जातवान्सुतः॥६६॥
गुहसेनाभिधानश्च स बालो ववृधे क्रमात्।
पितास्य धनदत्तोऽन्य भार्यामिन्विष्यति स्म सः॥६७॥
तत स सत्पिता तेन तनयेन समं ययौ।
द्वीपान्तरं स्नुषाहेतोर्वणिज्याव्यपदेशतः॥६८॥
तत्र देवस्मितां नाम धर्मगुप्ताद्वणिग्वरात्।
स्वपुत्रगुहसेनस्य कृते कन्यामयाचत॥६९॥
धर्मगुप्तस्तु सम्बन्धं न तमङ्गीचकार सः।
आलोच्य ताम्रलिप्तीं तां दूरां दुहितृवत्सलः॥७०॥
सा तु देवस्मिता दृष्ट्वा गुहसेनं दधेथ तम्।
तद्गुणाकृष्टचित्तत्वाद् वन्यत्यागेकनिश्चया॥७१॥
अङ्गीमूल्यं कृत्वा च सङ्केतं सह तेन सा।
प्रियण पितृयुक्तेन रात्रौ द्वीपात्ततो ययौ॥७२॥
ताम्रलिप्तीमथ प्राप्य तयोः कृतविवाहयोः।
जायापत्योमिषः प्रेमपाशबद्धमभून्मनः॥७३॥