कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
१८४ कथासरित्सागर
१८४ कथासरित्सागर
देवी सम्पर्कहीनस्य हृदये तस्य भूभृतः।
औषधोपक्रमासाध्यो व्याधिः समुदपद्यत॥३७॥
भयाच्छोकाभिघाताद् वा राज्ञो रोगः कदाचन।
स्फुटेदयमितिस्माहुर्भिषजो मन्त्रिणो रहः॥३८॥
यः पुरा पृष्ठपतिते न तत्रास महोरगे।
नान्तःपुरप्रविष्टेऽपि परानीके च चुक्षुभे॥३९॥
तस्यास्य राज्ञो जायेत भय सत्ववतः कथम्।
नास्त्यत्रोपायबुद्धर्न किं कुर्मस्तेन मन्त्रिणः॥४०॥
इति सञ्चिन्त्य समन्त्र्य ते देव्या सह मन्त्रिणः।
तां प्रच्छाद्य तमूचुश्च मृता देवीति भूपतिम्॥४१॥
तेन शोकातिभारेण मथ्यमानस्य तस्य सः।
पुस्फोट हृदयव्याधिर्विद्रुतस्य महीभृतः॥४२॥
उत्तीर्णरोग-विपदे तस्मै राज्ञेऽथ मन्त्रिभिः।
अर्पिता सा महादेवी सुसम्पदिवापरा॥४३॥
बहु मेने च सोऽप्येनां राजा प्राप्तप्रदामिवाम्।
न पुनर्मतिमानस्यै धृक्रोधाच्छादितात्मने॥४४॥
हितैषिणा हि या पत्युः सा देवीत्वस्य कारणम्।
प्रियकारित्वमात्रेण देवीशब्दो न लभ्यते॥४५॥
सा मन्त्रिता च यद्राज्यकार्यभारैकचिन्तनम्।
चित्तानुवर्तनं यत्तदुपजीवकलक्षणम्॥४६॥
अतो मगधराजेन सन्धाय परिपन्थिना।
पृथ्वीविजयहेतोस्ते यत्नोऽस्माभिरयं कृतः॥४७॥
तेन देव! भवद्भक्तिसोढासद्यवियोगया।
दम्या नैवापराधः ते पूर्णानूपकृतिः कृता॥४८॥
एतच्छ्रुत्वा वचस्तस्य यथार्थं मुख्यमन्त्रिणः।
मेनेऽपराधमात्मानं वत्सराजस्तुतोष च॥४९॥
उवाच चतज्मानेऽहं देव्या युष्मत्प्रयुक्तया।
आकारवत्या नीत्येव मम दत्तेयं मेदिनी॥५०॥
क्क त्वद्विप्रजयादेसग्मयोक्तमसमञ्जसम्।
अनुरागाधममसां विचारसहता कृतः॥५१॥