कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
१६२ कथासरित्सागर
१६२ कथासरित्सागर
प्रदोषे चाययौ तस्यास्तत्प्रवाह्य पक्षिणि।
गृहं रूपणिकायास्ताः शङ्खचक्रगदा वहन् ॥१५२॥
तत्रोपरि ततः स्थित्वा स्थानविस्तरशारदः सः।
शब्दं चकार गम्भीरं रहस्यां श्रावयन्प्रियाम् ॥१५३॥
तं च श्रुत्वैव निर्याता साऽपश्यद्गरुडराजितम्।
एतं नारायणरूपं व्योम्नि रूपणिका निशि ॥१५४॥
अद्य हरिरिहायातस्त्वदर्थमिति तेन सा।
उक्ता प्रणम्य वव्रे स्म दयां तव करोत्विति ॥१५५॥
अथावतीर्य सद्यम्य सोऽङ्गसङ्गो विहङ्गमम्।
विवेश वासभवनं स तया कान्तया सह ॥१५६॥
तत्र सम्प्राप्तसम्भोगः स निष्क्रम्य क्षणान्तरं।
तयैव विहगारूढो जगाम नभसा ततः ॥१५७॥
देवता विष्णुभार्याऽहं मर्त्यैः सह न मन्मय।
इति रूपणिका प्रातस्तस्थौ मौनं विधाय सा ॥१५८॥
कस्मादेवंविधा पुत्रि ! वर्तसे कथ्यतां त्वया।
इत्यपृच्छत सा मात्रा ततो मकरदंष्ट्रया ॥१५९॥
निर्बन्धपृष्टा तस्य च सा मात्रे मौनकारणम्।
शशंस रात्रिबृत्तान्तं वाषमित्कान्तरे स्फुटम् ॥१६०॥
सा तच्छ्रुत्वा ससन्देहा स्वप्नं च कुट्टनी निशि।
ददर्श विहगारूढं सोऽनङ्गे ततः क्षणम् ॥१६१॥
प्रभाते च पटान्तःस्थामेत्य रूपणिकां रहः।
प्रज्ञा मकरदंष्ट्रा सा कुट्टनीति व्यजिज्ञपत् ॥१६२॥
देवस्यानुग्रहात् पुत्रि ! त्वं देवीत्वमिहागता।
महं च तेऽद्य जननी तन्मे देहि सुताफलम् ॥१६३॥
मुदानेनैव देहेन यथा स्वर्गं व्रजाम्यहम्।
तथा देवस्य विज्ञप्तिं कुर्व्वप्यनुगृहाण माम् ॥१६४॥
तथेति सा रूपणिका तमेवार्थं व्यजिज्ञपत्।
व्याजविष्णुं पुनर्नक्तं सोऽङ्गजङ्गोमुपागतम् ॥१६५॥