कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
कथासरित्सागर
कथासरित्सागर
धेतसाख्ये पुरे मातॄदेवस्वामिकरम्भकौ।
अभूतां भ्रातरौ विप्रावतिप्रीतौ परस्परम् ॥४१॥
तयोरेकस्य पुत्रोऽयमिन्द्रदत्तोऽपरस्य च।
अह व्याडि समुत्पन्नो मत्पितास्तं गतस्ततः ॥४२॥
तच्छोकादिन्द्रदत्तस्य पिता यातो महापंथम्।
अस्मज्जनन्योश्च ततः स्फुटितं हृदयं शुचा ॥४३॥
ततोऽनाथौ सति धनऽप्यावां विद्यानिकाङ्क्षिणौ।
गतौ प्रार्थयितुं स्वामिकुमारं तपसा ततः ॥४४॥
तपःस्थितौ च तत्रावां स स्वप्ने प्रभुरादिशत्।
अस्ति पाटलिकं नाम पुरं नन्दस्य भूपतेः ॥४५॥
तत्रास्ति चको वर्षाख्यो' विप्रस्तस्मादवाप्स्यथः।
कृत्स्नां विद्यामतस्तत्र युवाभ्यां गम्यतामिति ॥४६॥
अथावां तत्पुरं यातौ पृच्छन्तौस्तत्र चावयोः।
अस्तीह मूर्खो वर्षाख्यो विप्र इत्यवदज्जनः ॥४७॥
ततो दोलाधिरूढेन गत्वा चित्तेन तत्क्षणम्।
गृहमावामपश्याव वर्षस्य विधुरस्थिति ॥४८॥
मूषकैः कृतवल्मीकं भित्तिविस्मृतसञ्चरम्।
विच्छायं छविदा हीनं जन्मक्षत्रमिवापदाम् ॥४९॥
तत्र ध्यानस्थितं वर्षमालोक्याभ्यन्तरे तथा।
उपागतौ स्वस्तत्पत्नी विहितातिथ्यसत्क्रियाम् ॥५०॥
धूसरक्षामवपुषं विशीर्णमलिनाम्बराम्।
गुहरागागतां तस्य रूपिणीमिव दुर्गतिम् ॥५१॥
प्रणामपूर्वमावाभ्यां तस्य सोऽथ निवेदितः।
स्ववृत्तान्तश्च तद्भर्तुर्मोक्ष्यवार्ता च या श्रुता ॥५२॥
पुत्रौ युवां मे का लज्जा शृणुतं कथयामि वाम्।
इत्युक्त्वा सावयोः साध्वी कथामेतामवर्णयत् ॥५३॥
वर्षचरितम्
शङ्करस्वामिनामात्र नगरेऽभूद्द्विजोत्तमः।
मद्भर्त्ता चोपवर्षश्च तस्य पुत्राविभावुभौ ॥५४॥
१ इन्द्रदत्तविषयेऽपि परिशिष्टेऽवलोकनीयम्। २ वर्षोऽयं पाणिनेश्चाध्याप इति
प्रवादः। तद्विषयेऽपि परिशिष्टे विवरणं द्रष्टव्यम्।