विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)
Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan
केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा
८० विवाहवृन्दावनम्- [ग्रहयोग-
रविकविरविजेन्दुभिः क्रमेण व्ययधनपण्निधनेषु कूर्म एषः ।
इह विहितकरग्रहा गृहाणि भ्रमति भुजिष्यतया परःशतानि ॥६॥
सं०-रवि-कवि-रविजेन्दुभिः क्रमेण व्यय-धन-षण्-निधनेषु स्थितैः
एषः कूर्मः (कूर्मनामा योगः) स्यात्, इह (अस्मिन्योगे) विहितकरग्रहा
(कृतविवाहा) भुजिष्यतया (भुजिष्यायाः परिचारिकायाः भावो भुजिष्यता
तया) परः शतानि शतेभ्योऽधिकानि गृहाणि भ्रमति ॥ ९ ॥
भा०-द्वादश में सूर्य, द्वितीय में शुक्र, षष्ठ में शनि और अष्टम भाव में
चन्द्रमा हो तो कूर्म योग होता है। इस योग में विवाहिता स्त्री सौ से भी अधिक
घरों में नौकरनी होकर भ्रमण करती है ॥ ९ ॥
भवपरिभवविक्रमैः क्रमेण द्युमणिमहीसुतसौरिभिः सनाथैः ।
परिणमति दलेन्दुरिन्दुमुख्याः कुलयुगलोद्धृतिधुर्यतां विधास्यन् ॥
सं०-भव-परिभव-विक्रमैः (एकादश-षष्ठ-तृतीयैः) क्रमेण द्युमणि-
महीसुत-सौरिभिः सनाथैः (सहितैः) इन्दुमुख्याः (चन्द्रवदनायाः
कन्यायाः) कुलयुगलोद्धृतिधुर्यतां विधास्यन् (करिष्यन्) दलेन्दुः
(अर्धचन्द्रयोगः) परिणमति भवतीत्यर्थः ॥१०॥
भा०-एकादश, षष्ठ और तृतीय भावों में क्रम से सूर्य, मंगल और' शनि
हों तो कन्या को दोनों (पति और पिता के) कुल के उद्धार करने में योग्या
बनाने वाला अर्धचन्द्रनामक योग होता है। अर्थात् इस योग में विवाहिता कन्या
दोनों कुल का उद्धार करती है ॥१०॥
व्ययनिधनतनूषु मन्दचन्द्रारुणकिरणैर्मुशलं जगुर्मुनीन्द्राः ।
इह वृष्णिकुलान्तके कुमारी कुलमारी न च कापि कार्यसिद्धिः ॥
सं०-व्यय-निधन-तनूषु क्रमेण मन्दचन्द्रारुणकिरणैः स्थितैः
मुनीन्द्राः मुसलं योगं जगुः । इहास्मिन् वृष्णिकुलान्तके मुसले योगे वि-
वाहिता कुमारी कुलमारी (कुलनाशिनी) भवति । तथा च कापि कार्य-
सिद्धिर्न भवति ॥ ११ ॥
भा०-१२, ८, और लग्न इनमें क्रम से शनि, चन्द्र और सूर्य हों तो
मुनियों ने मुसल नामक योग कहा है। इस यादव कुल को अन्त करने वाले
(मुसल) योग में विवाहिता स्त्री कुल को नाश करने वाली होती है। और
उसकी कोई भी कार्य सिद्ध नहीं होता है ॥ ११ ॥
प्रकरणम् १२ ] वसन्तलक्ष्मीसहितम् । ८१
━━━━━━━━━━━━━━━━━━━━━━━━━━━━
वि०—मुसल से ही यादवों का नाश हुआ यह भागवत में प्रसिद्ध है ॥११॥
तनुनवभवगैः क्रमेण योगो बुधविबुधार्चितपङ्गुभिर्गजः स्यात् ।
इह युवतिरहंकृता कृतार्थान्वितरति दैवतदैवतपरा वा ॥१२॥
सं०— बुध-विबुधार्चित-पङ्गुभिः क्रमेण तनुनवभवगैः ( लग्न-नवमै-
कादशस्थैः ) गजः ( गजाख्यो ) योगः स्यात् । इहास्मिन् योगे विवाहिता
युवतिः ( स्त्री ) अहंकृता ( अहंकारयुता ) सती कृतार्थान् ( उपार्जि-
तार्थान् ) वितरति ( ददाति ), वा दैवत-दैवतपरा ( दैवतानि = देवाः,
दैवं = भाग्यं तत्परा ) भवति ॥१२॥
भा०—बुध, गुरु, और शनि ये क्रम से लग्न, नवम और एकादश भावों में
हों तो गज नामक योग होता है। इस योग में विवाहिता स्त्री अहंकारयुक्ता होकर
अपनी सञ्चित सम्पत्ति को दान करनेवाली अथवा देवता और प्रारब्ध की उपासना
करनेवाली होती है ॥ १२ ॥
अथ ग्रहभावकुण्डलीकाध्यायः ।
तत्रादौ लग्नस्थग्रहाणां फलान्याह—
चिरञ्जीवां जीवः कविरविरलानङ्गसुभगां
शशाङ्कोर्वीपुत्रौ यमयुवतिपार्श्वप्रणयिनीम् ।
बुधो भर्तुर्भाक्तां मृगदृशमशीलां शनिरपि
त्रयीमूर्तिर्मूर्ती सृजति शिखिशस्त्रादिनिधनाम् ॥ १ ॥
सं०—मूर्ती लग्ने जीवो गुरुः मृगदृशं स्त्रियं चिरञ्जीवां सृजति
करोति । कविः शुक्रः अविरलानङ्गसुभगां ( अविरलेनाङ्गेन कामेन सुभगां
सौभाग्यवतीं ) सृजति । शशाङ्कोर्वीपुत्रौ ( चन्द्र-भौमौ ) यमयुवतिपार्श्व-
प्रणयिनीं यमगृहगामिनीं सृजतः । बुधो भर्तुः स्वामिनो भक्तां सृजति ।
शनिः अशीलां शीलरहितां सृजति । त्रयीमूर्तिः सूर्यः मूर्ती लग्ने स्थितः
शिखिशस्त्रादिनिधनां ( शिखिनाऽग्निना, शस्त्रादिना च निधनं यस्यास्तां
तथोक्तां ) सृजति करोति ॥ १ ॥
११
८२ विवाहवृन्दावनम्- [ कुण्डलिका-
भा०- विवाह लग्न में गुरु हो तो स्त्री को चिरजीविनी बनाता है, शुक्र हो तो
अत्यन्त काम और सौभाग्य से युक्ता, चन्द्रमा और मंगल हो तो यमराज की स्त्री
के पास जानेवाली, बुध हो तो स्वामी में भक्ति रखने वाली, शनि हो तो दुष्ट
स्वभाव वाली और सूर्य लग्न में हो तो अग्नि तथा अस्त्र आदि से मरने वाली स्त्री
को बनाता है ॥ १ ॥
अथ द्वितीयभावगतग्रहाणां फलानि-
नितान्तधनिनीं धने सितसितांशुजीवेन्दुजा
रुजादहनदस्युभिर्विधुरितां धरानन्दनः ।
सुतेष्वपि मितम्पचां मलिनमूर्तिमर्कात्मजः
स्त्रियं सहजदुर्भागां जनयति द्युतीनां पतिः ॥ २ ॥
सं०-धने द्वितीयभावे सित-सितांशु-जीवेन्दुजाः स्त्रियं ( विवाहितां
कन्यां ) नितान्तधनिनीं (अतिधनवतीं) जनयन्ति । धरानन्दनः (मङ्गलः)
रुजा-दहन-दस्युभिर्विधुरितां दुःखितां जनयति । अर्कात्मजः (शनिः)
सुतेषु (आत्मजेषु) अपि मितम्पचां कृपणां मलिनमूर्तिं जनयति ।
द्युतीनां पतिः (सूर्यः) सहजदुर्भागां स्वभावदुर्भागां जनयति ॥ २ ॥
भा०-विवाह लग्न से द्वितीय भाव में शुक्र, चन्द्रमा, बृहस्पति और बुध ये
कन्या को अत्यन्त धनवती बनाते हैं । मंगल रोग, अग्नि और चोरों के भय से
पीड़ित बनाता है । शनि द्वितीय भाव में हो तो अपने पुत्रों के प्रति भी कृपण
बुद्धि वाली और मलिन शरीरवाली स्त्री को बनाता है । और सूर्य द्वितीय भाव में
हो तो स्वभाव से ही दुर्भागा स्त्री होती है ॥ २ ॥
अथ तृतीयभावगतग्रहाणां फलानि-
इनशनी सहजे सधनां वधूं तनुधनां सचिवः शुभगां शशी ।
सुकृतिनीं कुरुतः कुजसोमजौ नयति देवरि देवरिपूपनीः ॥ ३ ॥
सं०-सहजे तृतीयभावे 'स्थितौ' इन-शनी सूर्य-शनैश्चरौ वधूं स्त्रियं
सधनां धनयुक्तां कुरुतः । सचिवो बृहस्पतिः तनुधनां स्वल्पधनवतीं, शशी
सुभगां करोति । कुजसोमजौ (मंगल-बुधौ) सुकृतिनीं पुण्यवतीं कुरुतः ।
तथा देवरिपूपनीः ( देवरिपून् दैत्यान् उपनयत्यसौ देवरिपूपनीः शुक्रः )
वधूं स्त्रियं देवरि (देवरे) नयति प्रापयति देवरगामिनीं करोतीत्यर्थः ॥३॥
प्रकरणम् १२ ] वसन्तलक्ष्मीसहितम् । ८३
भा०—तृतीय भाव में सूर्य और शनि हों तो धनवतो, बृहस्पति हो तो
अल्प धनवाली, चन्द्रमा हो तो सुभगा, मंगल बुध हों तो पुण्यवती, और शुक्र हो
तो स्त्री देवरगामिनी होती है ॥ ३ ॥
अथ चतुर्थभावगतग्रहाणां फलानि—
दारिद्र्यं रविरवनिसुतो वराङ्ग-
व्याघातं गुरुभृगुजेन्दुजाः प्रभुत्वम् ।
बाल्येऽब्जः प्रियवियुतिं शनिः स्तनाम्भः-
शून्यत्वं सृजति सुखे सुवासिनीनाम् ॥ ४ ॥
सं०—सुखे चतुर्थभावे स्थितो रविः सुवासिनीनां स्त्रीणां दारिद्र्यं
सृजति करोति । अवनिसुतो मङ्गलो वराङ्गव्याघातं ( वराङ्गस्य भगस्य
व्याघातं भङ्गं ) सृजति । गुरुभृगुजेन्दुजाः प्रभुत्वं, अब्जश्चन्द्रः बाल्ये
बाल्यावस्थायां प्रियवियुतिं स्वामिवियोगं, शनिः स्तनाम्भःशून्यत्वं स्तन्य-
दुग्धशून्यत्वं सृजति ॥ ४ ॥
भा०—विवाह लग्न से चतुर्थ भाव में सूर्य हो तो स्त्री को दारिद्र्य, मङ्गल
हो तो भग में आघात, बृहस्पति, शुक्र, बुध ये प्रभुत्व, चन्द्रमा हो तो बाल्यावस्था
में स्वामी का वियोग और शनि हो तो स्तन में दूध की हानि करता है ॥ ४ ॥
पञ्चमभावगतग्रहाणां फलानि—
सत्पुत्रामसुरसुरेज्यसोमपुत्राः पुत्रारिं रविरसुतप्रजां द्विजेन्द्रः ।
शोकार्तामवनिसुतः सुतस्थ ऐनिः सन्ताने सततरुजं सृजेत्कुमारीम् ॥
सं०—असुरसुरेज्यसोमपुत्राः (गुरु-शुक्र-बुधाः) सुतभावस्थाः कुमारीं
सत्पुत्रां सृजेयुः । रविः सुतस्थः पञ्चमस्थः पुत्रारिं पुत्रघातिनीं सृजेत् ।
द्विजेन्द्रश्चन्द्रः पञ्चमस्थः असुतप्रजां ( कन्यासन्ततिं ), अवनिसुतः मङ्गलः
शोकार्ता, ऐनिः शनिः सुतस्थः सन्ताने सन्ततौ सततरुजं कुमारीं सृजेत् ।
भा०—शुक्र-गुरु बुध ये पञ्चम भाव में हों तो स्त्री को योग्य पुत्रवाली
बनाते हैं । रवि हों तो पुत्रघातिनी, चन्द्रमा हों तो कन्या सन्तानवाली, मङ्गल
हो तो शोक से पीड़िता, और शनि हो तो सन्तान के विषय में सर्वदा रोगवाली
स्त्री होती है ॥ ५ ॥
८४ विवाहवृन्दावनम्— [ कुण्डलिका-
अथ षष्ठभावस्थग्रहाणां फलानि—
विधुर्निधनमिन्दुजः परभयं जयं भानुमान्
कुजः कुशलमर्कभूर्विगतवैरितां वैरिगः ।
रिपुत्वमुशनाः समं सहचरेण चारुभ्रुवां
व्यनक्ति वचसां पतिः पतिमजातशत्रुश्रुतिम् ॥ ६ ॥
सं०-वैरिगः षष्ठभावगतो विधुश्चन्द्रः चारुभ्रुवां स्त्रियां निधनं मरणं
इन्दुजो बुधः परभयं शत्रुभयं, भानुमान् सूर्यो जयं, कुजः कुशलं, अर्कभूः
शनिः विगतवैरितां शत्रुरहितत्वं, उशनाः शुक्रः सहचरेण समं ( स्वामिना
सह ) रिपुत्वं, वचसांपतिः बृहस्पतिः पतिं भर्तारं अजातशत्रुश्रुतिं ( न
जाता शत्रुश्रुतिर्यस्य तथाभूतं ) व्यनक्ति प्रकटयति ॥ ६ ॥
भा०-विवाह लग्न से षष्ठ भाव में चन्द्रमा हों तो कन्या की मृत्यु, बुध
हों तो शत्रु से भय, सूर्य हों तो विजय, मंगल हों तो कुशल, शनि हों तो बैर-
रहिता, शुक्र हों तो पति से शत्रुता, बृहस्पति हो तो उस स्त्री के पति को अजात-
शत्रु ( जो शत्रु का नाम भी नहीं सुना हो ऐसा ) बनाता है ॥ ६ ॥
अथ सप्तमभावगतग्रहाणां फलानि—
बुधो बन्ध्यामिन्दुः परिचितसपत्नीपरिभवां
गलद्गर्भां पङ्गुः परनररतां दानवगुरुः ।
अवीरामस्तेऽर्को गुरुरमरसेवाव्यसनिनीं
विवाहे माहेयः स्त्रियमतिरजस्कां जनयति ॥ ७ ॥
सं०—विवाहे अस्ते सप्तमभावे बुधः स्त्रियं बन्ध्यां, इन्दुः परिचित-
सपत्नीपरिभवां सपत्नीक्लेशयुतां, पङ्गुः शनिः गलद्गर्भां, दानवगुरुः शुक्रः
परनररतां, अर्कः अवीरां पतिरहितां, गुरुः अमरसेवाव्यसनिनीं देवा-
राधनतत्परां, माहेयो मङ्गलः अतिरजस्कां प्रदरव्याधियुतां जनयति ॥७॥
भा०—विवाह लग्न से सप्तम भाव में बुध हो तो स्त्री को बन्ध्या, चन्द्रमा
हो तो सौत के दुख से पीड़िता, शनि हो तो गर्भस्त्राव, शुक्र हो तो परपुरुष-
गामिनी, सूर्य हो तो पतिपुत्ररहिता, बृहस्पति हों तो देवसेवा में तत्पर, और
मंगल हो तो प्रदर रोगयुक्त स्त्री को बनाता है ॥ ७ ॥
प्रकरणम्-१२ ] वसन्तलक्ष्मीसहितम् । ८५
अथाष्टमस्थानस्थग्रहाणां फलानि-
सितसितकिरणेज्या मृत्यवे मृत्युवेश्म-
न्यनवरतसुखायुःसम्पदे सूर्यसौरी ।
भवति पतिशरीरद्रोहकृद्रौहिणेयो
द्रुहिणगृहमुखीनां यक्ष्मणे क्षोणिजन्मा ॥ ८ ॥
सं०-मृत्युवेश्मनि अष्टमस्थाने सितसितकिरणेज्याः द्रुहिणगृहमुखीनां
कमलवदनानां स्त्रीणां मृत्यवे मरणाय भवन्ति । सूर्य-सौरी अनवरतसुखायुः-
सम्पदे भवतः । रौहिणेयो बुधः पतिशरीरद्रोहकृद् भवति । क्षोणिजन्मा
कुजः यक्ष्मणे राजयक्ष्मरोगाय भवति ॥ ८ ॥
भा०-विवाह लग्न से अष्टम स्थान में शुक्र, चन्द्र, बृहस्पति हों तो स्त्रियों
के मृत्युकारक होते हैं । सूर्य और शनि सदा सुख-आयु-सम्पत्ति देते हैं । बुध
स्वामी के शरीर में आघात करनेवाला होता है । और मङ्गल अष्टम स्थान में हो
तो यक्ष्मारोगकारक होता है ॥ ८ ॥
अथ नवमस्थानस्थग्रहाणां फलानि-
शशिसुतगुरुशुक्राः सान्द्रसौभाग्यलीलां
सरलहसितकान्तस्वान्तकेलिं कुमारीम् ।
रविरविसुतवक्राः कैतवाक्रान्तशीलां
तपसि तुहिनरश्मिः स्त्रीसवित्रीं करोति ॥ ६ ॥
सं०-तपसि नवमस्थाने शशिसुत-गुरु-शुक्राः कुमारीं सान्द्रसौभाग्य-
लीलां सरलहसितकान्तस्वान्तकेलिं च कुर्वन्ति । रवि-रविसुत-वक्राः
कैतवाक्रान्तशीलां ( कपटयुक्तस्वभावां ) कुर्वन्ति । तुहिनरश्मिश्चन्द्रः स्त्री-
सवित्रीं ( कन्याप्रसवां ) करोति ॥ ९ ॥
भा०-विवाहलग्न से नवम भाव में बुध, गुरु, शुक्र हों तो अत्यन्त सौभाग्य-
वती और सरल हास्य से स्वामी के हृदय में केलि करनेवाली कन्या होती है ।
सूर्य, शनि, मंगल ये हों तो कपट स्वभाववाली, और चन्द्रमा नवम भाव में हो
तो स्त्री को कन्या सन्तानवाली बनाता है ॥ ९ ॥
८६ विवाहवृन्दावनम्- [ कुण्डलिका-
अथ दशमभावगतग्रहाणां फलानि-
शनिरनियमशौचां कन्यकामन्यकार्यै-
र्विधुरतिविधुराङ्गीं शाकिनीं व्योम्नि वक्रः ।
रचयति रविरुग्रां कोविदः कार्मणज्ञा-
मविकृतसुकृतश्रीमालिनीमार्यशुक्रौ ॥१०॥
सं०-व्योम्नि दशमस्थाने स्थितः शनिः कन्यकां अनियमशौचां
रचयति । विधुश्चन्द्रः अन्यकार्यैः अतिविधुराङ्गीं ( अत्यन्तविकलाङ्गीं ),
वक्रो मङ्गलः शाकिनीं ( मांसादिभक्षणतत्परां ), रविः उग्रां दुःशीलां,
कोविद्ः बुधः कार्मणज्ञां ( कार्मणं क्षुद्रकर्म जानातीति तथाभूतां ) आर्य-
शुक्रौ अविकृतसुकृतश्रीमालिनीं ( पूर्णपुण्यसम्पत्तिसहितां ) रचयतः ।
मालिनीति च्छन्दोऽपि सूचितम् ॥ १० ॥
भा०-विवाहलग्न से दशमस्थान में शनि हो तो कन्या नियम से शौच
( पवित्रता ) रखनेवाली नहीं होती है । चन्द्रमा हो तो दूसरों के कार्य से
अत्यन्त खिन्न शरीर वाली होती है । मंगल हो तो शाकिनी के समान ( मांसादि
भक्षण करने वाली ), रवि हो तो दुष्ट स्वभाववाली, बुध हो तो क्षुद्रकर्म को
करनेवाली और गुरु, शुक्र हो तो पूर्ण पुण्य और सम्पत्ति वाली होती है ॥ १० ॥
अथैकादशभावगतग्रहाणां फलानि-
एकादशे दशशतांशुमुखाः सुखानि
रत्नाम्बरद्रविणभोगभरोन्मुखानि ।
पाणिग्रहे ददति दीर्घदृशां ग्रहेन्द्राः
सर्वेपि सर्वभवनेष्वबला न किञ्चित् ॥११॥
सं०-पाणिग्रहे विवाहे एकादशे स्थाने दशशतांशुमुखाः ( रव्यादयः )
सर्वेपि ग्रहेन्द्राः दीर्घदृशां मृगलोचनानां स्त्रीणां रत्नाम्बरद्रविणभोग-
भरोन्मुखानि सुखानि ददति । अबला निर्बला ग्रहाः सर्वेष्वपि भावेषु
किञ्चित् अपि फलं न ददति । अर्थात् सबला ग्रहा एवोक्तं फलं दातु-
मर्हन्ति, नाबला इति ॥ ११ ॥
भा०-विवाह लग्न से ११ स्थान में स्थित सूर्यादि सब ग्रह स्त्रियों को रत्ना-
भरण, वस्त्र, धन आदि भोग सुख देते हैं । निर्बल ग्रह कुछ भी (शुभ या अशुभ)
प्रकरणम् १२ ] वसन्तलक्ष्मीसहितम् । ८७
भावफलों को नहीं दे सकता है । अर्थात् सबल ग्रहों का ही भावफल समझना
चाहिये ॥ ११ ॥
अथ द्वादशस्थानस्थितग्रहाणां फलानि—
व्यये शुभाः सद्व्ययकर्षितां शनिः
सुरारुचिं रचयति दुर्विधां विधुः ।
अदक्षिणावयवरुजं कुजो रवि-
र्विरूपयत्यतिरुचिरामपि स्त्रियम् ॥१२॥
सं०—व्यये द्वादशस्थाने शुभाः ( शुभग्रहाः चन्द्रबुधगुरुशुक्राः )
सद्व्ययकर्षितां स्त्रियं रचयति । शनिः सुरारुचिं, विधुः दुर्विधां दुष्टकार्या,
कुजः अदक्षिणावयवरुजं ( वामाङ्गरोगिणीं ), रविः अतिरुचिरां ( अति-
सुन्दरीं ) अपि स्त्रियं विरूपयति रूपहीनां करोति । रुचिरेति च्छन्दोपि
सूचितम् ॥ १२ ॥
भा०—विवाह लग्न से द्वादश स्थान में शुभग्रह ( चन्द्र, बुध, गुरु, शुक्र )
हों तो स्त्री को समुचित व्यय ( खर्च ) करनेवाली बनाते हैं । शनि हो तो
मदिरा से रुचि रखने वाली, चन्द्रमा हो तों कुकर्म करने वाली, मंगल हो तो
वाम अंग में रोग वाली और सूर्य हो तो अत्यन्त सुन्दरी स्त्री को भी कुरूपा बना
देते हैं ॥ १२ ॥
अथ फलानां प्राशस्त्यं कथयति—
इति मुनिजनमतमतनुवितर्कं प्रतिगृहचरखचरोद्यदुदर्कम् ।
परिविगणय्य विशेषमशेषं फलमिदमूह्यमनुज्झितरेखम् ॥१३॥
सं०— इत्येवमुक्तं मुनिजनमतं अतनुवितर्कं ( अतनुर्बहुः वितर्को
यस्य तत् ) प्रतिगृहचरखचरोद्यदुदर्कं ( प्रतिराशिगतखचराणां उद्यन्
उदर्को भाविफलं यस्मिन् तत् ) इदं अशेषं ( समस्तं ) फलं विशेषं परि-
विगणय्य ( सम्यग् विचार्य ) अनुज्झितरेखं ( नोज्झिता रेखा येन तत्
तथोक्तं ) ऊह्यम् ज्ञेयम् ॥ १३ ॥
भा०--इस प्रकार मुनिजनों के सम्मत प्रति राशिगत ग्रहों के भविष्य
शुभाशुभ है जिसमें ऐसे पूर्वोक्त फलों को विशेष रूप से विचार करके सत्य
समझना चाहिये ॥ १३ ॥
८८ विवाहवृन्दावनम् - [बलाबला-
अथ ग्रहयोगादिबलावलाध्यायः ।
तत्रादौ भावफलोपसंहारादिकं कथयति-
षट्त्र्यायेष्वशुभाः शुभाय निधनद्यूनान्त्यवर्जं परे
त्र्यायार्थेषु शशी मृतौ शनिरवी भङ्गाय तत्रापरे ।
क्रूरद्यूनवृतान्विते शशितनू अस्ते सितज्ञौ विधु-
र्लग्ने सोमसिताधिपा द्विषि सितः सेन्दुर्विनष्टोऽशपः ॥ १॥
सं० - षट्त्र्यायेषु स्थानेषु अशुभाः पापग्रहाः शुभाय भवन्ति, अर्था-
दन्यभावेषु अशुभाय भवन्ति । परे ( शुभग्रहाः ) निधनद्यूनान्त्यवर्जं
( अष्टम-सप्तम-द्वादशस्थानानि वर्जयित्वाऽन्यस्थानेषु ) शुभाय भवन्ति ।
त्र्यायार्थेषु शशी चन्द्रः शुभाय भवति । मृतौ अष्टमे शनि-रवी शुभाय
भवतः । तत्राष्टमेऽपरे ( चन्द्र-कुज-बुध-गुरु-शुक्राः ) भङ्गाय भवन्ति ।
शशितनू चन्द्रलग्ने क्रूरद्यूनवृतान्विते ( क्रूरेण पापेन द्यूनं सप्तमस्थानं वृतं
आक्रान्तं ययोस्ते तथा क्रूरेणाऽन्विते युक्ते ) भङ्गाय भवतः । अस्ते सप्तमे
सित-ज्ञौ भङ्गाय भवतः । विधुर्लग्ने, सोमसिताधिपाः ( सोमश्चन्द्रः, सितः
शुक्रः, अधिपो लग्नद्रेष्काणांशस्वामिनस्ते ) द्विषि षष्ठभावे भङ्गाय ,तथा
सेन्दुश्चन्द्रसहितोऽशपो लग्नांशपतिर्नष्टोऽस्तङ्गतो भङ्गाय लग्नभङ्गकारको
भवतीत्यर्थः ॥ १ ॥
भा०- ६, ३, ११ स्थानों में पापग्रह ( शनि, मंगल, सूर्य, राहु ) शुभ-
प्रद होते हैं । अर्थात् अन्य स्थानों में अशुभ होते हैं । तथा शुभग्रह ( चन्द्र,
बुध, गुरु, शुक्र ) ८, ७, १२ इन स्थानों को छोड़कर शेष स्थानों में शुभ होते
हैं । अर्थात् ८, ७, १२ में अशुभप्रद होते हैं । ३, ११, २ में चन्द्रमा शुभ होता
है । ८ में शनि और रवि शुभप्रद होते हैं । तथा इस ( अष्टम ) में शेषग्रह
( चन्द्र, कुज, बुध, गुरु, शुक्र ) भङ्गकारक होते हैं । चन्द्र और लग्न से सप्तम में
तथा चन्द्र लग्न के साथ में पापग्रह हो तो भङ्गकारक होता है । सप्तम में शुक्र,
बुध भङ्गकारक होते हैं । लग्न में चन्द्रमा, षष्ठ में चन्द्रमा, शुक्र और लग्ननवांश-
द्रेष्काण के स्वामी भङ्गकारक होते हैं । तथा नवांशपति सहित चन्द्रमा अस्त हो
तो भङ्गकारक होता है ॥ १ ॥
अथ सप्तमदशमस्थानस्थचन्द्रस्य विशेषमाह-
ऋतूर्यकायकेन्द्रगः सुहृत्स्वसौम्यवर्गयुक् ।
प्रकरणम्-१३ ] वसन्तलक्ष्मीसहितम् । ८६
सुहृच्छुभैक्षितः शुभः शशी मयूखमांसलः ॥ २ ॥
सं०—अतुर्यकायकेन्द्रगः (तुर्यकायाभ्यां चतुर्थलग्नाभ्यामन्यत् तत्केन्द्रं
चेत्यतुर्यकायकेन्द्रं तन्नगतः सप्तमदशमभावस्थः ) सुहृत्स्वसौम्यवर्गयुक्
सुहृच्छुभैक्षितः मयूखमांसलः ( अंशपूर्णः ) शशी शुभः स्यात् ॥ २ ॥
भा०—सप्तम और दशमभाव में चन्द्रमा यदि मित्र, शुभग्रह या अपने
वर्ग में हो मित्र और शुभग्रह से देखा जाता हो और सम्पूर्ण किरणवाला हो तो
शुभ होता है ॥ २ ॥
वि०—"त्रिकोणसप्तमाम्बरव्ययोपगो विलग्नतः । हिमद्युतिः शुभर्क्षगः
शुभेक्षितश्च शोभनः ॥" इस प्रकार शौनक मुनि ने द्वादश स्थान में भी शुभ
कहा है । परञ्च द्वादशस्थानस्थ चन्द्र को नारदजी ने महादोष में कहा है अतः
आचार्य ने उसे त्याग कर दिया है ॥ २ ॥
अथ शुभयोगान् कथयति—
शशितनयसिताभ्यां नन्दभद्रावुभाभ्यां
जय इति तनुयाते जीव इत्येष जीवे ।
असुरसुरगुरुभ्यां स्थावरो ज्ञेज्यशुक्रै-
र्विजय इति विशुक्रं तं च जीमूतमाहुः ॥ ३ ॥
सं०—शशितनयसिताभ्यां ( बुध-शुक्राभ्यां ) 'तनुगताभ्यां' 'क्रमेण'
नन्द-भद्रौ योगौ भवेताम् । बुधेन लग्नगतेन नन्दः, शुक्रेण भद्र इत्यर्थः ।
उभाभ्यां बुधशुक्राभ्यां लग्नगताभ्यां जय इति योगः स्यात् । जीवे गुरौ
तनुयाते लग्नगते इत्येष जीवो नाम योगः स्यात् । असुरसुरगुरुभ्यां
तनुगताभ्यां स्थावरो नामयोगः, ज्ञेज्यशुक्रैः तनुगतैः विजयो नाम योगः
स्यात् । विशुक्रं तं विजयं जीमूतं योगमाहुराचार्याः । बुधगुरुभ्यां लग्नगता-
भ्यां जीमूतो नामयोग इत्यर्थः ॥ ३ ॥
भा०—लग्न में बुध हो तो नन्द नामक योग, और शुक्र हो तो भद्र नामक
योग, तथा बुध शुक्र दोनों हों तो जय नामक योग, बृहस्पति हो तो जीव नामक,
बृहस्पति शुक्र दोनों हों तो स्थावर; बुध बृहस्पति शुक्र तीनों हों तो विजय, और
बुध बृहस्पति हों तो जीमूत नामक योग होता है ॥ ३ ॥
१२
६० विवाहवृन्दावनम्- [ बलाबला-
अथैषां योगानां फलं कथयति-
इति शुभफलयोगाः सप्त सप्तर्षिमुख्यै-
र्मुनिभिरभिहितास्ते जन्मयात्रास्वपि स्युः।
भजति युवतिरेभिर्भूपसीमन्तिनीत्वं
ग्रहयुतिबलयोगादुत्तराधर्यमस्मिन् ॥ ४ ॥
सं०-इत्येवं सप्तर्षिमुख्यैः विवाहे सप्त शुभफलयोगा अभिहिताः
कथिताः। ते योगा जन्मयात्रास्वपि शुभफलाः स्युः। एभिर्नन्दादिभिर्योगैः
युवतिः भूपसीमन्तिनीत्वं राजपत्नीत्वं भजति। अस्मिन् शुभफले ग्रहयुति-
बलयोगात् उत्तराधर्यं आधिक्यं न्यूनत्वं च स्यात् ॥ ४ ॥
भा०-इस प्रकार विवाह में सप्तर्षि आदि मुनीन्द्रों ने ७ शुभ फलयोग कहे
हैं। ये योग जन्म और यात्रा समय में भी शुभप्रद होते हैं। इन योगों से
स्त्री राजपत्नी होती है। इन योगों के फल में ग्रहों के योग और बल के अनुसार
अधिकता और न्यूनता समझनी चाहिये ॥ ४ ॥
अथाऽशुभयोगान् कथयति-
दिनकररुधिराभ्यां व्यालपातालवक्त्रौ
क्षय इति रविपुत्रे सैंहिकेये तमस्कम्।
तनुगृहयुजि केतावन्तकस्तेषु शोक-
व्यसननिधनताभिस्तप्यते पङ्कजाक्षी ॥ ५ ॥
सं०-दिनकर-रुधिराभ्यां (रवि-कुजाभ्यां) तनुगृहयुक्ताभ्यां 'क्रमेण'
व्याल-पातालवक्त्रौ योगौ भवतः। रविणा व्यालः, कुजेन पातालवक्त्र
इत्यर्थः। रविपुत्रे तनुगृहयुजि (लग्नगते) क्षय इति योगः, सैंहिकेये (राहौ)
लग्नगते 'अन्तक' इति योगः स्यात्। तेषु व्यालादियोगेषु पङ्कजाक्षी स्त्री
शोकव्यसननिधनताभिः तप्यते ॥ ५ ॥
भा०-लग्न में सूर्य हो तो व्याल, मङ्गल हो तो पातालवक्त्र, शनि हों
तो क्षय, राहु हो तो तमस्क, केतु हो तो अन्तक नामक योग होता है। इन योगों
में विवाहिता कुमारी शोक, दुःख, और निर्धनता से तप्त रहती है ॥ ५ ॥
प्रकरणम् १३ ] वसन्तलक्ष्मीसहितम् । ६१
अथान्यौ दुष्टयोगौ कथयति-
तनुतुहिनमरीच्योरङ्गनाखेटदृष्टौ
चरगृहगतयोः स्यात्कान्तयुग्मं कुमार्याः ।
अविदिशि बलिनश्चेद्यायिनो युग्म इन्दा-
वशुभदृशमुपेते कन्यका त्वन्यकाम्या ॥ ६ ॥
सं०-तनुतुहिनमरीच्योः लग्नचन्द्रयोः चरगृहगतयोः अङ्गनाखेटदृष्टौ
( शुक्र-दृष्टौ ) सत्यां चेद् यायिनो ग्रहाः बलिनोऽविदिशि ( विदिशोऽन्याऽ-
विदिक् तस्यां, लग्न-चतुर्थ-सप्तम-दशमेष्वित्यर्थः ) स्थितास्तदा-कुमार्याः
कन्यायाः कान्तयुग्मं पतिद्वयं भवति । तथा इन्दौ चन्द्रे युग्मे समराशौ
स्थिते अशुभदृशमुपेते सति कन्यकाऽन्यकाम्या ( अन्यः काम्यो यस्याः सा
तथोक्ता ) भवति ॥ ६ ॥
भा०-लग्न और चन्द्रमा दोनों चर राशि में हों उन पर शुक्र की दृष्टि हो
और यायी ग्रह बलवान् होकर केन्द्र में हों तो कन्या को दो पति होते हैं । तथा
चन्द्रमा समराशि में हो उस पर पापग्रह की दृष्टि हो तो कन्या दूसरे पुरुष की
कामना करनेवाली होती है ॥ ६ ॥
विशेष-"यत्र लग्नमपमण्डलं कुजे तद्गृहाद्यमिह लग्नमुच्यते ।
प्राचि पश्चिमकुजेऽस्तलग्नकं मध्यलग्नमिति दक्षिणोत्तरे ॥”
वि० - इस वचन से लग्न, चतुर्थ, सप्तम, दशम भाव पूर्वादि दिशाओं में
और शेष भाव विदिशा में पड़ते हैं । तथा-यायी, स्थायी और आक्रन्द तीन
प्रकार के ग्रह होते हैं । यथा वराह-
रविराक्रन्दो मध्ये पौरः पूर्वे परे स्थितो यायी ।
पौरा बुधगुरुरविजा नित्यं शीतांशुराक्रन्दः ।
केतुकुजराहुशुक्रा यायिन इत्याहुराचार्याः ॥"
अर्थात् सूर्य मध्य ( चतुर्थ दशमभाव ) में आक्रन्द, प्रथम लग्न में स्थायी तथा
सप्तम में यायी होता है । और बुध गुरु शनि स्थायी, चन्द्रमा आक्रन्द, तथा
केतु, मंगल, राहु, शुक्र ये यायी ग्रह हैं । शौनक मुनि ने इन दोनों योग को
स्पष्ट कहा है-
"लग्नेन्दू चरराशौ केन्द्रस्था यायिनो यदा बलिनः ।
योषिद्ग्रहसंदृष्ट्या पतिद्वयं गच्छते नारी ॥”
६२ विवाहवृन्दावनम्— [ बलाबला-
तथा—"क्रूरग्रहसंदृष्टे समर्क्षगे शशिनि भजति पतिमन्यम् ।
स्त्रीणामन्यत्र गते सौम्यैर्दृष्टे शुभं भवति ॥” इति ॥६॥
अथ पुंस्त्रीग्रहबलवशेन फलान्तरमाह—
नरः प्रियो नीरजलोचनानां नरग्रहैरुत्कटकान्तिवीर्यैः ।
नारी नृणां चित्तहरा स्वभोगैर्नारीनभोगैर्बलशालिभिस्तु ॥ ७ ॥
सं०—नरग्रहैः (गुरुरविकुजैः) उत्कटकान्तिवीर्यैः (अतिप्रकाश-
बलयुतैः) सद्भिः नीरजलोचनानां कन्यानां नरो भर्त्ता प्रियो भवति ।
नारीनभोगैः स्त्रीग्रहैः (चन्द्रशुकैः पूज्यार्थत्वाद्वहुवचनम्) बलशालि-
भिस्तु नारी स्त्री स्वभोगैः नृणां स्वामिनां चित्तहरा प्रिया भवति ॥ ७ ॥
भा०—विवाह समय पुरुषग्रह (गुरु·रवि·मंगल) बली हों तो स्त्री को स्वामी
प्रिय होता है। तथा स्त्री ग्रह बली हो तो स्वामी को स्त्री प्रिया होती है ॥ ७ ॥
अथ पतिश्वशुरादीनां फलान्तराण्याह—
पतिरस्तपतिर्विरोचनः श्वशुरस्तत्प्रमदा मदग्रहः ।
अबला बलिनो दिशन्त्यमी सुदृशां तेष्वशुभं शुभं क्रमात् ॥ ८ ॥
सं०—सुदृशां (सुलोचनस्त्रीणां) अस्तपतिः सप्तमेशः पतिः, विरोचनः
सूर्यः श्वशुरः, मदग्रहः शुक्रः तत्प्रमदा (श्वशुरस्त्री श्वश्रूः) भवति । अमी
पत्यादिग्रहाः अबला बलिनः क्रमात् तेषु पत्यादिषु अशुभं शुभं च दिशन्ति,
अबला अशुभं, बलिनः शुभं दिशन्तीत्यर्थः ॥ ८ ॥
भा०—सप्तमेश स्त्रियों का स्वामी, सूर्य श्वशुर और शुक्र सास है। ये निर्बल
हों तो पति आदि के अशुभफल और बली हों तो शुभफल देते हैं ॥ ८ ॥
शशिसूर्यसुतावनीसुतैर्रिनीचास्तगतैः करग्रहे ।
अपि तन्वधिपेन तप्यते निरपत्या नियतं नितम्बिनी ॥ ६ ॥
सं०—करग्रहे विवाहे शशिसूर्यसुतावनीसुतैः अरिनीचास्तगतैः
तन्वधिपेन लग्नेशेनापि अरिनीचास्तगतेन नितम्बिनी स्त्री निरपत्या
सन्तानरहिता सती तप्यते । इदं फलं सप्तमभावे हीनबले सति बोध्यं यतः
शौनकः—"लग्नपतौ रिपुभवने नीचे वा रविसुतावनीजैः । बलरहिते च
द्यूने स्त्रीणां न भवन्त्यपत्यानि ॥" इति ॥ ९ ॥
चतुर्थ खण्ड: पाणिग्रहण विधि एवं मङ्गलाष्टक निरूपण
प्रकरणम् १३ ] वसन्तलक्ष्मीसहितम् । ६३
भा०-चन्द्र, रवि भौम और लग्नेश ये शत्रुगृह, नीचराशि, में वा अस्त हों
तथा सप्तमभाव निर्बल हो तो स्त्री सन्तानहीन होकर दुःखिनी होती है ॥ ९ ॥
लोकेषु काचिद्रीतिः शास्त्रविरुद्धास्ति तां निन्दति—
कवेस्तृतीयस्य शुभाय रेखा लग्नं नभस्थो न भनक्ति भौमः ।
तद्वद्द्व्यये सौरिरपीति रीतिर्जनेषु जागर्तिंतरां कुतस्त्या ॥१०॥
सं०-तृतीयस्य कवेः शुक्रस्य शुभाय रेखा भवति, नभस्थो दशमस्थो
भौमो लग्नं न भनक्ति, तद्वत् सौरिः शनिः अपि व्यये लग्नं न भनक्ति,
इतीयं रीतिः जनेषु लोकेषु कुतस्त्या जागर्तिंतराम् ? इति न जाने, अर्थादियं
रीतिः शास्त्रविरुद्धा निर्मूलास्तीति ॥ १० ॥
भा०—लोक में तृतीय शुक्र की शुभार्थ रेखा होती है। तथा दशम मंगल
और द्वादश शनि भी लग्न के भङ्गकारक नहीं माने जाते, यह रीति कहाँ से
आकर अत्यन्त प्रसिद्ध हुई ? इसका पता नहीं अर्थात् इस लोकरीति का प्रमाण
शास्त्र में नहीं मिलता है ॥ १० ॥
अथ जामित्रदोषे विशेषमाह—
उशना गुरुरिन्दुनन्दनः शशिजामित्रगपापतापहृत् ।
नवपञ्चमकेन्द्रमित्रभप्रणयी पुष्टदृशा विधुं स्पृशन् ॥११॥
सं०-उशनाः शुक्रः, गुरुः, इन्दुनन्दनो बुधः नवपञ्चमकेन्द्रमित्रभ-
प्रणयी (नवमपञ्चमकेन्द्रस्थो मित्रराशिगतः ) पुष्टदृशा विधुं चन्द्रं
स्पृशन् पश्यन् शशिजामित्रगपापतापहृद् ( पापकृतचन्द्रजामित्रदोषाप-
हारको ) भवति । अत्र केन्द्रं सप्तमरहितं ज्ञेयं तथा चोक्तम्—“हरिज-
दिवसचन्द्रात् सप्तमक्रूरदोषक्षयकृदमरपूज्यः सोमपुत्रः सितो वा । उदयहि-
बुकधर्मव्योमपुत्रालयस्थो यदि च सकलदृष्ट्यालोकयेच्छीतरश्मिम् ॥”
भा०-शुक्र, बृहस्पति, बुध इनमें से एक भी ९।५।१।४।१० भावगत
होकर मित्र की राशि में हो और पूर्णदृष्टि से चन्द्रमा को देखता हो तो चन्द्रमा
से सप्तमस्थ पापग्रह जनित दोष को नाश कर देता है ॥ ११ ॥
हिमरश्मिनवांशकात् खलो यदि खेटः शरसायकांशके ।
अयमन्यगुणैर्न हन्यते निविडैरप्युपसर्गडम्बरः ॥ १२ ॥
सं०-हिमरश्मिनवांशकात् खलः खेटो यदि शरसायकांशके पञ्च-
६४ विवाहवृन्दावनम्— [ बलाबल-
पञ्चाशत्तमे नवांशके स्यात् तदा अयं उपसर्गडम्बरः पूर्णजामित्रदोषा-
डम्बरः निबिडैः सम्पूर्णैरप्यन्यगुणैर्न हन्यते ॥ १२ ॥
भा०—जिस नवांश में चन्द्रमा हो उससे ५५ वाँ नवांश में यदि पापग्रह
हो तो यह पूर्णजामित्रदोष परिपूर्ण भी अन्य गुणों से नाश नहीं होता है ॥१२॥
अथोक्तयोगानां सफलत्वमफलत्वं चाह—
मोघाः शिखिदग्धबीजवद्योगाः केपि शरीरधारिणः ।
दृढगूढफलोदयाः परे पर्णाकीर्णहुताशराशिवत् ॥१३॥
सं०—केऽपि योगाः शरीरधारिणः (प्रत्यक्षा अपि) शिखिदग्धबीज-
वत् मोघाः (विफलाः) भवन्ति । परे (अन्ये केचित् योगाः) पर्णा-
कीर्णहुताशराशिवत् (पर्णाच्छादिताग्निसमूह इव) दृढगूढफलोदयाः (दृढ-
गूढः प्राच्छन्नः फलोदयो येषां ते तथोक्ताः) भवन्ति । सबलग्रहसम्बन्धि-
योगाः सफलाः, विबलग्रहसम्बन्धियोगा विफला भवन्तीत्यर्थः ॥ १३ ॥
भा०—जैसे अग्नि से जले हुए बीज विफल होते हैं उसी प्रकार कितने
(निर्बल ग्रहों के) योग प्रत्यक्ष रहने पर भी विफल होते हैं । तथा—कितने
योग 'जो देखने में नहीं भी आते' वे तृणपत्रादि से आच्छादित अग्नि के समान
अवश्यही फलप्रद होते हैं। अर्थात् सबल ग्रहों का अल्पयोग भी फलप्रद, और
निर्बल ग्रहों का संपूर्णयोग भी विफल होता है ॥ १३ ॥
इति यः प्रतिकूलकारकग्रहभावांशनिवेशदृष्टिभिः ।
तन्वादिफलेषु दत्तदृक्स प्राप्नोत्यवतंसतां सताम् ॥१४॥
सं०—इत्युपरोक्तप्रकारेण यः 'दैवज्ञः' प्रतिकूलकारकग्रहभावांश-
निवेशदृष्टिभिः तन्वादिफलेषु दत्तदृक् भवति स 'दैवज्ञः' सतां अवतंसतां
भूषणत्वं प्राप्नोति ॥१४॥
भा०—इस प्रकार जो ज्योतिषी प्रतिकूलकारक (दुष्ट फलप्रद) ग्रह, भाव,
नवांश आदि के स्थानों पर दृष्टि देकर लग्नादि भावों का फल देखता है 'अर्थात्
ग्रहादिकों का बलाबल विचार कर जो फल कहता है' वह विद्वानों में भूषण अर्थात्
पूज्य समझा जाता है ॥१४॥
प्रकरणम्. १४ ] वसन्तलक्ष्मोसहितम् । ४५
अथ मिश्राध्यायः ।
तत्रादौ कीदृशं वरं कीदृशीं कन्यां च वृणुयादित्याह-
उल्लिख्य सामुद्रिकलक्षणानि वरः कुमारीं वृणुयान्निमित्तैः ।
एवं कुमारी वरमप्युदकों न ह्येकधारं निरधारि धीरैः ॥१॥
सं०-वरःनिमित्तैः वक्ष्यमाणैः कृत्वा सामुद्रिकलक्षणानि उल्लिख्य
सम्यग्ज्ञात्वा कुमारीं वृणुयात् । कुमारी कन्यापि एवं निमित्तैः सामुद्रिक-
लक्षणानि उल्लिख्य वरं वृणुयात् वरयेत् । हि यतः धीरैः गर्गादिमुनिभिः
उदर्कः भविष्यकालः एकधा अरं न निरधारि न निर्धारित इत्यर्थः ॥ १ ॥
भा०-वर को चाहिये कि-वक्ष्यमाणनिमित्तों से, सामुद्रिकलक्षणों को
समझ कर कन्या का वरण करै । इसी प्रकार कन्या भी वर का वरण करे ।
क्योंकि गर्गादिमुनियों ने उत्तरकालीन फल एकही प्रकार का नहीं कहा है, अर्थात्
भविष्य फल अनेक प्रकार से होते हैं ॥ १ ॥
स्वप्नो निमित्तं शकुनाः स्वकर्म शरीरमागन्तुकमद्भुतानि ।
दोषाभिचारग्रहचारकालकाम्यानि चैवं विविधः फलाध्वा ॥ २ ॥
सं०-स्वप्नः निद्राविशेषोद्भवं ज्ञानं, निमित्तानि क्षुतादीनि, शकुनाः
पूर्णकलशादयः, स्वकर्म प्राक्तनस्वकर्मविपाकः, शरीरं सामुद्रिकलक्षणा-
दिकम्, आगन्तुकं भविष्यवस्तु जातकादि, अद्भुतानि त्रिविधोत्पाताः,
दोषाः कफपित्तवातोद्भववास्तेषामभिचारः प्रचारः, ग्रहचारः स्वरसाधनादिकः,
कालः संवत्सरादिः, काम्यानि ऐहिकानि पुरुषचेष्टादीनि एवं विविधः नाना-
प्रकारकः फलाध्वा फलमार्गोऽस्ति ॥ २ ॥
भा०-स्वप्न, क्षुत आदि निमित्त, शकुन, पूर्वार्जित कर्म, शरीरलक्षण,
आगन्तुक ( जातक ), दिव्य, भौम, आन्तरिक्ष उत्पात, कफ वातादिजन्य शारीरिक
दोष का प्रचार, ग्रहों का चार, संवत्सर, मास, दिन, लग्न आदि काल और काम्य
( ऐहिक चेष्टादि ) इत्यादि फल कहने के मार्ग अनेक हैं । अर्थात् अनेक मुनियों
ने अनेक प्रकार से फल कहे हैं ॥ यथा-शौनक के वाक्य-
"तिथिकरणर्त्तनिशाकर-विलग्नपरिकल्पना मयं गर्गः ।
पाणिग्रहणेषु फलं वदन्ति यवना वसिष्ठश्च ॥
प्रहराशिगोचरभवं जातकविहितं च देवलः प्राह ।
६६ विवाहवृन्दावनम्- .[मिश्रा-
शकुनिरुतज्ञाः शकुनैर्निमित्तकुशला निमित्तैश्च ॥
कर्मसमुत्थं चान्ये कुलदेशस्त्रीस्वभावमपरे तु ।
इच्छन्त्यन्ये मुनयः कालविशेषाद् विशेषफलमिति ॥” २ ॥
अथ यत्नादेव फलप्राप्तिरित्याह—
प्राक्कर्म बीजं सलिलानिलोर्वीसंस्कारवत्कर्म विधीयमानम् ।
शोषाय पोषाय च तस्य तस्मात्सदा सदाचारवतां न हानिः ॥ ३ ॥
सं०—प्राक्कर्म (पूर्वजन्मकृतं यत् सदसत् कर्म) तस्य (प्राक्कर्मणः) विधीयमानं ( सम्प्रति क्रियमाणं ) कर्म उद्योगः शोषाय नाशाय, पोषाय पुष्ट्यै च भवति । किं वत् बीजं सलिलानिलोर्वी संस्कारवत् । यथा सद्-बीजं जलवायुभूमिसंस्कारेण उत्पद्यते वर्धते च तथैव प्राक्कर्म ( प्रारब्धं ) विधीयमानेन कर्मणा उद्योगेन वर्धतेऽन्यथा क्षीयते तद्वदित्यर्थः । तस्मात् कारणात् सदा चारवतां ( श्रुतिस्मृतिविहितकर्म सदाचारस्तद्वतां ) जनानां कदाचिदपि हानिर्न स्यात् । एतेन स्वप्नादयोऽपि विलोकनीया एवेति सिद्धम् ॥ ३ ॥
भा०—जैसे जल, वायु और पृथ्वी के संस्कार से बीज की उत्पत्ति और वृद्धि होती है, उसी प्रकार वर्तमान समय में क्रियमाण कर्म ( उद्योग ) पूर्वकृतं कर्म का शोषक ( नाश करनेवाला ) और पोषक ( बढ़ानेवाला ) होता है। अर्थात् उद्योग से ही शुभ फल का लाभ, और अशुभ फल का नाश हो सकता है अन्यथा नहीं । इसलिये सदाचारवान् ( श्रुति स्मृति विहित धर्म के पालन करने वालों ) की कभी हानि नहीं हो सकती है ॥ ३ ॥
उद्योगेन विना प्राक्तनकर्म न फलतीत्याह —
फलेद्यदि प्राक्तनमेव तत्किं कृष्याद्युपायेषु परः प्रयत्नः ।
श्रुतिः स्मृतिश्चापि नृणां निषेधविध्यात्मके कर्मणि किं निषण्णा ॥
सं०—यदि प्राक्तनं पूर्वकृतं कर्मैव फलेत् तत् तदा कृष्याद्युपायेषु परः प्रयत्नः किं स्यात् ? । तथा श्रुतिः स्मृतिश्चापि नृणां निषेधविध्यात्मके कर्मणि किं निषण्णा प्रवृत्ता ? । अतः सत्फललाभाय, असत् फलनाशाय चावश्यमेव प्रयत्नः कर्तव्य एवेति ॥ ४ ॥
भा०—अगर प्रारब्ध ही फलीभूत होता तो कृषि वाणिज्य आदि के उपायों में लोग यत्न क्यों करते हैं, लोग ही नहीं, श्रुति स्मृति भी लोगों के निषेध और
प्रकरणम् १४ ] वसन्तलक्ष्मीसहितम् । ६७
विधि कर्मों में क्यों प्रवृत्त है । इससे सिद्ध हुआ कि शुभफल लाभ और पापफल
नाश के लिये सर्वदा यत्नशील रहना चाहिये ॥ ४ ॥
अथ सप्तभिः श्लोकैः स्वस्वजनस्यारिष्टलक्षणान्याह—
छायां विधोर्न ध्रुवमृक्षमालामालोकयेद्यो न च मातृचक्रम् ।
खण्डम्पदं यस्य च कर्द्दमादौ कफश्च्युतो मज्जति चाम्बुचुम्बी ॥५॥
सं०—यो जनः विधोश्छायां कलङ्कलेखां न आलोकयेत्, ध्रुवं,
ऋक्षमालां नक्षत्रमण्डलम्, मातृचक्रं मातृसंज्ञकताराणां चक्रं मण्डलम्
नालोकयेत्, यस्य जनस्य च कर्द्दमादौ खण्डं पदं भवति, यस्य कफः च्युतः
सन् अम्बुचुम्बी मज्जति—‘अमुं एवंभूतं नेदिष्ठदिष्टान्तं ( आसन्नमृत्युं )
वरं कुमार्याः प्रदानाय आर्या न वृणीरन् न वरयेयुः’ इत्येकादशश्लोकेन
[L12
६८ विवाहवृन्दावनम्- -[ मिश्र-
मुख में तर्जनी मध्यमा और अनामिका ये तीनों अङ्गुली साथ जोड़कर न समाय,
स्नान करने पर जिसके मस्तक से धूमशिखा चले, अथवा जिसके मस्तक पर
खाली मुँहवाला पक्षी बैठे, जो कान झापने पर अन्तर का शब्द न सुने,
बहुत खाने पर भी जिसकी तृप्ति न हो, जो कान्तिमान अकस्मात् कान्तिरहित वा
कान्तिरहित भी कान्तियुक्त हो जाय, जो अकस्मात् दुबला से मोटा वा मोटा से
दुबला हो जाय, इस प्रकार के वरों का बरण नहीं करना चाहिये ॥६-७॥
अतीव तुच्छं बहु चाप्यहेतोरतीतसात्म्यः सदसत्प्रवृत्तौ ।
अप्यंगुलिक्रान्तविलोचनान्तो न मेचकं चान्द्रकमीक्षते यः ॥८॥
मध्येल्ललाटं मणिबन्धधारी न चाल्पिकां पश्यति यः कलावीम् ।
अहेतुकं यः शवगन्धिगात्रः सर्वत्र सीमन्तितमूर्धजो वा ॥६॥
सं०-यश्च अहेतोः ज्वरादिकारणं विनैव अतीवतुच्छं अतिशयाल्पं
अत्ति, यश्चाहेतोः भस्मकादिरोगहेतुं विनापि बहु अत्यधिकं अत्ति भक्षयति,
यश्च सदसत्प्रवृत्तौ अतीतसात्म्यः त्यक्तस्वभावगुणः, यश्च अङ्गुलिक्रान्तवि-
लोचनान्तः सन्नपि चान्द्रकं मेचकं मेचकवर्णवद्भासमानं नेक्षते । यश्च
मध्येल्ललाटं ललाटस्य मध्ये मणिबन्धधारी अल्पिकां कलावीं (मणिबन्धाधो
वलयधारणस्थानं ) न पश्यति, यश्च अहेतुकं शवगन्धिगात्रः, यश्च वा
सर्वत्र सीमन्तितमूर्धजः ( सीमन्तिता मूर्धजाः केशा यस्य स तथोक्तः )
अमुं वरं न वृणीरन् ॥ ८-९ ॥
भा०-जो ज्वर आदि बिना कारण के बहुत थोड़ा भोजन करै, वा भस्मक
आदि रोग बिना बहुत खाय, उचित अनुचित में जिसका स्वभाव बदल जाय
'अर्थात् जो सर्वदा उचित करनेवाला हो वह अनुचित करने लगे, वा सर्वदा
अनुचित करनेवाला उचित करने लगे; जो अङ्गुलियों से नेत्रप्रान्त को झाँपकर
मेचकवर्ण चान्द्रक ( खद्योतवत् भासमान ) न देखे, जो ललाट मध्य में मणिबन्ध
( तलहथ के नीचे का गाँठ ) को रखकर दुबला पहुँचा को न देखे, वा बिना
कारण मुर्दे के समान गन्ध शरीर में हो जावै, अथवा जिसके केश में सब जगह
सीमन्त ( ककवा से बनाई रेखा के समान रेखायें ) हो जायँ, इस प्रकार के वरों
का वरण नहीं करना चाहिये ॥ ८-९ ॥
अपि क्षरद्रोमनखः शरीरात् स्वप्ने स्रवद्दामविलोचनो वा ।
निरीक्षते सत्त्वममानुषं वा विस्रस्तनासानयनश्रुतिर्वा ॥१०॥
प्रकरणम् १४ ] वसन्तलक्ष्मीसहितम् । ६६
आक्षिप्यमाणो दिशि दक्षिणस्यां जागर्ति यानेऽधिकृतः खरादौ ।
नेदिष्ठदिष्टान्तममुं कुमार्या नाऽऽर्य्याः प्रदानाय वरं वृणीरन् ॥११॥
सं०—अपि वा यः स्वप्ने शरीरात् क्षरद्रोमनखः, वा स्रवद्वामविलो-
चनः, वा अमानुषं ( मनुष्यभिन्नं ) सत्त्वं जन्तुं निरीक्षते, अपिवा विस्र-
स्तनासानयनश्रुतिः वा खरादौ यानेऽधिकृतः दक्षिणस्यां दिशि आक्षिप्य-
माणः सन् जागर्ति, अमुं एवंभूतं नेदिष्ठदिष्टान्तं ( नेदिष्ठः अत्यासन्नो
नेदिष्टो मृत्युर्यस्य तं तथोक्तं ) वरं कुमार्याः कन्याकायाः प्रदानाय आर्याः
श्रेष्ठा ज्ञातारो न वृणीरन् ( न वरयेयुः ) ॥१०-११॥
भा०—जिसके स्वप्न में शरीर से रोम, नह वा वामनेत्र गिर पड़े, वा मनुष्य
से भिन्न ( व्याघ्र आदि ) जन्तुओं को देखे वा नाक, नेत्र, कान ये शिथिल हो
जाय, अथवा गदहे आदि सवारियों पर आरूढ़ होकर दक्षिण दिशा में प्रेरित
होकर जाता हुआ जाग पड़े, इस प्रकार के समीप मृत्युवाले वरों का आर्य पुरुष
कन्यादान के लिये वरण न करै ॥१०-११॥
अथ छायालक्षणेनारिष्टसम्भवं कथयति—
छायां निरीक्ष्य क्षणमन्तरिक्षं पश्यन्न यो निश्चलनेत्रपातः ।
शुभ्राभ्रसच्छायमिह स्वकायं पश्येत्स नश्येद्विकृतौ विकारः ॥१२॥
सं०—यश्च निश्चलनेत्रपातः स्थिरदृष्टिः सन् छायां निरीक्ष्य क्षणं
अन्तरिक्षं पश्यन् स्वकायं शुभ्राभ्रसच्छायं न पश्येत् स नश्येत् नाशं
गच्छेत् । इहाऽस्मिन् स्वशरीरे विकृतौ दृष्टायां विकारः स्यात् ॥१२॥
भा०—जो मनुष्य स्थिर दृष्टि से अपनी छाया को देखकर क्षणभर आकाश
को देखता हुआ फिर अपने शरीर को स्वच्छ मेघ के समान न देखै वह आसन्न
कालही में मर जाता है । तथा अपने जिस अंग को विकृत रूप में देखे उस अंग
में शीघ्र विकार हो जाता है ॥१२॥
अथ सत्पुरुषलक्षणान्याह—
प्रदक्षिणावर्तशरीररोमा वृषस्वनः फेनिलमूत्रपातः ।
नात्यल्पपाष्णिर्मनसा गभीरो धीरोन्नतारम्भरुचिर्यशस्वी ॥१३॥
स्निग्धेक्षणत्वङ्नखदन्तकेशो युवा सुवासाः परिवीतचेष्टः ।
न स्त्रीमुखो निप्रभशान्तमूर्तिर्न चातिकृष्णेक्षणतारको वा ॥१४॥