विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)
Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan
केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा
पृष्ठ 101, कुल 138 में से
संदर्भ में पढ़ें८८ विवाहवृन्दावनम् - [बलाबला-
अथ ग्रहयोगादिबलावलाध्यायः ।
तत्रादौ भावफलोपसंहारादिकं कथयति-
षट्त्र्यायेष्वशुभाः शुभाय निधनद्यूनान्त्यवर्जं परे
त्र्यायार्थेषु शशी मृतौ शनिरवी भङ्गाय तत्रापरे ।
क्रूरद्यूनवृतान्विते शशितनू अस्ते सितज्ञौ विधु-
र्लग्ने सोमसिताधिपा द्विषि सितः सेन्दुर्विनष्टोऽशपः ॥ १॥
सं० - षट्त्र्यायेषु स्थानेषु अशुभाः पापग्रहाः शुभाय भवन्ति, अर्था-
दन्यभावेषु अशुभाय भवन्ति । परे ( शुभग्रहाः ) निधनद्यूनान्त्यवर्जं
( अष्टम-सप्तम-द्वादशस्थानानि वर्जयित्वाऽन्यस्थानेषु ) शुभाय भवन्ति ।
त्र्यायार्थेषु शशी चन्द्रः शुभाय भवति । मृतौ अष्टमे शनि-रवी शुभाय
भवतः । तत्राष्टमेऽपरे ( चन्द्र-कुज-बुध-गुरु-शुक्राः ) भङ्गाय भवन्ति ।
शशितनू चन्द्रलग्ने क्रूरद्यूनवृतान्विते ( क्रूरेण पापेन द्यूनं सप्तमस्थानं वृतं
आक्रान्तं ययोस्ते तथा क्रूरेणाऽन्विते युक्ते ) भङ्गाय भवतः । अस्ते सप्तमे
सित-ज्ञौ भङ्गाय भवतः । विधुर्लग्ने, सोमसिताधिपाः ( सोमश्चन्द्रः, सितः
शुक्रः, अधिपो लग्नद्रेष्काणांशस्वामिनस्ते ) द्विषि षष्ठभावे भङ्गाय ,तथा
सेन्दुश्चन्द्रसहितोऽशपो लग्नांशपतिर्नष्टोऽस्तङ्गतो भङ्गाय लग्नभङ्गकारको
भवतीत्यर्थः ॥ १ ॥
भा०- ६, ३, ११ स्थानों में पापग्रह ( शनि, मंगल, सूर्य, राहु ) शुभ-
प्रद होते हैं । अर्थात् अन्य स्थानों में अशुभ होते हैं । तथा शुभग्रह ( चन्द्र,
बुध, गुरु, शुक्र ) ८, ७, १२ इन स्थानों को छोड़कर शेष स्थानों में शुभ होते
हैं । अर्थात् ८, ७, १२ में अशुभप्रद होते हैं । ३, ११, २ में चन्द्रमा शुभ होता
है । ८ में शनि और रवि शुभप्रद होते हैं । तथा इस ( अष्टम ) में शेषग्रह
( चन्द्र, कुज, बुध, गुरु, शुक्र ) भङ्गकारक होते हैं । चन्द्र और लग्न से सप्तम में
तथा चन्द्र लग्न के साथ में पापग्रह हो तो भङ्गकारक होता है । सप्तम में शुक्र,
बुध भङ्गकारक होते हैं । लग्न में चन्द्रमा, षष्ठ में चन्द्रमा, शुक्र और लग्ननवांश-
द्रेष्काण के स्वामी भङ्गकारक होते हैं । तथा नवांशपति सहित चन्द्रमा अस्त हो
तो भङ्गकारक होता है ॥ १ ॥
अथ सप्तमदशमस्थानस्थचन्द्रस्य विशेषमाह-
ऋतूर्यकायकेन्द्रगः सुहृत्स्वसौम्यवर्गयुक् ।