सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

१७० श्रीतन्त्रालोकः ।
नान्यथानुपपत्त्या तदतिरिक्तस्य च अन्यस्य देवता-
त्वानुपपत्तेः, वस्तुतो विदन्तोऽपि न विदुः — वेद्यताया
एव प्राधान्येन दर्शनात् वेदित्रेकरूपतया न जानीयुः
इत्यर्थः । अतश्च नियततत्तद्देवतादिरूपग्रहणेन
च्यवन्ते इत्यर्थः । तदुक्तं तत्र
'न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते।'
इति ॥ १२८-१२६ ॥
तदेव व्याचष्टे
चलनं तु व्यवच्छिन्न-
रूपतापत्तिरेव या ।
एतदपि तत्रत्येन ग्रन्थेनैव संवादयति
देवान्देवयजो यान्ती-
त्यादि तेन न्यरूप्यत ॥ १३० ॥
तेन इति व्यवच्छिन्नरूपतापत्तिलक्षणेन हेतुना
इत्यर्थः। यदुक्तं
'यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥'
इति ॥ १३० ॥
पं० २ क० पु० वदन्तोऽपीति पाठः ।

श्लोक १३२ ] प्रथमाह्निकम् । १७१
ननु यद्येवं कथमन्यदेवताभक्ता अपि यजन्ति
इत्युक्तम् ? इत्याशङ्क्याह
निमज्ज्य वेद्यतां ये तु
तत्र संविन्मयीं स्थितिम् ।
विदुस्ते ह्यनवच्छिन्नं
तद्भक्ता अपि यान्ति माम् ॥१३१॥
तत्र इति स्वात्मव्यतिरिक्तायां देवतायाम् ।
तद्भक्ताः स्वात्मव्यतिरिक्तदेवतायाजिन इत्यर्थः ।
माम् इति परबोधैकस्वभावम् आत्मानम् । अस्मिन्
परमाद्वयमये संविन्मयतयावस्थानमेव यागः, तत्स-
मापत्तिरेव च फलम् ॥१३१॥
ननु भगवद्वासुदेवेन उक्तस्य 'माम्' इति अस्म-
च्छब्दस्य तदेकवाचकत्वात् कथं बोधमात्राभिधाय-
कत्वमुच्यते ? इत्याशङ्क्याह
सर्वत्रात्र ह्यहंशब्दो
बोधमात्रैकवाचकः ।
पं० १६ क० पु० मात्रैकगोचर इति पाठः ।

प्रकाशादद्वितीयस्य अपोह्यस्य प्रतियोगिनः संभवोऽ-

१७२ श्रीतन्त्रालोकः ।
स भोक्तृप्रभुशब्दाभ्यां
याज्ययष्टृतयोदितः ॥१३२॥
अत्र इति गीताग्रन्थे अनवच्छिन्नस्यैव बोध-
मात्रस्य प्रतिपिपादयिषितत्वात्, अत एव केवल-
स्यैव बोधस्य वाचकः पराम्रष्टा इत्युक्तम् । नहि
प्रकाशादद्वितीयस्य अपोह्यस्य प्रतियोगिनः संभवोऽ-
प्यस्ति — तस्य प्रकाशमानत्वाप्रकाशमानत्वविकल्पो-
पहतत्वात् । यस्तु शरीरादौ ‘कृशोऽहम्’ इत्यादिः
अहंविमर्शः स विकल्प एव — शरीराद्यपेक्षया परस्य
अपोह्यस्य प्रतियोगिनः संभवात् । ननु यदि बोध
एव अप्रतिपक्ष एकोऽस्ति, तत्कथं ‘मां यजन्ति’
इत्यादौ याज्ययष्टृतया भेदः पारमार्थिकः स्यात् ?
इत्याशङ्क्याह — स भोक्तृ इत्यादि । बोध एव
उभयात्मना स्फुरितः इति भावः । तदुक्तं तत्र
‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।’
इति ॥१३१॥
ननु एकश्च उभयात्मा च इति कथं संगच्छताम् ?
इत्याशङ्क्याह

प्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति

श्लोक १३३ ] प्रथमाह्निकम् । १७३
याजमानी संविदेव
याज्या नान्येति चोदितम् ।
न त्वाकृतिः कुतोऽप्यन्या
देवता न हि सोचिता ॥ १३३ ॥
संविदेव याज्या, इति उदितं - प्रतिज्ञातम् । न पुनः
कुतोऽपि हेतोः अन्याकृतिः इन्द्रादिरूपा, सा च
संवित् याजमान्येव, न पुनः अन्या-भिन्ना, याजमानी
संविदद्वयमयी इत्यर्थः । सा हि एवंविधाकृतिः, आकृ-
तिमती वा संविद्देवता नोचिता - संविदि भेदानुप-
पत्तेः, संविदतिरिक्तस्य च जाड्यात् । न च जडस्य
द्योतमानत्वाद्येकस्वभावं देवतात्वं युज्यते इति स्व-
प्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति
युक्तमुक्तं ‘स एव याज्ययष्टृतयोदितः’ इति ॥१३३॥
अत एव च आदिसिद्धत्वात् संविदि न किंचि-
द्विध्यादि सिद्धिनिमित्तमुक्तम् इत्याह
पं० ८ क० पु० सा त्वेवं भिन्नाकृतिमती वा संविदिति पाठः ।
पं० ११ क० पु० द्योतमानत्वैकस्वभावमिति पाठः ।

१७४ श्रीतन्त्रालोकः ।
विधिश्च नोक्तः कोऽप्यत्र
मन्त्रादि वृत्तिधाम वा ।
इह खलु वेदवाक्यानि मन्त्रब्राह्मणरूपत्वेन द्विधा ।
ब्राह्मणवाक्यान्यपि विध्यर्थवादनामधेयात्मकत्वेन
त्रिधा । तत्र विधिवाक्यानां तावत् संविदि व्यापारो
नास्ति इत्युक्तप्रायम् । एवं मन्त्रादेरपि तत्र नास्ति
व्यापारः । यतो मन्त्रादिः वृत्तेः विधिव्यापारात्मनः
क्रियाया धाम आश्रयः – तेन विना क्रियाया
असंपत्तेः । न च संविदि वाच्यवाचकयाज्ययाजक-
भावाद्यात्मकः कश्चिद्भेदः संभवति, एक एव आदि-
सिद्धो बोधः इति सिद्धम् ॥
ननु यद्येवं तत्कथमयं जडाजडात्मा विश्वप्रसरः ?
इत्याशङ्क्याह
सोऽयमात्मानमावृत्य
स्थितो जडपदं गतः ॥ १३४ ॥
आवृतानावृतात्मा तु
देवादिस्थावरान्तगः ।
पं० २ क० पु० धाम या इति, ख० पु० मन्त्रादिवृत्तिर्धाम वा इति पाठः ।
पं० ३ क० पु० ब्राह्मणत्वेनेति पाठः ।

प्रकाशयेत्, अयमेव च आदिसर्गः तत्र तत्रागमेषु

श्लोक १३५ ] प्रथमाह्निकम् । १७५
जडाजडस्याप्येतस्य
द्वैरूप्यस्यास्ति चित्रता ॥ १३५ ॥
आवृत्य इति स्वस्वरूपगोपनात्मिकया मायाशक्त्या
संकोचवत्तामाभास्य इत्यर्थः । जडपदम् इति
परप्रकाश्यभावराशिस্বরূপताम् इत्यर्थः । विश्वनि-
र्माणेच्छुर्हि परमेश्वरः प्रथमं स्वाव्यतिरिक्तमेव विश्वं
प्रकाशयेत्, अयमेव च आदिसर्गः तत्र तत्रागमेषु
उच्यते, अनन्तरं च यदास्य मायया सर्गचिकीर्षा
भवति तदा स्वस्वातान्त्र्यात् स्वात्मदर्पणे अनन्त-
ग्राह्यग्राहकद्वयाभाससन्ततीराभासयति, स्वाङ्गरूप-
भावराशिमध्यादेव हि देहप्राणबुद्धिशून्यानि स्वग-
ताहन्तात्मककर्तृतार्पणेन ग्राहकीभावयति, तदपरं
शब्दादि च इदन्ताविषयतया चिद्रूपतातिक्रमेण
ग्राह्यतामापादयति, अत एव च देहादिः कर्तृतां
ज्ञातृतां च स्वात्मनि धत्ते, तदितरच्च कार्यतां ज्ञेयतां
च । अत एव चैषां जडाजडव्यपदेशः, तदाह
'आवृतानावृतात्मा' इति । एवमपि चास्य प्रकारवैचि-
पं० १० क० ख० पु० संततीरुल्लासयतीति, ख० पु० स्वाङ्गभूतेति पाठः ।
पं० १६ ख० पु० जडाजडशब्दव्यपदेश इति पाठः ।

१७६ श्रीतन्त्रालोकः ।
ऽयेण आनन्त्यम् इत्याह 'जड' इत्यादि, चित्रता इति
तत्र जडस्य तावच्छब्दादिभेदेन, तस्यापि तारम-
न्द्यादिभेदेन बहुप्रकारत्वम्, अजडस्यापि सन्तान-
भेदेन आनन्त्येऽपि बन्धत्रयस्य तारतम्यादिभेदेन
नानात्वम् । संकुचिता प्रमातारो हि तत्तत्कर्माशाया-
नुसारेण परिभ्राम्यन्तः तत्तदवस्थासु एकमपि
स्वात्मानं धर्माधर्मादिबुद्धिभावरहितत्वेन तत्तदि-
च्छापरिष्कृतत्वेन च नानाकारतया वैचित्र्येण
जानते, जडं च विषयं सुखदुःखादिकारितया
नानात्वेन परिविन्दन्ति इति ॥ १३४-१३५ ॥
एवं वैचित्र्यस्य किं निमित्तम् इत्याशङ्क्याह
तस्य स्वतन्त्रभावो हि
किं किं यन्न विचिन्तयेत् ।
तदुक्तं त्रिशिरःशास्त्रे
संबुद्ध इति वेत्ति यः ॥ १३६ ॥
एतदेवार्थद्वारकं संवादयति-तदुक्तम् इत्यादिना ।
पं० ७ ख० पु० बुद्धिभावरससहितत्वेन तत्तदिच्छाबहिष्कृतत्वेनेति पाठः ।
पं० १५ ख० पु० स बुद्ध इति पाठः ।

श्लोक १३६ ] प्रथमाह्निकम् । १७७
इति वैचित्र्यं यो वेत्ति स संबुद्धः-सम्यग्बुद्ध इत्य-
र्थः । त्रिशिरःशास्त्रे इति श्रीत्रिशिरोभैरवे । तत्र हि
'अन्यथा स्वल्पबोधस्तु तन्तुभिः कीटवद्यथा ।
मलतन्तुसमारूढः क्रीडते देहपञ्जरे ॥'
इत्युपक्रम्य
'सम्यग्बुद्धस्तु विज्ञेयः·············।'
इत्यादिना च
'नानाकारैर्विभावैश्च भ्राम्यते नटवद्यथा ।
स्वबुद्धिभावरहितमिच्छाज्ञेमबहिष्कृतम् ॥'
इत्यन्तं बहूक्तम् ॥१३५॥
ननु देहादिर्ग्राहकतया अभिमतोऽपि जाड्याज्ज्ञेय
एव इति तस्य कथमेवंविधं ज्ञानम् ? इत्याशङ्क्याह
ज्ञेयभावो हि चिद्धर्म-
स्तच्छायाच्छादयेन्न ताम् ॥१३६॥
ज्ञेयत्वं हि ज्ञानधर्मः, नहि अर्थं जानामि इत्य-
र्थस्य कश्चिदतिशयः, अपि तु ज्ञानस्यैव तज्ज्ञान-
रूपता । तदुक्तमत्रापि च
पं० १ ख० पु० स बुद्ध इति पाठः ।
पं० ६ ख० पु० बुद्धः स विज्ञेय इति पाठः ।
पं० ६ क० ख० पु० इच्छाज्ञेयबहिष्कृतमिति, ग० पु० परिष्कृतमित्यपि पाठः ।
२३

१७८ श्रीतन्त्रालोकः ।
‘..................ज्ञेयस्य ज्ञेयता ज्ञानमेव’ ।
इति । अत एव च तेषां ज्ञेयानां सतां देहादीनां
छाया स्वेनैव स्वस्य आवरकत्वायोगात् न चितमा-
च्छादयेत् - आवृणुयात्, येनैवं-विधं ज्ञानं न स्यात्,
तेन देहादावात्मग्रहेऽपि आत्मनो न काचिच्चिद्रूपता-
हानिः । तदुक्तं तत्रैव
‘ज्ञेयस्वभावश्चिद्रूपस्तच्छाया नैव च्छादयेत् ।’
इति ॥१३६॥
अत एवाह
तेनाजडस्य भागस्य
पुद्गलाणवादिसंज्ञिनः ।
अनावरणभागांशे
वैचित्र्यं बहुधा स्थितम् ॥१३७॥
तेन इति चिदनाच्छादनेन हेतुना । अनावरण
इति शुद्धसंविद्रूपे आत्मनि इत्यर्थः । देहादीनां हि
संविद्रूपत्वेऽप्यामुखे ज्ञेयत्वेन अवभासादशुद्धत्वमपि
संभवेत् ॥१३७॥
पं० १ क० ख० पु० संज्ञित इति पाठः ।

श्लोक १३६] प्रथमाह्निकम् । १७६
ननु संविदि भेदानुपपत्तेः कथं वैचित्र्यं संगच्छ-
ताम् ? इत्याशङ्क्याह
संविद्रूपे न भेदोऽस्ति
वास्तवो यद्यपि ध्रुवे ।
तथाप्यावृतिनिर्ह्रास-
तारतम्यात्स लक्ष्यते ॥१३८॥
आवृतेः — आणवस्य मलस्य, निर्ह्रासः परिक्षय-
स्तस्य तारतम्यं मृदुमध्याधिमात्रात्मा अतिशयः ततो
लक्ष्यते, इति—न तु साक्षात् संभवति इत्यर्थः, अत
एव पूर्वं 'वास्तवः' इति विशेषणमुपात्तम् ॥१३८॥
किं च तत्ततारतम्यम् ? इत्याशङ्क्याह
तद्विस्तरेण वक्ष्यामः
शक्तिपातविनिर्णये ।
समाप्य परतां स्थौल्य-
प्रसंगे चर्चयिष्यते ॥१३६॥
वक्ष्यामः इति । यद्वक्ष्यति
पं० १४ क० पु० स चाप्यपरतामिति, ग० पु० समाप्य स्थिरतामिति पाठः ।
पं० १६ वक्ष्याम इति आरभ्य बहुप्रकारम् इत्यन्तः पाठो ग० पुस्तकात्
पूरितोऽस्ति ।

१८० श्रीतन्त्रालोकः ।
'तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः ।
ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः ॥'
इत्यादि बहुप्रकारम्, चर्चयिष्यते इति - लक्ष्यते
परीक्ष्यते च इत्यर्थः । इह हि सर्वस्यैव वक्ष्यमा-
णस्य प्रमेयजातस्य उद्देश एव भवेत् इति भावः ।
यद्वक्ष्यति
'विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात्।'
इति । तच्च अस्माभिर्ग्रन्थविस्तरभयात् प्रातिपद्येन
न दर्शितम् इति स्वयमेव अवधार्यम् ॥ १३६ ॥
एवं मलनिर्ह्रासतारतम्यानुसारमेव आत्मनां
भगवत्स्वरूपमपि प्रथते इत्याह
अतः कंचित्प्रमातारं
प्रति प्रथयते विभुः ।
पूर्णामेव निजं रूपं
कंचिदंशांशिकाक्रमात् ॥१४०॥
कंचित् इति - तीव्रनिर्ह्रासितावृत्तितारतम्यम्, अंशां-
पं० १४ क० पु० नित्यरूपमिति पाठः ।
पं० १६ क० क० पु० निर्ह्रासिनेति पाठः ।

प्रकाशमानत्वान्यथानुपपत्त्या परप्रकाशलक्षणा प्र-

श्लोक १४१] प्रथमाह्निकम् । १८१
शिकाक्रमात् इति - आवृत्तिनिर्ह्रासितारतम्यमन्दादि-
प्रायत्वात् ॥१४०॥
ननु किं नाम पारमेश्वरस्य रूपस्य पूर्णत्वमपूर्ण-
त्वं च ? इत्याशङ्क्याह
विश्वभावैकभावात्म-
स्वरूपप्रथनं हि यत् ।
अणूनां तत्परं ज्ञानं
तदन्यदपरं बहु ॥१४१॥
विश्वेषां नीलसुखादीनां भावानां य एको भावः-
प्रकाशमानत्वान्यथानुपपत्त्या परप्रकाशलक्षणा प्र-
धाना सत्ता, तदात्म यत् स्वस्य आत्मनो रूपं तस्य
यत्प्रथनम् - अविकल्पवृत्त्या साक्षात्करणं, तत् एव
अणूनां परं पूर्णं पारमेश्वरं ज्ञानं, तत एवं-विधात्
पूर्णात् ज्ञानात् अन्यत् विकल्पात्मकं शाक्तादि ज्ञानम्,
अपरं - चित्स्वरूपप्रथाविरहादपूर्णं, बहु - वक्ष्यमाण-
प्रकारेण अनेकप्रकारम् इत्यर्थः ॥१४१॥
तदेव बहुप्रकारत्वं दर्शयति
तच्च साक्षादुपायेन
तदुपायोदिनापि च ।

१८४ श्रीतन्त्रालोकः ।
प्रथमानं विचित्राभि-
र्भङ्गीभिरिह भिद्यते ॥१४२॥
तत् इति परमपरं वा ज्ञानं । साक्षादुपायेन
इति शाम्भवेन । तदेव हि अव्यवहितं परज्ञानावाप्तौ
निमित्तं, स एव परां काष्ठां प्राप्तश्चानुपाय इत्यु-
च्यते । अत एव अनुपायः इति नोपायनिषेधमात्रम्
इति वक्ष्यते । तस्य शाम्भवस्य उपायः शाक्तः,
आदिशब्दात् तस्यापि उपाय आणवः । भिद्यते
इति औपचारिकं भेद्मेति इत्यर्थः ॥ १४२ ॥
न केवलमेवं, यावदन्यदपि एतद्वैचित्र्ये निमित्त-
मस्ति इत्याह
तत्रापि स्वपरद्वार-
द्वारित्वात्सर्वशोंशशः ।
व्यवधानाव्यवधिना
भूयान्भेदः प्रवर्तते ॥१४३॥
स्वेन, यथा-शाम्भवेन शाम्भवम्, अत एव
स्वपरलक्षणेन द्वारेण, द्वारि सोपायम् । सर्वशः इति-
पं० ६ क० पु० उपायविधिनिषेधमात्रेति पाठः ।
पं० ६ ख० पु० औपाधिकं भेदमिति पाठः ।

श्लोक १४४] प्रथमाह्निकम्। १८३
पूर्णात्मना। अंशश इति - अपूर्णेन। व्यवधान इति -
साक्षादुपायत्वाभावात्। एवं प्रथमं तावदुपायस्त्रेधा-
शाम्भवादिभेदात्, तेषां च द्वारद्वारिभावेन प्रत्येकं
द्वैधे षट्, तत्रापि प्रत्येकं पूर्णत्वापूर्णत्वेन द्वैधे द्वादश,
तेषां च प्रत्येकं व्यवहिताव्यवहितत्वेन द्वैधे चतुर्विं-
शतिः। व्यवधानं च बहुभिर्विजातीयैः, इति भेदानां
भूयस्त्वम् ॥१४३॥
ननु ज्ञानं तावदुपैयतया प्रतिज्ञातम् इति, तत्र
उपायेन केनचिद्भाव्यं, स च न ज्ञानमेव - उपेयत्वात्,
नापि अज्ञानं - तदनौपयिकत्वात् तस्य, इति किं नाम
उपायस्वरूपम् ? इत्याशङ्क्याह
ज्ञानस्य चाभ्युपायो यो
न तदज्ञानमुच्यते ।
ज्ञानमेव तु तत्सूक्ष्मं
परं त्विच्छात्मकं मतम् ॥१४४॥
किं तु तत्सूक्ष्मं वैकल्पिकस्थूलशाक्तादिज्ञानवि-
लक्षणं मतम् इति संबन्धः। अत एव परं - शाम्भ-
पं० १० क० पु० तावदनौपाधिकत्वादिति पाठः।
पं० १२ क० पु० चाप्युपायो य इति, ख० पु० चाभ्युपेय इति पाठः।

१८४ श्रीतन्त्रालोकः ।
वम् इत्यर्थः । अत एव 'इच्छात्मकम्' इत्युक्तम् ।
शाक्ताण्वयोर्हि ज्ञानक्रियात्मकत्वं भवेत् इति
भावः ॥ १४४ ॥
ननु एवमपि कथमेकस्यैव उपायोपेयभावः
संगच्छते ? इत्याशङ्क्याह
उपायोपेयभावस्तु
ज्ञानस्य स्थौल्यविभ्रमः ।
एषैव च क्रियाशक्ति-
र्बन्धमोक्षैककारणम् ॥ १४५ ॥
स्थौल्यं — चिदानन्दैकघनपरसूक्ष्मस्वरूपनिमज्जना-
दनन्तग्राह्यग्राहकात्मना भेदेन उल्लसनं, तत्कृतोऽयं
भ्रमः — यत् 'इदमुपेयम्' अयमुपाय' इति । वस्तुतो हि
परप्रकाशात्मा शिव एव उपेयः, स च सर्वत एवा-
वभासते — तस्य क्वचिदपि अनपायात् । अत एव
नात्र उपायानां किंचित्प्रयोजनम् — अज्ञातज्ञापकत्वात्
तेषाम् । तदुक्तम्
'अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते ।
यैरूपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥'
पं० १७ क० पु० प्रकटस्थिते इति पाठः ।

श्लोक १४६ ] प्रथमाह्निकम् । १८५
इति । अनेनैव आशयेन च अनुपायनिरूपणं करिष्यते ।
ननु यद्येवं तत्कथमयं व्यवहारः प्ररोहमुपारोहते ?
इत्याशङ्क्याह एषैव इत्यादि । क्रियाशक्तिः इति -
तत्तद्भेदवैचित्र्यावस्थितिकारित्वात् । तेन परमेश्वर-
स्फार एवायम् इत्याशयः । अत एवायं तथात्वेन
अज्ञातो बन्धकः, ज्ञातस्तु मोचकः, तदाह 'बन्धमोक्षै-
ककारणम्' इति । यदुक्तं
'सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्धयुपपादिका ॥'
इति ॥ १४५ ॥
ननु एवमपि अत्र किं नाम उपायतया संमतम् ?
इत्याशङ्क्याह
तत्राद्ये स्वपरामर्शे
निर्विकल्पैकधामनि ।
यत्स्फुरेत्प्रकटं साक्षा-
त्तदिच्छाख्यं प्रकीर्त्तितम् ॥ १४६ ॥
तत्र - एवं सति, आद्ये - प्राथमिकालोचनज्ञानात्मनि,
पं० १७ क० पु० प्राथमिककाले च ज्ञानात्मनीति पाठः ।
२४

१८६ श्रीतन्त्रालोकः ।
अत एव निर्विकल्पोत्थे, अत एव भिन्नस्य परामृश्यस्य
अनुल्लासात् स्वपरामर्शे - स्फुरत्तामात्ररूपे यत् प्रकटं
स्फुरेत्, साक्षात्कारात्मतया यत् स्फुरणं तत् साक्षात्
इच्छाख्यं प्रकीर्तितम् - उपायान्तरनिरपेक्षत्वात्,
अव्यवधानेच्छाशक्तिस्फाररूपः शाम्भवाख्य उपाय
उक्तः इत्यर्थः ॥ १४६ ॥
एतदेव दृष्टान्तोपदेशेन स्फुटीकर्तुमाह
यथा विस्फुरितदृशा-
मनुसंधि विनाप्यलम् ।
भाति भावः स्फुटस्तद्व-
त्केषामपि शिवात्मता ॥ १४७ ॥
भूयो भूयो विकल्पांश-
निश्चयक्रमचर्चनात् ।
यत्परामर्शमभ्येति
ज्ञानोपायं तु तद्विदुः ॥ १४८ ॥
तथैव 'आत्मैवेदं सर्वम्' इत्येवमात्मनो विक-
पं० १ क० पु० निर्विकल्पोत्थे इति, ग० पु० निर्विकल्पैकनामनि इति प्रथमः
पाठः ।
पं० ३ क० पु० साक्षात्कारतयेति पाठः ।

श्लोक १४६ ] प्रथमाह्निकम् । १८७
ल्पस्य आत्मानात्माख्यांशद्वयाक्षेपित्वेऽपि प्रतियोगि-
निषेधपूर्वको योऽयं पौनःपुन्येन अंशरूपो निश्चयः तस्य
यत् क्रमेण चर्चनं - यथायथं स्फुटताभावित्वादिना
संस्करणं, ततो यत् विकल्प्यमानमात्मस्वरूपपरा-
मर्शम् ‘इत्थमेव इदम्’ इत्येवं प्रतीतिमभिन्नां -
साक्षात्कारात्मतामभ्येति, तज्ज्ञानोपायं विदुः-
ज्ञानशक्तिस्फारात्मकं शाक्तमुपायं जानीयुः इत्यर्थः ।
तु-शब्दः पूर्वस्माद्व्यतिरेचकः । इह हि विकल्प
एव क्रमेण निर्विकल्पतामेति इत्युक्तम् । तत्र
पुनर्निर्विकल्पतयैव साक्षात्करणं रूपम् , अत एव च
अनयोर्द्वारिद्वारभावः ॥१४७॥१४८॥
यत्तु तत्कल्पनाक्लृप्त-
बहिर्भूतार्थसाधनम् ।
क्रियोपायं तदाम्नातं
भेदो नात्रापवर्गगः ॥१४६॥
तथा तत् आत्मस्वरूपं क्रियोपायमाम्नातं - क्रिया-
शक्तिस्फारात्मकाणवोपायसमधिगम्यं सर्वागमेषु
पं० १ क० ग० पु० द्वयापेक्षितत्त्वेऽपीति पाठः ।
पं० ३ क० पु० संस्फुरणमिति पाठः ।
पं० १७ ख० पु० समाधिगम्यमिति पाठः ।

१८८ श्रीतन्त्रालोकः ।
उक्तम्। यतस्ताभिः-भेदप्रथामयीभिः कल्पनाभिः,
कृतः-स्वशिल्पेन कल्पितः, बहिर्भूतोऽवच्छिन्नो
योऽसौ उच्चारादिः अर्थः तत्साधनम्, तुशब्दो व्यति-
रेके। शाक्ते हि विकल्प एव अर्थः, इह तु बाह्योऽपि
इति, अत एव न तत्र उच्चारादिः। ननु उपाय-
भेदादुपेयभेदोऽपि स्याद् ? इत्याशङ्क्योक्तं 'भेदो
नात्रापवर्गः' इति। स्वरूपप्रथनं हि अपवर्गः, तच्च
सर्वैरेव हि द्वारद्वारिभावेन भवति, इति भावः॥१४६॥
ननु ज्ञानमेव उपायः इति सामान्येन प्रतिज्ञातं,
तत्कथमाणवे क्रियोपायत्वमुक्तम् ? इत्याशङ्क्याह
यतो नान्या क्रिया नाम
ज्ञानमेव हि तत्तथा ।
रूढेर्योगान्ततां प्राप्त-
मिति श्रीगमशासने ॥१५०॥
अन्या इति अर्थाज्ज्ञानात्, यतः तज्ज्ञानमेव
रूढेः प्ररोहात् योगस्यान्तः पराकाष्ठा, तत्त्वं प्राप्तं
सत् तथा 'क्रिया' इति सर्वत्र अभिधीयते इत्यर्थः ।
पं० ४ क० पु० विकल्प्य एवार्थ इति पाठः ।

श्लोक १५३ ] प्रथमाह्निकम् । १८६
ननु अत्र किं प्रमाणम् ? इत्याशङ्क्योक्तम् 'इति
श्रीगमशासने' इति, अर्थादुक्तम् इति शेषः ॥१५०॥
तत्रत्यमेव ग्रन्थं पठति
योगो नान्यः क्रिया नान्या
तत्त्वारूढा हि या मतिः ।
स्वचित्तवासनाशान्तौ
सा क्रियेत्यभिधीयते ॥१५१॥
इति ॥ १५१ ॥
एतच्च स्वयमेव व्याचष्टे
स्वचित्ते वासनाः कर्म-
मलमायाप्रसूतयः ।
तासां शान्तिनिमित्तं या
मतिः संवित्स्वभाविका ॥१५२॥
सा देहारम्भिबाह्यस्थ-
तत्त्वव्राताधिशायिनी ।
पं० ६ क० ग० पु० वासनाशान्त्यै इति पाठः ।
पं० १० ख० पु० स्वाचित्ते वासनेति पाठः ।