तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 193, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १४४] प्रथमाह्निकम्। १८३
पूर्णात्मना। अंशश इति - अपूर्णेन। व्यवधान इति -
साक्षादुपायत्वाभावात्। एवं प्रथमं तावदुपायस्त्रेधा-
शाम्भवादिभेदात्, तेषां च द्वारद्वारिभावेन प्रत्येकं
द्वैधे षट्, तत्रापि प्रत्येकं पूर्णत्वापूर्णत्वेन द्वैधे द्वादश,
तेषां च प्रत्येकं व्यवहिताव्यवहितत्वेन द्वैधे चतुर्विं-
शतिः। व्यवधानं च बहुभिर्विजातीयैः, इति भेदानां
भूयस्त्वम् ॥१४३॥
ननु ज्ञानं तावदुपैयतया प्रतिज्ञातम् इति, तत्र
उपायेन केनचिद्भाव्यं, स च न ज्ञानमेव - उपेयत्वात्,
नापि अज्ञानं - तदनौपयिकत्वात् तस्य, इति किं नाम
उपायस्वरूपम् ? इत्याशङ्क्याह
ज्ञानस्य चाभ्युपायो यो
न तदज्ञानमुच्यते ।
ज्ञानमेव तु तत्सूक्ष्मं
परं त्विच्छात्मकं मतम् ॥१४४॥
किं तु तत्सूक्ष्मं वैकल्पिकस्थूलशाक्तादिज्ञानवि-
लक्षणं मतम् इति संबन्धः। अत एव परं - शाम्भ-
पं० १० क० पु० तावदनौपाधिकत्वादिति पाठः।
पं० १२ क० पु० चाप्युपायो य इति, ख० पु० चाभ्युपेय इति पाठः।