सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 183, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 183

श्लोक १३३ ] प्रथमाह्निकम् । १७३
याजमानी संविदेव
याज्या नान्येति चोदितम् ।
न त्वाकृतिः कुतोऽप्यन्या
देवता न हि सोचिता ॥ १३३ ॥
संविदेव याज्या, इति उदितं - प्रतिज्ञातम् । न पुनः
कुतोऽपि हेतोः अन्याकृतिः इन्द्रादिरूपा, सा च
संवित् याजमान्येव, न पुनः अन्या-भिन्ना, याजमानी
संविदद्वयमयी इत्यर्थः । सा हि एवंविधाकृतिः, आकृ-
तिमती वा संविद्देवता नोचिता - संविदि भेदानुप-
पत्तेः, संविदतिरिक्तस्य च जाड्यात् । न च जडस्य
द्योतमानत्वाद्येकस्वभावं देवतात्वं युज्यते इति स्व-
प्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति
युक्तमुक्तं ‘स एव याज्ययष्टृतयोदितः’ इति ॥१३३॥
अत एव च आदिसिद्धत्वात् संविदि न किंचि-
द्विध्यादि सिद्धिनिमित्तमुक्तम् इत्याह
पं० ८ क० पु० सा त्वेवं भिन्नाकृतिमती वा संविदिति पाठः ।
पं० ११ क० पु० द्योतमानत्वैकस्वभावमिति पाठः ।