सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 188, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 188

१७८ श्रीतन्त्रालोकः ।
‘..................ज्ञेयस्य ज्ञेयता ज्ञानमेव’ ।
इति । अत एव च तेषां ज्ञेयानां सतां देहादीनां
छाया स्वेनैव स्वस्य आवरकत्वायोगात् न चितमा-
च्छादयेत् - आवृणुयात्, येनैवं-विधं ज्ञानं न स्यात्,
तेन देहादावात्मग्रहेऽपि आत्मनो न काचिच्चिद्रूपता-
हानिः । तदुक्तं तत्रैव
‘ज्ञेयस्वभावश्चिद्रूपस्तच्छाया नैव च्छादयेत् ।’
इति ॥१३६॥
अत एवाह
तेनाजडस्य भागस्य
पुद्गलाणवादिसंज्ञिनः ।
अनावरणभागांशे
वैचित्र्यं बहुधा स्थितम् ॥१३७॥
तेन इति चिदनाच्छादनेन हेतुना । अनावरण
इति शुद्धसंविद्रूपे आत्मनि इत्यर्थः । देहादीनां हि
संविद्रूपत्वेऽप्यामुखे ज्ञेयत्वेन अवभासादशुद्धत्वमपि
संभवेत् ॥१३७॥
पं० १ क० ख० पु० संज्ञित इति पाठः ।