सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 191, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 191

श्लोक १४१] प्रथमाह्निकम् । १८१
शिकाक्रमात् इति - आवृत्तिनिर्ह्रासितारतम्यमन्दादि-
प्रायत्वात् ॥१४०॥
ननु किं नाम पारमेश्वरस्य रूपस्य पूर्णत्वमपूर्ण-
त्वं च ? इत्याशङ्क्याह
विश्वभावैकभावात्म-
स्वरूपप्रथनं हि यत् ।
अणूनां तत्परं ज्ञानं
तदन्यदपरं बहु ॥१४१॥
विश्वेषां नीलसुखादीनां भावानां य एको भावः-
प्रकाशमानत्वान्यथानुपपत्त्या परप्रकाशलक्षणा प्र-
धाना सत्ता, तदात्म यत् स्वस्य आत्मनो रूपं तस्य
यत्प्रथनम् - अविकल्पवृत्त्या साक्षात्करणं, तत् एव
अणूनां परं पूर्णं पारमेश्वरं ज्ञानं, तत एवं-विधात्
पूर्णात् ज्ञानात् अन्यत् विकल्पात्मकं शाक्तादि ज्ञानम्,
अपरं - चित्स्वरूपप्रथाविरहादपूर्णं, बहु - वक्ष्यमाण-
प्रकारेण अनेकप्रकारम् इत्यर्थः ॥१४१॥
तदेव बहुप्रकारत्वं दर्शयति
तच्च साक्षादुपायेन
तदुपायोदिनापि च ।