तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 186, कुल 368 में से
संदर्भ में पढ़ें१७६ श्रीतन्त्रालोकः ।
ऽयेण आनन्त्यम् इत्याह 'जड' इत्यादि, चित्रता इति
तत्र जडस्य तावच्छब्दादिभेदेन, तस्यापि तारम-
न्द्यादिभेदेन बहुप्रकारत्वम्, अजडस्यापि सन्तान-
भेदेन आनन्त्येऽपि बन्धत्रयस्य तारतम्यादिभेदेन
नानात्वम् । संकुचिता प्रमातारो हि तत्तत्कर्माशाया-
नुसारेण परिभ्राम्यन्तः तत्तदवस्थासु एकमपि
स्वात्मानं धर्माधर्मादिबुद्धिभावरहितत्वेन तत्तदि-
च्छापरिष्कृतत्वेन च नानाकारतया वैचित्र्येण
जानते, जडं च विषयं सुखदुःखादिकारितया
नानात्वेन परिविन्दन्ति इति ॥ १३४-१३५ ॥
एवं वैचित्र्यस्य किं निमित्तम् इत्याशङ्क्याह
तस्य स्वतन्त्रभावो हि
किं किं यन्न विचिन्तयेत् ।
तदुक्तं त्रिशिरःशास्त्रे
संबुद्ध इति वेत्ति यः ॥ १३६ ॥
एतदेवार्थद्वारकं संवादयति-तदुक्तम् इत्यादिना ।
पं० ७ ख० पु० बुद्धिभावरससहितत्वेन तत्तदिच्छाबहिष्कृतत्वेनेति पाठः ।
पं० १५ ख० पु० स बुद्ध इति पाठः ।