तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 195, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १४६ ] प्रथमाह्निकम् । १८५
इति । अनेनैव आशयेन च अनुपायनिरूपणं करिष्यते ।
ननु यद्येवं तत्कथमयं व्यवहारः प्ररोहमुपारोहते ?
इत्याशङ्क्याह एषैव इत्यादि । क्रियाशक्तिः इति -
तत्तद्भेदवैचित्र्यावस्थितिकारित्वात् । तेन परमेश्वर-
स्फार एवायम् इत्याशयः । अत एवायं तथात्वेन
अज्ञातो बन्धकः, ज्ञातस्तु मोचकः, तदाह 'बन्धमोक्षै-
ककारणम्' इति । यदुक्तं
'सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्धयुपपादिका ॥'
इति ॥ १४५ ॥
ननु एवमपि अत्र किं नाम उपायतया संमतम् ?
इत्याशङ्क्याह
तत्राद्ये स्वपरामर्शे
निर्विकल्पैकधामनि ।
यत्स्फुरेत्प्रकटं साक्षा-
त्तदिच्छाख्यं प्रकीर्त्तितम् ॥ १४६ ॥
तत्र - एवं सति, आद्ये - प्राथमिकालोचनज्ञानात्मनि,
पं० १७ क० पु० प्राथमिककाले च ज्ञानात्मनीति पाठः ।
२४