सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

द्वादशाध्याये पञ्चमः खण्डः । ४४५
प्रागाम्नातम् । किमतो भवति ? तदाह—
अग्नि॒र्वा ए॒तस्य॑ प॒शूनप॑क्रमयति॒ यस्य॑ प॒शवोऽप॑-
क्रामन्त्य॒ग्निरे॒व तस्य॑ प॒शून॒भिक्र॑मयति॒ यस्य॑ प॒शवो॑-
ऽभिक्र॑ामन्ति ॥ २५ ॥
यस्मादुक्तप्रकारेण रुद्रात्मकोऽग्निरनेन साम्ना पशून्(१)प्रापत् त-
स्मादग्निरेव एतस्य पशूनपक्रमयत्यपगमयति यस्य यजमानस्य पशवो-
ऽपक्रामन्त्यपगच्छन्ति। यस्य च पशवोऽभिक्रामन्ति अभिमुखमाप्नुवन्ति
यस्य यजमानस्याऽग्निरेव तस्य पशूनभिक्रमयति प्रापयति अपक्रमणा-
भिक्रमणयोरुभयोरग्निरव कारयितेत्यर्थः॥ २५ ॥
इत्थमग्नेः पशुस्वामित्वं जानतो रौरवेण स्तुवतः फलमाह—
अ॒भ्य॑भ्येवाऽस्य॑ प॒शवः॑ क्रामन्ति॒ य ए॒वं वि॒द्वान्
रौर॑वेण स्तु॒वते॑ ॥ २६ ॥
एवमुक्तमर्थं विद्वान् जानन् यो रौरवेण स्तुवते स्तौति अस्य पशवो-
ऽभ्यभ्येव क्रामन्ति सर्वदाऽभिमुखा एव प्राप्नुवन्ति । न तु कदाचि-
त्पराङ्मुखा गच्छन्तीत्यर्थः ॥ २६ ॥
अस्मिन् साम्नि विद्यमानमिडाविशेषं प्रदर्श्य तृतीयेऽहनि(२) तस्या-
ऽऽनुरूप्यमाह—
प॒रि॒ष्टुब्धेडं॒ तथा॒ ह्येत॒स्याऽह्नो॑ रू॒पꣳ स्तोमः॑ ॥ २७ ॥
परिष्टुब्धा परितः स्तोभयुक्ता इडा औ २३ हो वा हो ५ इडा इत्येवं-
रूपा यस्य तत्परिष्टुब्धेडं इदं रौरवम्, तथा ह्येतस्य तृतीयस्याऽह्नो
रूपं प्रागुक्तं 'परिष्टुब्धेडं तृतीयस्ये'ति । एतेषु पृष्ठस्तोत्रेषु स्तोमः
पूर्वोक्त एव सप्तदशः कार्य्यः इत्यर्थः ॥ २७ ॥
इति ताण्ड्यमहाब्राह्मणे सायणीये वेदार्थप्रकाशे
द्वादशाध्यायस्य चतुर्थः खण्डः ॥
अथ पञ्चमः खण्डः ॥
अथाऽस्मिंस्तृतीयेऽहन्यार्भवपवमानस्याऽऽद्यं स्तोत्रीयं तृचं दर्श-
यित्वा तस्य(२) तत्राऽऽनुपूर्व्यमाह--
"तिस्रो वाच उदीरते" इति तृतीयस्याऽह्नो रूपं तेन
१. आप्नोदिति. क. पु. २. तत्राऽऽनुगुण्यमाहेति. क. पु.
३८ ता० ब्रा०

तृतीयमहरारभन्ते ॥ १ ॥
'तिस्रो वाच' इत्ययमाद्यस्तृच आर्भवपवमानस्य । एतच्च उच्छब्द-
त्रिशब्दयोगात् तृतीयस्याऽह्नो रूपम् । तेन तार्तीयरूपयुक्तेन तृचेन तृती-
यमहरारभन्ते गृह्णन्ति ॥ १ ॥
एतदेवोपपाद्यते--
उद्बद्धा एतत् त्रिवदहर्यत् तृतीयं तदेव
तदभिवदति ॥ २ ॥
एतदहरुद्बद्धै उच्छब्दयुक्तमेव, तथा त्रिवत् त्रिशब्दयुक्तं च । उद्ब-
त्रिवदित्यादिना तृतीयस्याऽह्नो रूपम्, तथा परिसङ्ख्यानात् । तद्दे-
वाह-तृतीयाहस्सम्बद्धं रूपं तन्मन्त्रवाक्यमभिवदति प्रकाशयति ॥२॥
अथाऽपरां स्तोत्रीयामृचं विदधाति--
"आ सोता परिषिञ्चते"ति परिवत्यो भवन्ति ॥ ३ ॥
आ सोतेत्याद्यास्तिस्र ऋचः परिवत्यः परिशब्दयुक्ता भवन्ति । स्तो-
मातिरेकपरिहाराय(१) तास्वेकस्यामेव यथाभ्यस्यमानं वाक्षसाम गा-
तव्यम्, अन्ये तु विकल्पिता इत्यर्थः ॥ ३ ॥
(२)तदेव प्रशंसति--
अन्तो वै तृतीयमहस्तस्यैताः पर्यांप्त्यै ॥ ४ ॥
इदं तृतीयमहरन्तो वै । अनेनैकस्य त्रिरात्रस्य परिसमापनात्तस्याऽह्न
एताः परिवत्य ऋचः परिसमाप्तिसूचकत्वात् पर्यांप्त्यै परिसमाप्त्यै
भवन्ति ॥ ४ ॥
अथाऽपरां स्तोत्रीयां विदधाति--
'सखाय आनिषीदते'त्युद्धृतमिव वै तृतीयमहर्यदाह
निषीदतेत्यहरेवैतेन प्रतिष्ठापयति ॥ ५ ॥
'सखाय आनिषीदते'त्येका स्तोत्रीया । सा चानिषीदतेति निषदन-
लिङ्गात् अह्नः प्रतिष्ठाहेतुरित्याहोद्धृतमित्यादिना । उद्धृतमिव वा उत्खा-
तमिव वै खल्वेतत् तृतीयमहर्निषीदत निषण्णा भवत यथास्थानमु-
पविशतेति तत्र वाक्यं यदाह, एतेन निषादनप्रतिपादकेनाऽहरेवेदं
प्रतिष्ठापयति यथास्थानं प्रतिष्ठितं करोति ॥ ५ ॥
१. तिसृष्वेकस्यामेवार्चि विधास्यमानमिति. क. ख. पु.
२. तदेतत्प्रशंसतीति. क. पु.

द्वादशाध्याये पञ्चमः खण्डः। ४४७
(१)अथाऽपरां स्तोत्रीयां विधत्ते—
'सुतासो मधुमत्तमा' इत्यनुष्टुभः सत्यो जगत्यो
रूपेण जागतꣳ ह्येतदहः ॥ ६ ॥
सुतासो मधुमत्तमा इति तिस्र ऋचः कार्याः। ताश्चाऽनुष्टुभः सत्यो
रूपेण जगत्यो भवन्ति। तथा हि मधुमत्तमा(२) इत्यनेन अतिशयेन मधु-
रत्वं प्रतिपाद्यते। तच्च तृतीयसवनस्य रूपं आशिरावनयनेन मधुरत्वं रसा-
तिशयस्य करणात् । तृतीयसवनञ्च जगत्याः स्थानम्। अतः परम्परया
अतिशयेन माधुर्य्यं जगत्या रूपमिति तद्वाचको मधुमत्तमशब्दोऽपि
जागतं रूपं भवति तद्युक्तत्वात् स्वभावतोऽनुष्टुभोऽपि जगत्यो भवन्ति।
एतत्तृतीयमहश्च जागतम्। अत आसामस्मिन्नहनि सङ्गतिः ॥ ६ ॥
अथ तृचान्तरं विधत्ते—
"पवित्रं ते विततं ब्रह्मणस्पत" इति ॥ ७ ॥
स्पष्टोऽर्थः ॥ ७ ॥
विततशब्दसूचितां तृचस्य तृतीयेऽहनि सङ्गतिमाह—
विततमिव वा इदमन्तरिक्षमन्तरेमे अन्तरिक्षदेवत्य-
मेतदहर्यत्तृतीयं तदेव तदभिवदति ॥ ८ ॥
इमे द्यावापृथिव्यावन्तरा द्यावापृथिव्योर्मध्ये इदं दृश्यमानमन्त-
रिक्षं विततं विस्तृतमिव वै । अतोऽनेन विततशब्देनाऽन्तरिक्षमेव
सूचितं भवति । शिष्टं स्पष्टम् ॥ ८ ॥
तिस्रो वाच इति प्रथमे तृचे गातव्यं साम विधाय प्राग्वदत्र ब्राह्म-
णञ्चाऽतिदिशति--
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् ॥ ९ ॥
सिद्धमेतत् ॥ ९ ॥
अथ तस्मिन्नेव तृचे पुनरावृत्ते सामन्तरं विधत्ते—
पाष्ठौहं भवति ॥ १० ॥
षष्ठौहा ऋषिणा दृष्टं पाष्ठौहम् । "(३)दृष्टं सामे"त्यण्प्रत्यये असंज्ञायां
"(४)वाह ऊट्" इत्यूड्भावे(५) "एत्येधत्यूठ्स्वि"ति वृद्धिः ॥ १० ॥
अथैतत्स्राम निधनद्वारेण चतुर्थस्याऽह्नः सम्बन्धहेतुरिति दर्शयं-
१. अथाऽपरं स्तोत्रीयं तृचमिति. क. ख. पु. । २. इत्यनेनेति. नास्ति ख. ख. पु. ।
३. पा. सू. ४.२.७. ४. पा. सू. ६. ४. १३२. ५. पा. सू. ६. १. ८९.

ष्टुभाह--
इन्द्रं वा अक्ष्यामयिणं भूतानि नाऽस्वापयंस्तमेतेन
त्वाष्ट्र्योऽस्वापयंस्तद्वाव तास्तर्ह्यकामयन्त ॥ १९ ॥
अक्ष्यामयिणं अक्ष्णोरामयो व्याधिरस्याऽस्तीत्यक्ष्यामयी, तथाविध-
मिन्द्रं खलु पुरा अन्यानि भूतजातानि नाऽस्वापयन् स्वापयितुं नाऽशक्नु-
वन् । एवं स्थिते त्वाष्ट्र्यः त्वष्टुर्दुहितर एतेन साम्ना अस्त्वापयन्। यथा
खलु लोके गानविशेषैः अक्षिरोगादिनिमित्ते स्वापरहितान्बालान् स्वा-
पयन्ति, एवमेव श्राव्येणैव सामगानेन (१) अक्ष्यामयं विस्मार्य्य स्वाप-
मकारयन्नित्यर्थः । तस्मिन् काले तद्भाव तदेव खलु स्वापनं तास्त्वा-
ष्ट्र्यः अकामयन्त । कामितञ्च तत् एतेन साम्ना निष्पन्नम् ॥ १९ ॥
किं तत इत्याह--
कामसनि साम त्वाष्ट्रीसाम काममेवैतेनाऽवरुन्धे ॥२०॥
यदिदं त्वाष्ट्रीसाम एतत्कामसनि यद्यत्कामयते तस्य सर्वस्य
सनि दातृ सकलकाम्यमानफलप्रदं साम । तस्मादेतेन साम्ना कामं
काम्यमानमभिलाषितं सर्व्वमेव फलजातं अवरुन्धे लभते ॥ २० ॥
तथेद्ं सामोत्कृष्टवस्तुजन्महेतुरिति विवक्षयाऽऽह--
इन्द्रो वृत्राद्बिभ्यद्गां प्राविशत्तं त्वाष्ट्र्योऽब्रुवञ्जनया-
मेति तमेतैः सामभिरजनयञ्जायमहा इति वै सत्रमा-
सते जायन्त एव ॥ २१ ॥
इन्द्रः खलु पुरावृत्रादसुराद्बिभ्यत् भीतः सन् गां प्रविष्टवान् । त-
स्मिन् समये त्वाष्ट्र्यः त्वष्टुर्दुहितरोऽब्रुवन् तमिन्द्रं जनयाम प्रादुर्भूतं
वृत्रस्य पुरस्तात् अवस्थाय योद्धुं शक्तं करवामेति । तमिन्द्रमेतैस्त्वा-
ष्ट्रीसामभिरजनयन् । इदमेकं त्वाष्ट्रीसाम । अन्यान्यपि विद्यन्त इत्याभि-
प्रायेण बहुवचनम् । जायामहे उत्कृष्टरूपेण जाताः प्रादुर्भूताः प्रशस्ता
भवाम इति खल्वभिप्रायेण सत्रमासते सत्रयागं कुर्व्वन्ति । अतोऽनेन
साम्ना प्रयुक्तेन जायन्त एव उक्तप्रकारविशिष्टरूपा भवन्त्येव ॥ २१ ॥
अथ पवित्रन्त इत्यन्त्ये तृचे गातव्यं साम विधत्ते--
अरिष्टं भवति ॥ २२ ॥
स्पष्टम् ॥ २२ ॥
एतस्य साम्नः करणमहिंसाहेतुरिति प्रतिपिपादयिषुस्तदर्थं ताव-
१. अक्ष्यामयाविनं स्वापयितुमकामयन्निति. क. ख. पु. ।

द्वादशाध्याये पञ्चमः खण्डः। ४५१
दरिष्टसंज्ञां (१)विवक्षुराह--
देवाश्च वा असुराश्चाऽस्पर्दन्त यं देवानामघ्नन् स
समभवद्यमसुराणांꣳ सꣳ सोऽभवत्ते देवास्तपोऽतप्यन्त
त एतदरिष्टमपश्यꣳस्ततोयं देवानामघ्नत् सꣳ सोऽभव-
द्यमसुराणां न स समभवदनेनाऽरिषामेति तदरिष्टस्या-
रिष्टत्वमरिष्ट्या एवाऽरिष्टमन्ततः क्रियते ॥ २३ ॥
देवाश्च वा असुराश्च पुरा अस्पर्धन्त स्पर्द्धमाना अयुध्यन्त । तत्र दे-
वानां मध्ये यमसुरा अघ्नन् आयुधैः प्राहरन् स हतः न समभवत् संभूतः
पुनरुत्थितो नाऽभूत् । तथा असुराणां मध्ये यं देवा अघ्नन् स पुनः
समभवत् प्रहारं तिरस्कृत्य पुनरुत्थितोऽभूत् । एवं स्थिते देवास्तपोऽ
तप्यन्त अहिंसासाधनं किमिति तत्पर्यालोचने तदत्र तपःशब्दवाच्यं
तदकुर्व्वन्नित्यर्थः । एवं तपस्तप्यमानास्ते देवा एतदरिष्टं साम अहिंसा-
साधनमपश्यन्त अपश्यन् । तत एतद्दर्शनानन्तरं देवानां मध्ये यमसुरा
अघ्नन् स पुनः समभवत्तथा असुराणां मध्ये यं अघ्नन् देवाः स पुनर्न सम-
भवत् पुनरुत्पन्नो नाऽभूत् । एतस्मिन्नन्तरे अनेन खलु दृष्टेन साम्नावयं
नारिषाम अरिष्टा असुरैर्हिंसिता नाऽभवामेत्यमन्यन्त । तत्तस्मात् अरेषण-
साधनत्वात् अरिष्टस्य साम्नो अरिष्टमिति नाम सम्पन्नम् । रिष हिंसा-
यामिति धातुः । एवञ्चारिष्ट्या एव अरिष्टिः अहिंसा । तदर्थमेवा-
रिष्टं साम अन्ततः पवमानस्याऽन्ते क्रियते ॥ २३ ॥
अपि चेदं साम निष्पद्यमानस्य प्रथमस्य त्रिरात्रस्य धृतिहेतुरित्याह--
त्रीडं भवति त्रिरात्रस्य धृत्यै ॥ २४ ॥
तिस्रः इडा यस्मिन् तत्रीडम्, तादृशमेतत्साम भवति । अस्य ह्यव-
साने हो इडा हो इडा हो २३४५ इडा इति इडाशब्दः त्रिरभ्यस्यते ।
तस्य त्रिरात्रस्य पूर्वे द्वे अहनी, इदमेकमिति त्रयाणामह्नां धृत्यै धार-
णाय भवति ॥ २४ ॥
तत्रोत्तमायामिडायां विद्यमानं किञ्चिद्धर्म्मविशेषमनूद्य तस्योत्तरे-
णाऽह्ना सन्तानहेतुतामाह--
द्रवन्तीमिडामुत्तमामुपयन्ति चतुर्थस्याऽह्नः
सन्तत्यै स्तोमः ॥ २५ ॥
१. निर्विवक्षुरिति. क. ख. पु. ।

स्तस्योक्तमेव निर्वचनमभिप्रेत्य पृष्ठवाहसम्बन्धमाह--
पृष्ठवाड्वा एतेनाऽङ्गिरसश्चतुर्थस्याऽह्नो वाचं वदन्ती-
मुपाशृणोत्स होवागिति निधनमुपैत्तदस्याऽभ्युदितं
तदहरवसत् ॥ ११ ॥
पृष्ठवाण्नामाऽङ्गिरसः पुरा एतेन (१) साम्नो निधनेन चतुर्थस्य वक्ष्या-
माणस्याऽह्नः सम्बन्धिनीं वाचं स्तुतशस्त्रात्मिकां वदन्तीं शब्दायमानां
तृतीयेऽहनि स्थित्वा उपाशृणोत् श्रुतवान् । तदनन्तरं स ऋषिः होवा-
गिति तां वाचं सम्बोध्य तदेव शब्दरूपमस्य साम्नो निधनमुपैत् उपा-
गच्छत् । अस्य च पाष्ठौहस्य ह्यवसाने पुरा पृष्ठवाक् होपेतन्निधनमेव
हाऊ वा औ वा २३४५ इति व्यासेन अन्त्यवर्णलोपेन चाऽधीयते, तन्नि-
धनं अस्य तृतीयस्याऽह्नस्सम्बन्धि अभ्युदितं चतुर्थस्याऽह्नो वाचमभि-
लक्ष्योदितं उच्चारितं तच्चतुर्थमहरवसत् अवासयत् ॥ ११ ॥
आ सोता परीत्यस्यां गातव्यं साम विधत्ते--
वाचः साम भवति ॥ १२ ॥
वाचो वाग्देवतायास्सम्बन्धितया दृष्टं साम वाचस्साम ।
तदस्यां गेयं भवति ॥ १२ ॥
यज्ञसमृद्धिहेतुतामाह--
वाग्वै द्वादशाहो वाग्येव तद्वाचा स्तुवते यज्ञस्य
प्रभूत्यै ॥ १३ ॥
द्वादशाहस्य वागात्मकत्वं प्रागुक्तम्। तत्तथा सति वाचि वागात्मक
एव द्वादशाहे वाचा दृष्टत्वात् सामाऽपि वाक् । वागात्मकेन साम्ना
स्तुवते स्तुवन्ति । किमर्थम् ? यज्ञस्याऽस्य प्रभूत्यै प्रभूतिः समृद्धिः
तदर्थाय ॥ १३ ॥
वाचस्साम्नश्चोक्तमेव सम्बन्धं प्रदर्शयन् आख्यायिकामुखेनाऽस्य
साम्नो दर्शनहेतुतामाह--

द्वादशाध्याये पञ्चमः खण्डः । ४४९
निष्किरीयाः निष्किरो नाम शाखाविशेषो गोत्रविशेषो वा। तत्स-
म्बन्धिनो यजमानाः पुरा सत्रं द्वादशाहाख्यं आसताऽन्वतिष्ठन् । ते तत्रत्यं
तृतीयमिदमहर्न प्राजानन्। तान् तथाविधान् यजमानानेतत्साम गाय-
मानान् गानं कुर्व्वतः वाक् उपाप्लवत् उपागच्छत् । प्लु गतौ भौवादिकः
तेन वाचा गीयमानेनानेन साम्ना तृतीयमिदमहस्ते प्राजानन् प्रकर्षेणा
ऽनुष्ठानक्रममबुध्यन्त। ज्ञात्वा च ते पुनरब्रुवन् इयं खलु वाक् नोऽस्मान्
तृतीयमहरदीदृशत् दर्शितवती। दृशेर्ण्यन्तात् लुङि चङिति ऋकारा-
देशस्य विकल्पे प्राप्ते "नित्यं छन्दसी" ति नित्यमृकारादेशे कृते च द्वि-
वचनादिके कार्य्ये रूपमेतददीदृशदिति। यस्मादेवमब्रुवन् तस्मात्तृती-
यस्याऽह एषा दृष्टिः दर्शनसाधनं चक्षुरिन्द्रियस्थानम् ॥ १४ ॥
अथ 'सखाय आनिषीदते' त्यस्यां गातव्यं साम विधत्ते-
शौक्तं भवति ॥ १५ ॥
शुक्तिना दृष्टं साम शौक्तम् ॥ १५ ॥
इममेव सम्बन्धं प्रदर्शयन् अस्य साम्न आर्ज्जवेन स्वर्गप्राप्तिहेतुत्वं
दर्शयति--
शुक्तिर्वा एतेनाऽऽङ्गिरसोऽञ्जसा स्वर्गं लोकमप-
श्यत् स्वर्गस्य लोकस्याऽनुख्यात्यै स्वर्गाल्लोकान्न च्यवते
तुष्टुवानः ॥ १६ ॥
शुक्तिर्नामाऽऽङ्गिरस ऋषिरतेन साम्ना अञ्जसा ऋजुगामिना मार्गेण
स्वर्गं लोकमपश्यत् अजानात्। दृष्ट्वा च तं लोकं प्राप्य चिरकालमतिष्ठ-
दित्यर्थः । शिष्टं स्पष्टम् ॥ १६ ॥
'सुतासो मधुमत्तमा' इति तृच एकं साम विधाय पूर्वमाम्नातं तत्
स्तावकं ब्राह्मणञ्चाऽतिदिशति--
गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम् ॥ १७ ॥
एतदपि सिद्धं प्राक् ॥ १७ ॥
अथाऽस्मिन्नेवाऽऽवृत्ते तृचे सामान्तरं (१) विदधाति-
त्वाष्ट्रीसाम भवति ॥ १८ ॥
त्वष्टुर्दुहितरस्त्वाष्ट्र्यः। ताभिर्दृष्टं साम त्वाष्ट्रीसाम । तत् 'सु-
तासो मधुमत्तमा' इति तृचे गातव्यम् ॥ १८ ॥
अस्य साम्नस्त्वाष्ट्रीसम्बन्धं प्रतिपादयन् कामप्राप्तिहेतुतां विव-
१. विधीयत इति ग. पु. ।

४६२ ताण्ड्यमहाब्राह्मणे
तासूत्तमामन्त्यामिडां द्रवन्तीं द्रुतमुच्चार्यमाणामुपयन्ति उपगच्छ-
न्त्युद्गातारः । किमर्थम् ? चतुर्थस्य वक्ष्यमाणस्याऽह्नस्सन्तत्यै सन्धा-
नायसम्बन्धार्थम् । स्तोमः पूर्वोक्तस्सप्तदश एव । एवं सामसु
क्रियमाणेषु निष्पद्यत इत्यर्थः ॥ २६ ॥
इति ताण्ड्यमहाब्राह्मणे सायणीये वेदार्थप्रकाशे
द्वादशाध्यायस्थ पञ्चमः खण्डः ॥
अथ षष्ठः खण्डः ॥
अथ प्राकृतमेवाऽग्निष्टोमसाम तत्र न किञ्चिद्वक्तव्यमस्तीत्यभिप्रा-
येण त्रयाणामुक्थ्यानां स्तोत्रीयास्तृचः प्रदर्श्यन्ते । तत्र प्रथमस्योक्-
थस्तोत्रस्य स्तोत्रीयं तृचमाह—
प्रमं॑हिष्ठाय गायतेति ॥ १ ॥
स्पष्टोऽर्थः ॥ १ ॥
तदेतद्रूपं प्रशंसति—
यद्गायतेति महस एव तद्रूपं क्रियते ॥ २ ॥
यद्गायतेति गातॄणां बहुत्वं तन्महसस्तेजस एव रूपं तेन क्रियते ।
लोके हि तेजस्विनामेव राज्ञां बहवो गायका भवन्तीति ॥ २ ॥
अथ द्वितीयस्योक्थ्यस्य स्तोत्रीयं तृचं प्रदर्श्य तृतीयसवनयोग्यतां
दर्शयति—
‘तं ते मदङ्गृणीमसी’ति मदवद्वै रसवत्तृतीयसवनं
मदमेव तद्रसं दधाति ॥ ३ ॥
व्याख्यातमेतत् ‘प्रसोमासो मदच्युत’ इत्यत्र ॥ ३ ॥
अथ तृतीयस्योक्थ्यस्य स्तोत्रीयं तृचं दर्शयति—
‘श्रुधीहवं तिरश्च्या’ इति श्रुत्या एव ॥ ४ ॥
श्रु श्रवण इत्यस्मान्निष्पन्नस्य श्रुधीशब्दस्य कीर्त्तनात् अयं तृचः
श्रुत्यै श्रवणायैव बाधिर्याभावाय सम्पद्यते ॥ ४ ॥
अथ प्रथमे उक्थ्ये यो विहितस्तृचस्तस्मिन् गेयं साम दर्शयति—
प्रमँहिष्ठीयं भवति ॥ ५ ॥
प्र मंहिष्ठाय गायतेति योनावुत्पन्नं साम प्रमंहिष्ठाशब्दयोगात् प्रमं-
हिष्ठीयम् । तदत्र प्रमंहिष्ठेति तृचे कर्त्तव्यम् ॥ ५ ॥

ेण नीरसेन वज्रादिनेति ।"
Commas: "न हन्तु,", "च न हन्तु,".

Line 26:
"एतत् उक्तं भवति-इन्द्रः सर्वानसुरान्जित्वा सर्व्वेभ्योऽसुरेभ्योऽधिकं"
Note: "सर्व्वेभ्योऽसुरेभ्योऽधिकं" has double 'व' in "सर्व्वेभ्यो"!
And earlier in L26: "सर्वानसुरान्जित्वा" has single 'व'.

Line 27:
"नमुच्याख्यमसुरं बलात् जग्राह । स चाऽसुरः इन्द्रादधिकबलः सन् त-"

Line 28:
"मेव जग्राह । गृहीत्वा च त्वां विसृजामि, यदि त्वं मां अहोरात्रयोः आ-"
Comma after विसृजामि: "विसृजामि,".

Line 29:
"र्द्वेण शुष्केण मा हन्या इति । एवमात्मकं सन्धायकं वाक्यमिन्द्रं प्रत्यु-"

Line 30:
"क्तवानिति ।"

Everything is verified and accurate to the printed page.तदेतत्स्तौति —
प्रमँ॒हिष्ठीयेन वा इन्द्रो वृत्राय वज्रं प्रावर्त्तयत्तम्-
स्तृणुत भ्रातृव्यवान् प्रमँहि

शिर अपां विका-"
Wait, line 9:
"रेण फेनेन वज्रीकृतेनाऽच्छिनत् द्वैधीकृतवान् अवधीदित्यर्थः । एवं कृते"

Check line 13:
"धेन नमुचौ हते एतमिन्द्रमनु पश्चात् तन्नमुचिहननं पापीयां निरूष्टां वाचं"
Wait, "निरूष्टां" or "निरुष्टां" or "निरुक्तां"?
Look at line 13:
"पापीयां निरूष्टां वाचं" -> 'नि', 'रू' (with long u), 'ष्टां' (ष + ट + anusvara).
Yes, "निरूष्टां"!

Check line 14:
"वदत् अकथयत् अवर्त्तयत् । काऽसौ पापी वाक् उच्यते? हे वीरहन्"
There is a question mark: "उच्यते?".

Check line 15:
"वीरस्य शत्रुभूतस्य नमुचेर्हन्तः, अद्रुहो द्रुह इति वीप्सायां द्विर्वचनम्,"
Commas are present: "नमुचेर्हन्तः,", "द्विर्वचनम्,".

Check line 18:
"अपहन्तुं विनाशयितुं नाऽशक्नोत् ॥ ८ ॥"

Check line 19:
"तर्हि केनाऽपहतवानिति

अथ तृतीये तृचे गेयं साम दर्शयति—
तैरश्च्यं भवति ॥ ११ ॥
स्पष्टोऽर्थः ॥ ११ ॥
आख्यायिकया ऽस्य साम्नस्संज्ञां (१)निर्व्रुवन् पापापहतिहेतुतामाह-
आङ्गिरसः स्वर्गं लोकं यन्तो रक्षाꣳस्यन्वसचन्त
तान्येतेन तिरश्चाऽङ्गिरसस्तिर्यङ् पर्य्यवैद्यत्तिर्यङ्पर्य्यवै-
त्तस्मात्तैरश्च्यं पाप्मा वाव स तानसचत तं तैरश्च्येन-
ऽपाघ्नताऽपपाप्मानंꣳहते तैरश्च्येन तुष्टुवानः ॥ १२ ॥
पुरा कृतयागानुष्ठानात् स्वर्गं लोकं यन्तो गच्छन्तोऽङ्गिरसो रक्षांसि
राक्षसा अन्वसचन्त अन्वगच्छन् समवेताः संसृष्टा अभूवन् । षच सम-
वाय इति धातुः । तानि रक्षांसि अङ्गिरसस्तिर्यङ् तिरोऽञ्चन् एतत्संज्ञ
ऋषिः तिरसा तिरोऽञ्चता तिर्यक् वर्त्तमानेनैतेन साम्ना पर्य्यवैत्(२)
परितोऽगच्छत् । यत् यस्मादनेन साम्नाऽङ्गिरसस्तिर्यङ् पर्य्यवैत् परितोऽ
गच्छत् , तस्मात्तैरश्च्यं तिरश्चस्सम्बन्धादस्य साम्नः तैरश्च्यमिति नाम
सम्पन्नम् । अस्तु प्रकृते किमायातम् ? उच्यते-पाप्मा वाव सः पापमे-
व सः पूर्वोक्तरक्षोरूपेण वर्त्तमानः तानङ्गिरसोऽसचत समवेतस्सङ्ग-
तोऽभूत् । तं पाप्मानं तैरश्च्येन साम्ना अपाघ्नत अपहतवन्तः । तस्मा-
दद्यतनोऽपि तैरश्च्येन तुष्टुवानः पाप्मानमपहते ॥ १२ ॥
अथैतेषु त्रिषूक्थ्येषु स्तोमक्लृप्तिं प्रदर्श्य विशेषफलहेतुतामाह—
सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै ॥१३॥
गतार्थमेतत् ॥ १३ ॥
इति ताण्ड्यमहाब्राह्मणे सायणीये वेदार्थप्रकाशे
द्वादशाध्यायस्य षष्ठः खण्डः ॥
अथ सप्तमः खण्डः ॥
अथ दशरात्रस्य चतुर्थेऽहनि सर्व्वेष्वपि स्तोत्रेषु एकविंश एव
स्तोमः । तत्र बहिष्पवमानस्य एकविंशतिसंख्या स्तोत्रीया ऋचः ।
तस्याऽऽद्यं स्तोत्रीयं तृचं दर्शयति—
१. निर्वचन्निति. क. पु. । २. परितो वाऽगच्छत् अजानादिति क. पु. ।

४५६ ताण्ड्यमहाब्राह्मणे
‘प्र त आशिवनीः पवमानधेनव’ इति चतुर्थस्याऽह्नः
प्रतिपद्भवति ॥ १ ॥
प्र त आशिवनीरिति तृचः चतुर्थस्य दाशरात्रिकस्याऽह्नः प्रतिपद्भव-
ति प्रथमस्तृचो भवति । बहिष्पवमानस्याद्यस्तृचः इत्यर्थः ॥ १ ॥
अस्मिन् चतुर्थेऽहनि तस्य तृचस्य सङ्गतिमाह—
आप्ते त्रिरात्रे रूपेण गायत्र्यो द्वितीयं प्रयन्ति प्रेति
वै गायत्र्या रूपम् ॥ २ ॥
दशरात्रे दशममहर्विहाय त्रयस्त्रिरात्राः पूर्वं विभज्य स्तुताः । तत्र
प्रथमे त्रिरात्रे गायत्रमहः प्रथमम् , त्रैष्टुभं द्वितीयम् , जागतं तृती-
यम् । यस्मिन् त्रिरात्रे आप्ते समाप्ते सति गायत्रीत्रिष्टुब्ज-
गतीनां गतैस्तृभिरहोभिः समाप्तत्वात् पुनरपि द्वितीये त्रिरात्रे गायत्री-
त्रिष्टुब्जगतीभिरेव पूर्ववत् क्रमेणाऽह्वां कल्पयितव्यत्वात् विहितस्य
तृचस्य जागतत्वात् तत्र मुख्यगायत्र्यसम्भवात्तत्सद्भावो भाक्त इत्य-
भिप्रायेणाऽऽह गायत्र्या रूपेण गायत्रीछन्दसो रूपेण द्वितीयं त्रिरात्रं
प्रयन्ति प्रक्रमन्ते । किं तद्गायत्र्या रूपम् ; यत्सद्भावादस्य तृचस्य गाय-
त्रत्वं स्यादिति । तदुच्यते प्रेति प्र इत्ययमुपसर्गः खलु गायत्र्याऽनु-
रूपं एति प्रेत्याशुमदित्यादिना गायत्र्यादिस्तदूपस्याऽभिहितत्वात् ॥२॥
नन्वेवं मुख्यो गायत्र एव तृचः प्रथमं विधेयः। किमनया वक-
बन्धप्रयासकल्पनयेत्यत आह—
जगती प्रतिपद्भवति जागतमेतदहर्यत्तृतीयञ्जगत्या
एव तज्जगतीमभिसंक्रामन्ति ॥ ३ ॥
उक्ता जगतीछन्दस्कैव प्रतिपद्भवति । किमर्थं जागतं जगतीछन्द-
स्कमेतदहर्यत्तृतीयमनुष्ठितम् , तत्तथा सति जगत्या एव पूर्वास्मिन्नह-
नि प्रयुक्तात्वाज्जगत छन्दस एव जगतीं जागतमेव छन्दोभिः संक्रा-
मन्ति । यथा वृक्षमारूढः पुरुषः कस्याञ्चिच्छाखायामवस्थितः (१)उन्न-
तत्त्व

द्वादशाध्याये सप्तमः खण्डः । ४५७
अतोऽस्या जगत्या अन्या अन्यच्छन्दस्का गायत्र्यादिका यत् यदि प्रतिप-
त्स्यात् तर्हि प्रतिकूलं वाऽनुकूलं वा स्यात् । छन्दोन्तरसंक्रमणपक्षे प्राति-
कूल्यं भवेत्, आनुकूल्यमपि पाक्षिकम् । यथोन्नतायां वृक्षस्याऽग्रशाखाया-
मवस्थितः पुमान् अधस्ताद्दूरदेशे वर्त्तमानां शाखां पादेनावष्टभ्नुवन्
पादविश्लेषात्कदाचिदधः पतति कदाचित्तत्रैव तिष्ठति, तद्वत् । तस्मा-
ज्जगत्यैवाऽस्याऽह्नः प्रतिपदा भवितव्यमित्यर्थः ॥ ४ ॥
अथाऽनुरूपाख्यं बहिष्पवमानस्य द्वितीयं तृचं दर्शयति—
पवमानो अजीजनदित्यनुरूपो भवति ॥ ५ ॥
अयं तृचोऽनुरूपाख्यो द्वितीय इत्यर्थः । नन्वयं गायत्रस्तृचः स्तो-
त्रीयस्तु जागतः । कथं तेनाऽस्याऽऽनुरूप्यम् ? देवताद्वारेति ब्रूमः । अत
एवोत्तरत्राऽऽम्नास्यते-पूर्वमृचैव तद्रूपमिति । ननु पूर्वयोरह्नोः स्तो-
त्रीयानुरूपाणां छन्दसामपि सारूप्यं दृष्टम्, तद्वदत्राऽपि भवितव्यम् ।
सत्यं भवितव्यम्, यदि समूढद्वादशाहोऽभिहितः स्यात् । अस्मिंस्तु ब्रा-
ह्मणे व्यूढ एव द्वादशाहो विहितः । अतस्तदीयस्यैव दशरात्रस्य स्तो-
मक्लृप्तिरत्र विधीयते । तत्र च द्वितीये त्रिरात्रे जागतं प्रातःसवनम्, गा-
यत्रं माध्यन्दिनम्, त्रैष्टुभं तृतीयसवनं 'गायत्रमध्यो द्वितीय' इति हि प्रा-
गाम्नातम् । तस्मादवश्यं जगत्या भाव्यमित्यभिप्रायेण पूर्वं जागतस्तृचो
विहितः । एवं च द्वितीयस्य तृचस्य प्रथमेन छन्दसा सारूप्यासम्भवात्
देवताद्वारैवाऽऽनुरूप्यमित्यभिप्रायः ॥ ५ ॥
अजीजनदिति जनिधातुयोगादयं तृचश्चतुर्थेऽहनि सङ्गत इत्याह—
जनद्वद्वा एतदहर्यच्चतुर्थमन्नाद्यञ्जनयति विराजञ्ज-
नयत्येकविंशᳵ स्तोमञ्जनयति ॥ ६ ॥
यच्चतुर्थमहरेतत् जनद्वद्धै जनिधातुनिष्पन्नशब्दयुक्तमेव खलु, रा-
जन्वज्जनद्वत्सूर्य्यवद्विराज्नुतोद्वदित्यादिना चतुर्थस्याऽह्नो रूपत्वेन
तस्य परिगणितत्वात् । यद्यपि 'इक्श्तिपौ धातुनिर्देश' इति स्मरणात्
जनिमदित्येव वक्तव्यम्, तथाऽपि 'पवमानो अजीजन'दिति मन्त्रे
दर्शनात्तदनुकरणेन जनद्वदिति निर्देशः। तस्मादस्मिंश्चतुर्थेऽहनि तल्लिङ्ग
युक्तस्तृचस्सङ्गत इत्यर्थः । किञ्च जननेन जनिधातुयुक्तेन तृचेन अन्ना-
द्यमन्नयोग्यं चरुपुरोडाशादिकं यागपर्याप्तं जनयति, तथा विराजं
विराट्छन्दसं अस्मिन्नहनि पृष्ठस्तोत्रे चिकीर्षितं जनयति । तथा एक-
विंशं एकविंशातिस्तोत्रीयात्मकं स्तोमं जनयति । अयमर्थः-पवमानः पू-
यमानस्सोमो अजीजनत् अजनयदिति दृश्यते । तच्च जननमपेक्षित-

मन्नाद्यादीनामेवेति (१)अर्थादध्यवसीयत इति ॥ ६ ॥
यत्प्रागवादिष्म देवतासारूप्यादस्य तृचस्य स्तोत्रीयेणाऽनुरूप्य-
मिति तत्प्रदर्शयन् अस्याऽनुरूपसंज्ञां निर्वक्ति—
पूर्वमु चैव तद्रूपमपरेण रूपेणाऽनुवदति तदनुरूप-
स्याऽनुरूपत्वम् ॥ ७ ॥
व्याख्यातमेतत् ॥ ७ ॥
एतद्वेदनफलमाह—
अनुरूप एनं पुत्रो जायते य एवं वेद ॥ ८ ॥
एतदपि सिद्धम् ॥ ८ ॥
(२) अन्तिमौ तृचौ संयुज्य स्तौति—
स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानामवरुध्यै ॥९॥
गतमेतत् ॥ ६ ॥
अथ 'प्रयद्गाव आशुरषे'ति षडृचद्वयं विदधाति—
षडृचौ भवत ऋतूनां धृत्यै ॥ १० ॥
पूर्वोक्ततृचद्वयानन्तरमेतौ द्वौ षडृचौ भवतः । षडृचो यस्मिन् स
तथोक्तः (३)'ऋक्पूरब्धूंः पथामानक्षे' इत्यसमासान्तः । तत इतरेतर-
सम्बन्धयोगे द्वन्द्वः । एतच्च द्वितयं षट् संख्यायोगात् ऋतूनां वसन्ता-
दीनां षण्णां धृत्यै धारणाय कल्पते । एवं वहिष्पवमानस्याऽष्टादशस्तो-
त्रीया गताः ॥ १० ॥
अथाऽन्त्यं तृचं विधत्ते—
तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्यु-
द्यन्ति ॥ ११ ॥
'हिन्वन्ति सूर'मिति तृचः तिस्र ऋचो यस्मिन् स तथोक्तः ऋचि
त्रेरुत्तरपदादिलोपश्छन्दसीति त्रिशब्दस्य सम्प्रसारणम् । उत्तरपदे
ऋकारस्य लोपः । स उत्तमः बहिष्पवमानस्याऽन्तिमो भवति । शिष्टं
स्पष्टम् ॥ ११ ॥
एवं स्तोत्रीयासु कृतासु यस्स्तोमस्सम्पद्यते तं स्तोमं विदधानः
प्रतिष्ठाफलताञ्चाऽऽह--
एकविंश एष स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति ॥१२॥
१. अर्थादध्यवसाय इति. क. पु. २. अथेमौ तृचाविति. क. ख. पु.
३. पा. सू. ५. ४. ७४.

द्वादशाध्यायेऽष्टमः खण्डः । ४५९
एकविंशतिसंख्याक एव स्तोत्रीयाणां समूह एकविंशस्तोमो
विधिः । पञ्चदशाद्यर्द्धमिति एकविंशतिशब्दाद्धै प्रत्ययेति विशते-
र्द्धितीति त्रिशब्दलोपः । स एवाऽस्य बहिष्पवमानस्य स्तोमो भवति ।
किमर्थम् ? प्रतिष्ठायै प्रतिष्ठार्थम् । अतो यजमानः प्रतितिष्ठति । प्रतिष्ठा-
आरूपदं तद्वान् भवति ॥ १२ ॥
इति ताण्ड्यमहाब्राह्मणे माधवीये सायणीचार्यविरचिते वेदार्थ-
प्रकाशे द्वादशाध्यायस्य सप्तमः खण्डः ॥
अथाऽष्टमः खण्डः ॥
अथ तस्मिन्नेव चतुर्थेऽहनि चत्वार्याज्यस्तोत्राणि । तत्र प्रथम-
स्याऽऽज्यस्य स्तोत्रीयं तृचं विदधाति—
‘जनस्य गोपा अजनिष्ट जागृविर्’त्याग्नेयमाज्यं भ-
वति ॥ १ ॥
‘जनस्य गोपा’ इति तृचमाग्नेयमग्निदैवत्यं आज्यं प्रथमाज्यस्तोत्रं
भवति ॥ १ ॥
अजनिष्टेति जनिधातुयोगात्पूर्ववच्चतुर्थेऽहनि(१) जनद्वल्लिङ्गात् अयं
तृचस्सङ्गत इति प्रतिपादयंस्तस्य विशिष्टफलजननहेतुतामाह—
जनद्व॑द्वा ए॒तदह॒र्यच्चतु॒र्थमन्ना॑द्यञ्जनयति वि॒राज॑ञ्ज-
नयत्येकेविँग्॒शँ स्तोमञ्जनयति ॥ २ ॥
पूर्ववद्व्याख्येयम् ॥ २ ॥
अथ द्वितीयमाज्यस्तोत्रं दर्शयति—
‘अयं वां मित्रावरुणे’ति बार्हतं मैत्रावरुणम् ॥ ३ ॥
अयं वां मित्रावरुणेति तृचे(२) बार्हतं बृहत्सामसम्बन्धि मैत्रावरुणं
मित्रावरुणदेवताकं हि तृतीयमाज्यस्तोत्रं भवति । यदा ज्योतिष्टोमे पृष्ठ-
स्तोत्रे बृहत्साम क्रियते, तदेवाऽस्य तृचस्य प्रातस्सवने प्रयोगात् बार्ह-
तत्वम् ॥ ३ ॥
नन्वेवमत्र वैराजं साम पृष्ठस्तोत्रं कथमस्य तृचस्य तेन सङ्गतिरि-
१. जनद्वल्लिङ्गमेवाऽयं तृचस्स्यादिति. क. ख. पु.
२. मित्रश्च वरुणश्च देवता अस्येति मैत्रावरुणं बार्हतमपि भवति यदेति. ख. पु.

४६० ताण्ड्यमहाब्राह्मणे
ति तत्राऽऽह—
बृहदेतत्परोक्षं यद्वैराजं बार्हतमेव तद्रूपं निर्योतयति ॥४॥
यद्वैराजं साम एतत्परोक्षं(१) परोक्षेण रूपान्तरेण स्थितं बृहत्सामैव।
तथा च तैत्तिरीयके ‘बृहच्च वा इदमग्रे रथन्तरञ्चाऽऽस्तामि’ति प्रक्रम्य
‘ते द्वे भूत्वा रथन्तरञ्च वैरूपञ्च बृहदित्यमन्येतां तद्गर्भमधत्त तद्वैराजम-
तिसृजते’ति बृहतस्सकाशाद्वैराजस्योत्पत्तिः श्रूयते । तस्माद्वैराजस्य
बार्हतत्वादूबार्हतं बृहतस्सम्बन्ध्येव रूपं निर्योतयति निष्कृत्य प्रकाशयति॥
अथ तृतीयस्याऽऽज्यस्तोत्रीयं तृचं विधत्ते—
‘इन्द्रो दधीचो अस्थभिर्’ति दाधीचस्तृचो भवति ॥५॥
‘इन्द्रो दधीच’ इति दाधीचो दधीच्सम्बन्धी तृचः ऐन्द्रः तृतीये
आज्यस्तोत्रीयः कार्य्यः। दध्यङ् शब्दात्तस्येदमित्यर्थे अणि भसंज्ञायां
‘अच’ इत्यकारलोपे चाविति दीर्घत्वम् ॥ ५ ॥
अत्रेन्द्रो दधीच इति(२) शब्दसूचकं साध्यं फलमाह—
दध्यङ्वा आङ्गिरसो देवानां पुरोधानीय आसीदन्नं
वै ब्रह्मणः पुरोधा अन्नाद्यस्याऽवरुद्ध्यै ॥ ६ ॥
दध्यङ्नाम आङ्गिरसोऽङ्गिरोगोत्र ऋषिर्देवानाम् अग्न्यादीनां पुरोधा-
नीयः पुरस्ताद्धारणीय आसीत् अभवत्। स चाऽत्र दधीच इति षष्ठ्य-
न्तेन पदेन मन्त्रैः प्रकाशितः ब्रह्मणो ब्राह्मणजातेः अन्नं वै अन्नमेव पुरोधाः
पुरोधारणीयः। तस्माद्दधीच इत्यनेन पुरोधानस्मरणात् ब्राह्मणानां
पुरस्ताद्धारणीयस्य अन्नाद्यस्याऽत्तुं योग्यस्याऽन्नस्याऽवरुद्ध्यै अवरो-
धनाय प्राप्त्यर्थं एतत्तृचकरणं भवति ॥ ६ ॥
अथ चतुर्थमाज्यस्तोत्रं दर्शयति—
‘इयं वामस्य मन्मन’ इत्यैन्द्राग्नम् ॥ ७ ॥
‘इयं वामस्येति’ तृचः ऐन्द्राग्नं इन्द्रदेवताकं चतुर्थमाज्यस्तोत्रं
भवति ॥ ७ ॥
तत्रत्यं किञ्चिल्लिङ्गमनूद्य चतुर्थेऽहनि सङ्गतिं प्रदर्शयन् अ-
न्नाद्यफलमेतदिति स्तौति—
‘इन्द्राग्नी पूर्व्यस्तुतिरभ्राद्वृष्टिरिवाऽजनी’त्यानुष्टुभ्भी


१. पारोक्ष्येण रूपान्तरेणाऽवस्थितमिति. क. ख. पु.
२. शब्दसूचितमिति. क. ख. पु.

..."?
Wait, "इन्द्राग्नी पूर्व्यस्तुतिरित्येषा..." - "इन्द्राग्नी पूर्व्यस्तुतिः" is an ऋक् (feminine), so "इत्येषाऽनुवादः" or "इत्येषोऽनुवादः" (referring to अनुवादः)?
Look at the letter: 'ष' has an 'ा' matra: 'षा'. Wait, does it have an 'ो' top stroke?
Wait, look at line 9:
"वेन्द्राग्नी पूर्व्यस्तुतिरित्येषाऽनुवादः"
Look above 'षा': no top slant for 'ो'. It is definitely 'षा'. Wait, let's look closely.
Wait, look at 'षा' in 'एषा': 'ए' then 'षा', then avagraha 'ऽ', then 'नुवादः'।
Yes, "इत्येषाऽनुवादः"! Wait, why? "इत्येषा [ऋक्] अनुवादः" or "इत्येषाऽनुवादः".

Line 10:
ण्येव छन्दांसि पुरा आसन् । तानि षट्सङ्ख्यानि पृष्ठान्यहानि प्राप्तुम-

Line 11:
समर्थान्यभवन् , ततो व्याप्त्युपायमालोच्य पुनरन्यानि त्रीणि छन्दांसि
Wait, after 'अभवन्' there is a space and a comma

अथ नवमः खण्डः ॥
अथाऽस्मिन्नेवाऽहनि माध्यन्दिनपवमानस्य प्रथमं तृचं प्रदर्शयति—
“पवस्व दक्षसाधन” इति गायत्री भवति सिध्यै ॥ १ ॥
गायत्रछन्दस्का प्रतिपद्भवति गायत्रस्तृचो भवतीत्यर्थः । स च
दक्षसाधन इति सिधि धातुनिष्पन्न इति श्रवणात् सिद्ध्यै फलप्राप्त्यै
सम्पद्यते ॥ १ ॥
अस्त्वेवम् । काऽसावस्याऽह्नस्सङ्गतिरिति तत्राऽऽह—
यत् पवस्वेति तद्बृहतो रूपं बार्हतँ ह्येतदहः ॥ २ ॥
'पवस्व वाचो अग्रिय' इति द्वितीयस्याऽह्नः प्रतिपद्भवतीति
बार्हतेऽहनि दृष्टत्वात् 'पवस्व दक्षसाधन' इत्यत्र यत् पवस्वेति पदं त-
द्बृहतो रूपम् । एतच्चतुर्थमहश्च बार्हतं बृहत एव, वैराजात्मनावस्था-
नात् । अतोऽस्मिन्नहनि तृचस्य सङ्गतिः ॥ २ ॥
अथान्यत्तृचं विधत्ते—
“तवाऽहँ सोमरा रण सख्य इन्दो दिवे दिवे । पु-
रूणि बभ्रो निचरन्ति मामव परिधीँरतितां इही”-
ति ॥ ३ ॥
तवाऽहमित्यादिकस्तृचोऽन्यस्तोत्रीयः । अतितां इहीति लिङ्गप्रदर्श-
नार्थं सर्वानुवादः ॥ ३ ॥
तस्य च लिङ्गस्य तात्पर्यं लिङ्गान्तरञ्च प्रदर्शयन् प्रयोजनञ्चाऽऽह—
अति ह्ययायञ्छकुना इव पत्सिमेत्यति ह्यपतत् ॥ ४ ॥
हि यस्मादस्मिन् चतुर्थेऽहनि त्रिरात्रमत्यायन् अत्यक्रामन् तस्मा-
दतिहीति अति पूर्वो गत्यर्थ इति धातुः यस्मिंस्तृचे स्तोत्रसङ्गत इ-
त्यर्थः । तस्मिंस्तृचे शकुना इव पत्सिमेति दृश्यते । शकुनाः
पक्षिण इव पत्सिमवयमुत्पतनं कृतवन्तः स्म इति तस्यार्थः । अस्मिंश्चा-
हनि वर्त्तमानो यजमानः अत्यपताद्धि त्रिरात्रमतिक्रम्य इदमहरगच्छत्
तस्मादप्येनेनाऽह्ना तृचस्सङ्गत इत्यर्थः ।
तृचान्तरं विधत्ते—
पुनानो अक्रमीदभीति ॥ ५ ॥
स्पष्टोऽर्थः ॥ ५ ॥
ननु प्रकृतौ माध्यन्दिनपवमानस्याऽन्यस्तृचस्त्रैष्टुभस्तस्य स्थाने

द्वादशाध्याये नवमः खण्डः । ४६३
कथमसौ गायत्रस्तृचस्सङ्गत इति तन्नाऽऽह—
गायत्र्यः सत्यास्त्रिष्टुभो रूपेण तस्मात्त्रिष्टुभां
लोके क्रियन्ते ॥ ६ ॥
‘पुनानो अक्रमीदि’त्याद्याः गायत्र्यस्सत्योऽपि त्रैष्टुभेन रूपेण यो-
गात् त्रिष्टुभो भवन्ति । किञ्च त्रैष्टुभं रूपं विश्वामृधा विचर्षणिरिति
विश्वशब्दः, गमदिन्द्रो वृषासुत इति वृषशब्दश्च वृषवद्वृत्रहवद्वयि-
मद्द्बिश्ववदिति हि विराट् त्रिष्टुभो रूपे परिगणितम् । तस्मात्त्रिष्टुभा-
मृचां लोके स्थाने क्रियन्ते ॥ ६ ॥
अथ प्रथमाविहिते तृचे पूर्ववद्गायत्रं साम विधाय तदितिकर्त्त-
व्यताबोधकं ब्राह्मणञ्चाऽतिदिशति—
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् ॥ ७ ॥
सिद्धमेतत् ॥ ७ ॥
अथ पुनरावृत्ते(१) तस्मिंस्तृचे सामान्तरं विधत्ते—
चतुर्णिधनमाथर्वणं भवति चतूरात्रस्य धृत्यै ॥ ८ ॥
चत्वारि निधनानि आवत् सुवः ज्योतिः ई २३४५ इत्येवमात्म-
कानि यस्य तच्चतुर्णिधनमाथर्वणमाथर्वणा दृष्टं साम पवस्व दक्षसा-
धन इत्यस्मिन्नेव तृचे गेयम् । तच्चतुस्संख्यायोगाच्चतूरात्रस्याऽनेनाऽह्ना
सहितस्य प्रायणीयादीनामह्नां चतुष्कस्य धृत्यै धारणाय भवति ॥ ८ ॥
अथ चतुस्संख्यायोगादेव चतुर्थेऽहनि सङ्गतमेतदित्याह—
चतुष्पदानुष्टुभाऽऽनुष्टुभमेतदहर्यच्चतुर्थम् ॥ ९ ॥
निधनगतचतुष्के चतुष्पदा पादचतुष्टयोपेता अनुष्टुप् स्मर्य्यते ।
एतच्चतुर्थमहश्चानुष्टुभं अनुष्टुप्छन्दस्कमिति प्रागुपपादितम् । अतो-
ऽस्मिन्नहनि चतुर्णिधनं योग्यम् ॥ ९ ॥
एवं छन्दोद्वारेण प्रशस्य ऋषिद्वाराऽपि प्रशंसति—
भेषजं वाऽऽथर्वणानि भेषजमेव तत्करोति ॥ १० ॥
आथर्वणान्यर्थर्वसम्बन्धीनि कर्माणि मन्त्रजातानि च भेषजं वै
भैषज्यसाधनानि खलु । तत्तस्मादथर्वसम्बन्धिना साम्ना भेषजं रोगा-
द्युपशमनं भैषज्यमेव करोति ॥ १० ॥
अथाऽस्मिन्नेव तृचे आवृत्ते सामान्तरं विधत्ते—
निधनकामं भवति ॥ ११ ॥
१. अस्मिन्नेवेति. क. पु.

४६४ ताण्ड्यमहाब्राह्मणे

स्पष्टोऽर्थः ॥ ११ ॥
एतत्सर्वकामावाप्तिहेतुरिति स्तौति--
एकं वा अन्येन निरुक्तेन निधनेन कामꣳ सनोत्य-
थैतन्निधनकामꣳ सर्वेषां कामानामावरुद्ध्यै ॥ १२ ॥
निरुक्तेन निश्शेषेण स्पष्टमुक्तेनाऽन्येन निधनेन वागिडेत्यादिना एक-
मेव कामं सनोति सम्भजते । अथशब्दस्तुशब्दार्थः । एतत्साम निधन-
कामं काम्यमाननिधनवत् । अत एवाऽस्यैषा संज्ञा । तस्मात्काम्यमान-
निधनत्वात् पुरुषोऽयं कामं कामयते । सर्वेषां कामानां काम्यमानानां
फलानामवरुद्ध्यै प्राप्त्यै भवति ॥ १२ ॥
‘तवाहं सोमे’ति विहिते तृचे गातव्यं साम दर्शयति--
आष्टादंष्ट्रं भवति ॥ १३ ॥
अष्टादंष्ट्रेण ऋषिणा दृष्टं साम आष्टादंष्ट्रम् । तच्च द्वयमस्ति ।
तत्रोत्तरं साम तवाहं सोमामित्यस्मिंस्तृचे गातव्यम् ॥ १३ ॥
अस्य साम्नस्तावकं यद्ब्राह्मणमाम्नातं स्तुत्यर्थं तदत्राऽप्यतिदिशति--
यदेवाष्टादंष्ट्रस्य ब्राह्मणम् ॥ १४ ॥
‘इन्द्रो वृत्रमहन्नेयादौहोवेति न्यगृह्णादि’त्यादिकं यद्ब्राह्मणमाम्नातं
व्याख्यातञ्च तदत्राऽपि द्रष्टव्यमित्यर्थः ॥ १४ ॥
अथाऽऽवृत्तेऽस्मिंस्तृचे सामान्तरं विधत्ते--
आभीशवं भवत्यह्नो धृत्यै ॥ १५ ॥
द्वयोराभीशयोर्मध्ये यदुत्तरमाभीशवं तदस्मिन् तृचे गेयम् । त-
च्चाऽह्नो धृत्यै धारणाय भवति ॥ १५ ॥
एतदेव (१)लोकप्रदर्शनेनोपपादयति--
यद्वा अधृतमभीशुना तदाधार ॥ १६ ॥
यत् खलु लोके अधृतं अधृष्टं शिथिलं भवति तदभीशुना शङ्कुना
दाधार पुरुषो धारयति । एवमत्राऽपि अभीशुना शङ्कुना साम्ना अहस्स-
म्बन्धि यदधृतमधारितं शिथिलं तद्धारयति ॥ १६ ॥
अथाऽस्मिन् साम्नि दृश्यमानं गीतिविशेषमनुवदन्नस्मिन्नहनि स-
ङ्गतिमाह--
अनुतुन्नं गायति तथा ह्येतस्याऽह्नो रूपम् ॥ १७ ॥


१. लोकप्रसिद्धेन निदर्शनेनेति. क. ख. पु.