ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 466, कुल 518 में से
संदर्भ में पढ़ेंतृतीयमहरारभन्ते ॥ १ ॥
'तिस्रो वाच' इत्ययमाद्यस्तृच आर्भवपवमानस्य । एतच्च उच्छब्द-
त्रिशब्दयोगात् तृतीयस्याऽह्नो रूपम् । तेन तार्तीयरूपयुक्तेन तृचेन तृती-
यमहरारभन्ते गृह्णन्ति ॥ १ ॥
एतदेवोपपाद्यते--
उद्बद्धा एतत् त्रिवदहर्यत् तृतीयं तदेव
तदभिवदति ॥ २ ॥
एतदहरुद्बद्धै उच्छब्दयुक्तमेव, तथा त्रिवत् त्रिशब्दयुक्तं च । उद्ब-
त्रिवदित्यादिना तृतीयस्याऽह्नो रूपम्, तथा परिसङ्ख्यानात् । तद्दे-
वाह-तृतीयाहस्सम्बद्धं रूपं तन्मन्त्रवाक्यमभिवदति प्रकाशयति ॥२॥
अथाऽपरां स्तोत्रीयामृचं विदधाति--
"आ सोता परिषिञ्चते"ति परिवत्यो भवन्ति ॥ ३ ॥
आ सोतेत्याद्यास्तिस्र ऋचः परिवत्यः परिशब्दयुक्ता भवन्ति । स्तो-
मातिरेकपरिहाराय(१) तास्वेकस्यामेव यथाभ्यस्यमानं वाक्षसाम गा-
तव्यम्, अन्ये तु विकल्पिता इत्यर्थः ॥ ३ ॥
(२)तदेव प्रशंसति--
अन्तो वै तृतीयमहस्तस्यैताः पर्यांप्त्यै ॥ ४ ॥
इदं तृतीयमहरन्तो वै । अनेनैकस्य त्रिरात्रस्य परिसमापनात्तस्याऽह्न
एताः परिवत्य ऋचः परिसमाप्तिसूचकत्वात् पर्यांप्त्यै परिसमाप्त्यै
भवन्ति ॥ ४ ॥
अथाऽपरां स्तोत्रीयां विदधाति--
'सखाय आनिषीदते'त्युद्धृतमिव वै तृतीयमहर्यदाह
निषीदतेत्यहरेवैतेन प्रतिष्ठापयति ॥ ५ ॥
'सखाय आनिषीदते'त्येका स्तोत्रीया । सा चानिषीदतेति निषदन-
लिङ्गात् अह्नः प्रतिष्ठाहेतुरित्याहोद्धृतमित्यादिना । उद्धृतमिव वा उत्खा-
तमिव वै खल्वेतत् तृतीयमहर्निषीदत निषण्णा भवत यथास्थानमु-
पविशतेति तत्र वाक्यं यदाह, एतेन निषादनप्रतिपादकेनाऽहरेवेदं
प्रतिष्ठापयति यथास्थानं प्रतिष्ठितं करोति ॥ ५ ॥
१. तिसृष्वेकस्यामेवार्चि विधास्यमानमिति. क. ख. पु.
२. तदेतत्प्रशंसतीति. क. पु.