ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 471, कुल 518 में से
संदर्भ में पढ़ेंद्वादशाध्याये पञ्चमः खण्डः । ४४९
निष्किरीयाः निष्किरो नाम शाखाविशेषो गोत्रविशेषो वा। तत्स-
म्बन्धिनो यजमानाः पुरा सत्रं द्वादशाहाख्यं आसताऽन्वतिष्ठन् । ते तत्रत्यं
तृतीयमिदमहर्न प्राजानन्। तान् तथाविधान् यजमानानेतत्साम गाय-
मानान् गानं कुर्व्वतः वाक् उपाप्लवत् उपागच्छत् । प्लु गतौ भौवादिकः
तेन वाचा गीयमानेनानेन साम्ना तृतीयमिदमहस्ते प्राजानन् प्रकर्षेणा
ऽनुष्ठानक्रममबुध्यन्त। ज्ञात्वा च ते पुनरब्रुवन् इयं खलु वाक् नोऽस्मान्
तृतीयमहरदीदृशत् दर्शितवती। दृशेर्ण्यन्तात् लुङि चङिति ऋकारा-
देशस्य विकल्पे प्राप्ते "नित्यं छन्दसी" ति नित्यमृकारादेशे कृते च द्वि-
वचनादिके कार्य्ये रूपमेतददीदृशदिति। यस्मादेवमब्रुवन् तस्मात्तृती-
यस्याऽह एषा दृष्टिः दर्शनसाधनं चक्षुरिन्द्रियस्थानम् ॥ १४ ॥
अथ 'सखाय आनिषीदते' त्यस्यां गातव्यं साम विधत्ते-
शौक्तं भवति ॥ १५ ॥
शुक्तिना दृष्टं साम शौक्तम् ॥ १५ ॥
इममेव सम्बन्धं प्रदर्शयन् अस्य साम्न आर्ज्जवेन स्वर्गप्राप्तिहेतुत्वं
दर्शयति--
शुक्तिर्वा एतेनाऽऽङ्गिरसोऽञ्जसा स्वर्गं लोकमप-
श्यत् स्वर्गस्य लोकस्याऽनुख्यात्यै स्वर्गाल्लोकान्न च्यवते
तुष्टुवानः ॥ १६ ॥
शुक्तिर्नामाऽऽङ्गिरस ऋषिरतेन साम्ना अञ्जसा ऋजुगामिना मार्गेण
स्वर्गं लोकमपश्यत् अजानात्। दृष्ट्वा च तं लोकं प्राप्य चिरकालमतिष्ठ-
दित्यर्थः । शिष्टं स्पष्टम् ॥ १६ ॥
'सुतासो मधुमत्तमा' इति तृच एकं साम विधाय पूर्वमाम्नातं तत्
स्तावकं ब्राह्मणञ्चाऽतिदिशति--
गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम् ॥ १७ ॥
एतदपि सिद्धं प्राक् ॥ १७ ॥
अथाऽस्मिन्नेवाऽऽवृत्ते तृचे सामान्तरं (१) विदधाति-
त्वाष्ट्रीसाम भवति ॥ १८ ॥
त्वष्टुर्दुहितरस्त्वाष्ट्र्यः। ताभिर्दृष्टं साम त्वाष्ट्रीसाम । तत् 'सु-
तासो मधुमत्तमा' इति तृचे गातव्यम् ॥ १८ ॥
अस्य साम्नस्त्वाष्ट्रीसम्बन्धं प्रतिपादयन् कामप्राप्तिहेतुतां विव-
१. विधीयत इति ग. पु. ।