सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

भुजिधातोराशिलिङि बहुलमिति सिप्, इडागमः, उकारादेश-
श्छान्दसः ॥ १ ॥
अथ द्राह्यायणो द्वितीयमन्त्रस्य विनियोगमित्थमाह- 'स्वयं व्रजेत्
क्रय उपवसथ्येवोदङ्ङेव तु गृहेभ्यः प्रथमन्दे वो देवमेत्विति' । यः सोम-
क्रयस्य दिवसो यश्चोपवसथ्याख्यः सुत्यादिवसात् पूर्वो दिवसस्तयो-
रन्तरस्मिन्दिवसे उद्गाता स्वयमेव देवयजनदेशं गच्छेत्, न त्वन्यं
प्रहिणुयात्, गमने त्वास्ति कश्चिद्विशेषः । यद्यपि स्वगृहाद्दक्षिणतो देव-
यजनं स्यात्तथापि 'देवो देवमेत्वि'ति मन्त्रेण स्वगृहेभ्यो निर्गच्छन्
प्रथमं कतिचित् पदान्यदृष्टार्थमुदङ्मुख एव गत्वा पश्चाद्देवयजनाभि-
मुखो भवेत् । ऋत्विग्वरणसोमक्रययोर्मध्यवर्तिनमाध्वर्यवं प्रयोगं क्रतु-
सङ्ग्रहकारः सूचयामास । ग्रन्थोऽत्र बुद्धिसमाधानायोदाह्रियते ।
अथाग्निष्टोमसंस्थेन ज्योतिष्टोमेन याजयेत् ।
स पूर्वमृत्विजो वृत्वा देवभूमिविनिश्चये ॥
दीक्षणायां निर्वपेत्सोऽपि पत्नीसंयाजसंस्थितिः ।
कृते प्राचीनवंशेऽथ संस्कारा वपनादयः ॥
हुत्वा दीक्षाहुतीः कार्या दीक्षा कृष्णाजिनादिभिः ।
दीक्षितो नियमैर्युक्तो भवेत् क्षीरव्रतादिभिः ॥
द्वादशाहं दीक्षितोथ भिक्षित्वा द्रव्यमानयेत् ।
सोमञ्चर्मण्यवस्थाप्य विवशेत्सोमविक्रयी ॥
शंय्वन्ता प्रायणीया स्याद्गृह्णीयात् क्रयणीपदम् ।
क्रीत्वा सोमं रथे क्षिप्त्वा प्राग्वंशाग्रे समानयेत् ॥ इति ॥
मन्त्रपाठस्तु--
दे॒वो दे॒वमे॑तु॒ सोम॑:॒ सोम॑मे॒त्वृतस्य॑ प॒था ॥ २ ॥
'देवः' द्योतमानः सोमः 'देवं' दानादिगुणयुक्तं इन्द्रादिकं 'ऋतस्य'
यज्ञस्य 'पथा' मार्गेणादावाहुतिप्राणादिनाऽद्या 'एतु' प्राप्नोतु । यद्वा
दीव्यतिस्तुतिकर्मकादेव स्तोतोद्गाता। अथवा 'पर्ज्जन्यो म उद्गातेति' वर-
णमन्त्रे श्रवणात् पर्जन्याख्यदेवतारूप उद्गाता देवं दीप्यमानं फलप्रका-
शकं वातयज्ञमृतस्य सम्बन्धिना पथा देवयजनमार्गेणैतु गच्छतु ।
'सोमः' अभिषवादिसंस्कृतो रसात्मकः 'सोमं' देवतारूपममृतं द्यु-
स्थानं स्वमूर्त्यन्तरं 'एतु' प्राप्नोतु रसात्मकः सोम एवामृतमयो
द्युस्थानः सोमो भवत्वित्यर्थः । 'तमेव खलु देवा उपजीवन्ति यम-
क्षितिमः क्षितयः पिबन्ति' इति श्रुतेः ॥ २ ॥

प्रथमाध्याये प्रथमखण्डः। ७
द्राह्मायणः-'दूरं व्रजित्वा विहाय दौष्कृत्यमिती'ति। यदि दूरमध्वानं
व्रजेत् तदानीमप्रयतदेशा तिक्रमणादिकमवर्जनीयं स्यात् ततो यत्कि-
ञ्चित् दुष्कृतमवश्यं भवेत् तच्छान्तये विहाय दौष्कृत्यमित्येवं
मन्त्रं जपेत् ।
विहाय दौष्कृत्यम् ॥ ३ ॥
दुष्कृतस्य भावः दौष्कृत्यं तद्विहाय मनसा परिहृत्य देवयजनं
गच्छामीति मन्त्रार्थः ॥ ३ ॥
द्राह्मायणः-'बद्धानामासीति पन्थानमापद्ये'ति । देवयजनस्य समी-
पवत्तिनं पन्थानमासाद्य बद्धेति मन्त्रं जपेत् ।
मन्त्रपाठस्तु-
बद्धानामासि सृतिः सोमसरणी सोमं गमेयम् ॥ ४ ॥
हे देवयजनमार्ग ! त्वं 'बद्धानामासि' नामाशब्दः प्रसिद्धः प्रसिद्धार्थः ।
बद स्थैर्ये इति धातो रन्येभ्योपि दृश्यन्ते इति वनिप् । बद्धा स्थिर
इतरस्माल्लौकिकान्मागाद्द्दढतर इति प्रसिद्धो भवति, स्थिरफलप्राप्ति-
हेतोर्यज्ञस्य साधनत्वात् । यद्वा बद्धेत्येषा देवयजनमार्गस्य वैदिकी संज्ञा
एतत्संज्ञो भवतीत्यर्थः । अथवा बवर्णस्य व्यत्ययेन यकारस्य स्थाने
वकारः । यद्वा नामेत्येव सूत्रं, तदाहापस्तम्बः,-'यद्वा देवयजनं प्रति
गन्ता एतत्संज्ञस्त्वमसि । 'सोमसरणी' सोमस्य प्राप्तिसाधनाभूता
'सृतिः' मार्गो भवसि । तया सृत्त्या 'सोमं' सोमयागं 'गमेयं' प्राप्नुयां,
गमिधातोर्लिंङ्याशिष्यङित्यङ् ॥ ४ ॥
द्राह्मायणः-'उत्तरवेद्यन्तमाक्रम्य दक्षिणमीक्षमाणः पितरोभूरि'ति ।
देवयजनं प्रविश्यमाणः महावेदिपार्श्वमाक्रम्य 'पितरोभूरिति' मन्त्रेण
पितॄनुपतिष्ठेत् । तथा चापस्तम्बः-'पितरोभूरिति दक्षिणावृत्तः
पितॄनुपतिष्ठेत' इति । मन्त्रपाठस्तु--
पितरो भूः पितरो भूः पितरो भूः ॥ ५ ॥
हे पितरः ! इयं 'भूः' दक्षिणवेद्यन्तलक्षणा भूमियुष्माकं निवासायेति
शेषः, कर्मसमाप्तिपर्यन्तमत्र निवसतॆति भावः । त्रिरुक्तिरादरातिश-
यद्योतनार्था, पितृपितामहप्रपितामहानां त्रित्वापेक्षया वा ॥ ५ ॥
द्राह्मायणः-'यूपमुच्छ्रीयमाणमनुमन्त्रयेरन्नृमणऊर्ध्वभरसं त्वेती'-
ति । अध्वर्युर्यूपं यदोच्छ्रयेत् तदानीमुद्गातारो नृमणं इत्यनुमन्त्रयेरन् ।

८ ताण्ड्यमहाब्राह्मणे
अत्रापि पूर्ववत् क्रतुसङ्ग्रहः—
क्रीत्वा सोमं रथे क्षिप्त्वा प्राग्वंशाग्रे समानयेत् ।
आतिथ्यां निर्वपेत्सोममासंद्यामुपसादयेत् ॥
आतिथ्येष्टिरिडान्ता स्यात्तानूनपत्रमवद्यति ।
दीक्षामवान्तरामेति प्रवर्ग्योपसदोः कृतिः ॥
दिनत्रये तत्कृतं स्याद्वेदिर्मध्यन्दिने भवेत् ।
षट्त्रिंशत्पददीर्घैषा प्राग्वंशात् पूर्वतः स्थिता ॥
प्रातः प्रवर्ग्यमुद्वास्य पश्चादुत्तरवेदितः ।
शकटे द्वे हविर्द्धाने हविर्द्धानंश्च मण्डपम् ॥
पश्चात्सदस्तस्य मध्ये निखातौदुम्बरी मिता ।
दक्षिणस्यानसोऽधस्तात् गर्त्तानूपरवान् खनेत् ॥
विधाय फलकाभ्यान्तानग्रे कुर्यात् मृदा खरम् ।
निर्वपेद्धिष्ण्यगानग्नीषोमीयं पशुमाचरेत् ॥
प्रयुज्योचितपात्राणि दर्शवत्सर्वमाचरेत् ।
आज्यमासादिते वेद्या अन्ते यूपं समुच्छ्रयेत् ॥ इति ॥
पाठस्तु—
नृमण ऊर्द्धभरसं त्वोर्द्धभरा दृशेयम् ॥ ६ ॥
हे ‘नृमण’! नृषु यज्ञस्य नेतृषु यजमानेषु मनोऽनुग्रहबुद्धिर्यस्य विष्ण्वा-
त्मनो यूपस्य सोऽयं नृमणः एतादृशविष्णुरूपयूप ! ‘ऊर्द्धभरसं त्वा’ऊर्द्ध-
मुपरिभागेऽध्वर्युभिर्ब्रियमाणं त्वामहं ‘ऊर्द्धभराः’ सन् ‘दृशेयं’ अनुग्रा-
हकेण त्वया ऊर्द्धमुन्नतगुणोयमिति धार्य्यमाण ऊर्द्धभराः, दृशिधातोलिँ-
ङ्याशिषि अङ्िप्राप्ते तदपवादत्वेन दृशेरग्वक्तव्य इत्यक् । अङ्ि तु सति
ऋदृशोऽिङ्गुणः इति गुणः स्यात् ॥ ६ ॥
द्राह्मायणः—‘होता प्रातरनुवाकमनूच्याऽभूदुषा इति यदा ब्रूयादथ वेदि-
माक्रामेयुः मृदाशिथिरेती’ति । उपवसथदिवसस्य मध्यरात्रादूर्द्धं होता
प्रातरनुवाकं ब्रूते । तदाहाश्वलायनः—‘अथैतस्या रात्रिविवासकाले प्रा-
ग्वयसां प्रवादात्प्रातरनुवाकायामन्त्रितो वाग्यतस्तीर्थेन प्रपद्येत्यादि’ ।
अध्वर्युणामन्त्रितो होता प्रातरनुवाकमनूच्य तस्यावसानगता‘मभूदुषा’
इत्येतामृचं यदा ब्रूयात्तदानीमुद्गातृप्रस्तोतृप्रतिहर्त्तारो ‘मृदेति’ मन्त्रेण
वेदिमाक्रामेयुः । क्रतुसङ्ग्रहस्तु--
यूपस्योच्छ्रयणादूर्ध्वं समापय्य पशुं ततः ।
वैसर्जनानि हुत्वाऽग्निं सोमं ग्रावादि चानयेत् ॥

प्रथमाध्याये प्रथमखण्डः । ९
हविर्द्धाने स्थापयित्वा गृह्णीयाद्वसतीवरीः ।
प्रयुञ्ज्यात्सोमपात्राणि महारात्रे खरादिषु ॥
ग्रावस्तुत स्थापिते सोमे पक्षिणां ध्वनितः पुरा ।
स्यात्प्रातरनुवाकार्थमुपाकरणमादरात् ॥ इति ॥
वेद्याक्रमणमन्त्रपाठस्तु-
मृदा शिथिरा देवानां तीर्थं वेदिरसि मा मा हिंसीः ॥७॥
हे वेद्यात्मिके भूमि ! 'मृदा' यज्ञायुधेन खाता या मृत्तन्मया 'शिथिरा'
प्रशिथिलावयवा त्वं 'देवानां' उद्गात्रादीनामृत्विजां देवानामेव वा 'तीर्थं'
एव तरणस्थानं असि, तथा 'वेदिरसि' असुरैरपहतानां धनानां लम्भयि-
त्र्यसि । 'यत्तद्वित्तं वेद्यमसुराणां वेद्यमविन्दत तदेकं वेद्यैर्वेदित्व'मिति
श्रुत्यन्तरात् । उक्तलक्षणां त्वां अधितिष्ठन्तं 'मा मा हिंसीः' 'मा वाधस्व'॥७॥
द्राह्यायणः-'हविर्द्धानं प्रवेश्यमाना वसतीवरीरनुप्रविशेयुस्तस्य
रराट्यामालभ्य विष्णोः शिर इती'ति । अध्वर्युणा प्रातरनुवाक उपाकृते
प्रतिप्रस्थात्रा सवनीयपुरोडाशेष

१० ताण्ड्यमहाब्राह्मणे .
विशन्त 'इष ऊर्ज' इति मन्त्रं जपेयुः । पाठस्तु--
इष ऊर्ज॒ आयु॑षे वर्च॑से च ॥ ९ ॥ १ ॥ १ ॥
इडन्नम्, ऊर्ग्रसः क्षीराज्यादिः, आयुः प्रसिद्धं, वर्चो वेदशास्त्राणि
विज्ञतृत्वं रूपं ब्रह्मवर्चसं, चकारात् पुत्रपौत्रादयः, सर्वसम्पत्त्यर्थं
हविर्द्धानं प्रविशामीति शेषः ॥ ९ ॥ १ ॥ १ ॥
इति ताण्ड्यब्राह्मणे प्रथमाध्यायस्य प्रथमखण्डः ।
अथ द्वितीयः खण्डः ।
द्राह्मायणः 'अन्तरेणेषे बाहूनवहृत्य पार्ष्णीरनुद्यच्छन्तो युनज्मी-
ति राजानमभिमृशेयुः प्रातःसवनीयाविभक्तश्चेत् सर्वन्न चेत्प्राप्नुयु-
र्देशेनैवेति । हविर्द्धानमण्डपे दक्षिणशकटस्याधस्तात् पश्चिमभागे-
ऽभिषवार्थं सोमोवस्थापितो वर्त्तते । तं सोमं हस्तैः स्पृष्ट

closing quote.

  • इति : yes.
  • । : danda.
  • सव्यावृतः : yes.
  • सव्येन : yes.
  • पार्श्वेनावर्त्तमानाः : double त (र्त्त).
  • । : danda.
  • पाठस्तु- : yes, with hyphen.

Line 9:
ऋतस्य सदने सीदामि ॥ २ ॥

  • bold / larger centered:
    ऋतस्य सदने सीदामि ॥ २ ॥

Line 10:
‘ऋतस्य’ सोमस्य अवश्यं फलसाधनात्वात्सोमः सत्यः, सत्य-

  • ‘ऋतस्य’ : yes.
  • सोमस्य : yes.
  • अवश्यं : yes.
  • फलसाधनात्वात्सोमः : wait, is it फलसाधनात्वात् or फलसाधनत्वात्?
    Let's check line 10 carefully:
    फलसाधनात्वात् or फलसाधनत्वात्?
    फ-ल-सा-ध-ना-त्वा-त्: yes, there is an aa-kāra on ध: ध is followed by ना, so फलसाधनात्वात्सोमः.
    Wait, let's look at the letter between ध and त्वा:
    It's 'ना'! फलसाधनात्वात्सोमः.
  • सत्यः, : satyaḥ with a comma! Yes, comma is visible: सत्यः,
  • सत्य- : hyphen at end.

Line

१२ ताण्ड्यमहाब्राह्मणे

कलशाभिमर्शनमन्त्रेऽवगम्यते । तथा चाध्वर्युशाखायामाम्नायते-
‘उपयामगृहीतोसि प्रजापतये वेति द्रोणकलशमभिमृशेदिति’ । प्राजा-
पत्यो ह्येष देवतया यत् द्रोणकलश इति ब्राह्मणम् । ‘प्रजापतेर्मू-
र्द्धाऽसि’ अस्य तन्मूर्द्धत्वं ब्राह्मणे समाम्नातम् । प्रजापतिरकामयत
बहुस्यां प्रजायेयेति सोऽशोचत्तस्य शोचत आदित्यो मूर्द्धनोऽसृज्यत
सोस्य मूर्द्धानमुदहरन् स द्रोणकलशोऽभवत् इति, अन्योऽर्थो बाहुल्ये-
नागच्छति सोमोस्मिन्द्रोणकलशपात्रे ततस्त्वं ‘अत्यायु’ नाम्नाभिधेयं
‘पात्रमसि’ ‘इदं’ सर्वेषां प्रत्यक्षं यथा ‘अहं’ उद्गाता इमं द्रोणकलसं
‘प्राञ्चं’ पूर्वदिग्गामिनं तन्वा ‘प्रोहामि’ । तच्च प्रोहणं मम ‘तेजसे’
शारीरकान्तये ‘ब्रह्मवर्चसाय’ श्रुताध्ययनसम्पत्तये च भवतु ॥ ४ ॥
द्राह्यायणः-‘तानभिमृश्य जपेयुर्मरुत इती’ति । अभिषवसाधनभूता
ग्रावाण उद्गात्रादिभिरेकत्र योजितत्वेन प्राक्तनत्वात्तच्छब्देन परामृश्यन्ते ।
तान् ग्रावाणो हस्तैरभिमृश्योद्गात्रादयो ‘मरुत’ इत्यादिकं मन्त्रं जपेयुः ।
पाठस्तु—
मरुतो नपातोऽपङ्क्षयाः पर्वतानाङ्ककुभः श्येना
अजिरा इन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं
युक्तास्थ वहत ॥ ५ ॥
हे ग्रावाणः ! यूयं मरुद्बलात् ‘नपातः’ न पतीति नपात् तस्य
बहुवचनं नपात इति । यथा वृक्षगतपर्णादीनि वायुबलेन पात्यन्ते न
तथा ग्रावाणः । यद्वा मरुतो मितराविणः नपातो यज्ञस्य नपातयितारो
रक्षकाः । ‘अपां’ जलानां क्षयाः निवासस्थानभूताः नदीमध्ये घर्मकालेपि
तत्र पाषाणानां सन्धिषु जलन्निवसति । तथा ‘पर्वतानाङ्ककुभः’शृङ्गभूताः,
ककुभं शृङ्गे विन्दुः प्रधानेपि च निघण्टे । ‘श्येनाः’ एतन्नामकपक्षि-
सदृशाः शंसनीयगमनाद्वा । ‘अजिराः’ क्षिप्रनामैतत् क्षिप्रगमना, ‘इन्द्रं’
‘वहत’ उक्तलक्षणा यूयं सोमयागार्थमिन्द्रमाह्वयत, केन साधनेन ‘वग्नुना’
वचनेन वाक्यसदृशेन ध्वनिनेत्यर्थः । ग्रावाणां सोमाभिषवध्वनिं श्रुत्वा
इन्द्र आहूत इव शीघ्रमागच्छति । घोषेण भवदीयेनोग्रध्वनिना
‘अमीवान्’ रोगवदुपद्रवकारिणोऽसुरान् ‘चातयध्वं’ पराभूतान् कुरुध्वम्,
अत एव तैत्तिरीया आमनान्ति-‘श्रद्धा देवस्य यजमानस्यासुरघ्नीवाऋतुः
यज्ञायुषेषु प्रविष्टासीत्, तेसुरायादन्तो यज्ञायुधानामुद्वहतामुपाशृण्वन्
ते पराभवन्निति’ ‘युक्तास्थ वहत’ इन्द्रमाहूयासुरांश्च पराभाव्य ततो
द्रोणकलशं वोढुम्परस्परं संयुक्ता भवत संयुज्य च कलशं वहत ॥ ५ ॥

प्रथमाध्याये द्वितीयखण्डः । १३
द्राह्मायणः-'पश्चाद्दक्षिणतो वा द्रोणकलशमध्यूहेयु'रिदमहमसुमि-
ती'ति। युक्तानां ग्राव्णामुपरिष्टाद् द्रोणकलशं पश्चादारभ्य प्राञ्चं दक्षिणत
आरभ्योदञ्चं वा स्थापयेयुः। पाठस्तु—
इद॑म॒हम॒मुं यज॑मानं प॒शुष्वध्यू॑हामि प॒शुषु च॒ मां
ब्रह्म॑वर्च॒से च॑ ॥ ६ ॥
'इदं' प्रत्यक्षं यथाभवति तथा 'अहं' उद्गाता 'अमुं' परतो दृश्यमानं,
इममिति केषांचित्पाठः। 'यजमानं' 'पशुषु' गोषु 'अध्यूहामि'उपरि स्थाप-
यामि। कलशाध्यूहनप्रसादात् मया यजमानेन च पशवो लभ्यन्ता-
मित्यर्थः, न केवलं पशुलाभः किन्तु ब्रह्मवर्चसनिमित्तमप्येतदध्यूहनं
भवतु ॥ ६ ॥
द्राह्मायणः-'पवित्रेण द्रोणकलशँ संमृज्याद्वसवस्त्वेति बुध्नँ
रुद्रास्त्वेति मध्यमादित्यास्त्वेति बिलमिती'ति । दशापवित्रनामको
यो वस्त्रखण्डस्तेनोद्गाता द्रोणकलशमूलमध्यबिलभागान् मन्त्रगतै-
स्त्रिभिः भागैः शोधयेत् । पाठस्तु--
वस॑वस्त्वा गाय॒त्रेण॒ छन्द॑सा संमृ॑जन्तु रु॒द्रास्त्वा॑
त्रैष्टु॑भेन॒ छन्द॑सा संमृ॑जन्त्वादि॒त्यास्त्वा॒ जाग॑तेन॒ छन्द॑-
सा संमृ॑जन्तु ॥ ७ ॥
स्पष्टार्थः ॥ ७ ॥
द्राह्मायणः-'अवधूय पवित्रमुदग्दशमवाङ्नाभिर्वितनुयुः पवित्रन्त
इती'ति । दशापवित्रस्य मध्ये शुक्ला ऊर्णा सूत्रं सोमधाराश्रावणार्थं
यजमान आबध्नाति सा नाभिरित्युच्यते । उदीचीनदशमवाचीनना-
भि च दशापवित्रं कृत्वा द्रोणकलशस्योपरिष्टादुद्गात्रादयस्त्रयो वितनुयुः
वितत्य च दशापवित्रस्य कोणान् धारयेयुः । तथाच ब्राह्मणं 'पवित्रं
विगृह्णाती'ति ।
पाठस्तु--
प॒वित्र॑न्ते॒ वित॑तं॒ ब्रह्म॑णस्पते प्रभुर्गात्रा॑णि॒ पर्ये॑षि
वि॒श्वत॑ो तप्तत॒नूर्न तदामो॑ अश्नुते शृ॒तास॒ इद्वहन्तः॒
सन्त॑दाशतः ॥ ८ ॥
हे ब्रह्मणस्पते मन्त्रस्य स्वामिन् सोम ! ते 'पवित्रं' शोधकमन्त्रं 'वि-
ततं' सर्वत्र विस्तृतं सः 'प्रभुः' प्र भविता त्वं 'गात्राणि'गातुरङ्गानि 'पर्ये-
२
CC-0. ASI Srinagar Circle, Jammu Collection. Digitized by eGangotri Siddhanta Gyaan Kosha

षि' परिगच्छसि। 'विश्वतः' सर्वतस्तव 'तत्' पवित्रं 'अतप्तनूः' पयोव्रता-
दिना असन्ताप्तगात्रः 'आमः' अपरिपक्वः 'न अश्नुते' न व्याप्नोति। 'शृतास
इत्' शृता एव परिपक्वा एव 'वहन्तः' 'तत्' पवित्रं 'आशत' व्याप्नुवन्ति८
द्राह्यायणः—'सन्तातायां धारायामुद्गाता जपेत् प्रशुक्रैत्विति' । द-
शापवित्रस्योपरि सोमरसस्य धारा सन्तता श्राव्यते तदानीमुद्गाता प्र-
शुक्रैत्विति मन्त्रं जपेत् ।
पाठस्तु—
प्रशु॒क्रैतु॑ दे॒वी म॑नी॒षा॒स्मद्रथः॑ सु॒तष्टो॒ न वा॒ज्या-
युषे॑ मे पवस्व॒ वर्च॑से मे पवस्व वि॒दुः पृ॑थि॒व्या दि॒वो ज॑नि॒-
त्राच्छृ॒ण्वन्त्वापो॒धः क्षर॑न्ती॒ः सोमे॒होद्गाय॒ ममायु॑षे॒ मम॑
ब्रह्मवर्च॒साय॒ यज॑मानस्य॒र्द्ध्या अ॒मुष्य॒ राज्या॑य ॥९॥१॥२॥
'शुक्रा' शुद्धा निर्मला 'देवी' द्योतनात्मिका 'मनीषा' स्तुतिः 'अस्मत्'
अस्मतः 'प्रैतु' प्रगच्छतु सोमम् । तत्र दृष्टान्तः 'रथो न' रथ इव कीदृशः
'सुतष्टः' सुष्ठु, तत्तक्षणक्रियया निष्पादितः। 'वाजी' वेगवान् उग्रबुद्धिं प-
रित्यज्य 'मे' ममोद्गातुः 'आयुषे' आयुर्वृद्ध्यर्थं 'पवस्व' पूतो भव। तथा 'मेव-
र्चसे' ब्रह्मवर्चसनिमित्तं पूतो भव । 'पृथिव्या दिवः' च 'जनित्रात्' याग-
द्वारेण उत्पादकाद्दशापवित्रात् 'अधः क्षरन्तीः' क्षरन्त्यः 'आपः' सोमर-
सात्मिकाः 'विदुः' अस्मदीयां मनीषां जानन्तु तदर्थं 'शृण्वन्तु' हे
'सोम' त्वं 'इह' अस्मिन् कर्मणि 'उद्गाय' उद्गानं कृत्वा उरुधारया
पूयमानस्य सोमस्य शब्द उद्गीथत्वेन स्तूयते । श्रूयते हि 'एष वै
सोमस्योद्गीथो यत्पवन इति' । यदुद्गातृत्वं त्वया कृतं तत्र 'मम' उद्गातु-
रायुर्वृद्ध्यर्थं सम्पद्यते । तथा 'मम' ब्रह्मवर्चसार्थं सम्पद्यते । तथा यज-
मानस्य धनधान्यादिसमृद्ध्यै सम्पद्यते । 'अमुष्य राज्याय' अमुष्य राज्ञो
राज्याय अमुष्येत्यस्य स्थाने तस्य राज्ञो नाम निर्देष्टव्यम् । तत्र बुद्ध्य-
न्यतरस्यां सोमस्य राज्ञो राज्यायेति इत्येव निर्देष्टव्यमिति सिद्धान्ति-
तत्वात् सूत्रकार आह 'अमुष्य राज्यायेति' प्रियं४राजानमादिशेद्राज्ञो
राज्यायेति वा सोमस्येत्येवं ब्रूयात्सोमराजानो हि ब्राह्मणा इति। क्षत्रिय-
वैश्ययोरपि दीक्षया ब्राह्मणत्वात् सोमस्येत्येव तयोरपि निर्देशः ।
'ब्राह्मणो वा एष जायते यो दीक्षित' इति श्रुतेर्ब्राह्मणत्वमवसीयते । अत
एव सूत्रान्तरं 'तस्माद्राजन्यवैश्यावपि ब्राह्मण इत्येवावेदयती'ति॥९॥१॥
इति द्वितीयखण्डः ।

प्रथमाध्याये तृतीयखण्डः । १५
अथ तृतीयः खण्डः ।
द्राह्मायणः—'अध्वर्युणा हुते प्रवृत्तहोमौ जुहुयुर्गत्यानुपूर्व्येण बेकुरा-
णामासि सूर्योमेती'ति । अध्वर्युणा वै एषु होमेषु हुतेषूद्गातारस्त्र-
योऽपि प्रवृत्तहोमौ जुहुयुः । प्रस्तोता प्रथमं ततः उद्गाता ततः प्रतिहर्त्तेति
एवं प्रसर्पणक्रमेण जुहुयुः प्रथममन्त्रो वाग्देवतयः । तत् पाठस्तु—
बेकु॑रानामासि॒ जुष्टा॑ दे॒वेभ्यो॒ नमो॑ वा॒चे नमो॑ वाच-
स्पत॑ये देवि वाग्यत्ते॑ वा॒चो मधु॑मत्तस्मिन्माधाः सर॑स्व-
त्यै स्वाहा॑ ॥ १ ॥
हे सरस्वति ! त्वं 'वेकुरा' विकिर्थ्याप्तिकर्मा नामशब्दः प्रसिद्धौ
सर्वत्र व्यापनात् वेकुरेति प्रसिद्धा भवसि । 'देवेभ्यः' तेषामर्थाय
'जुष्टा' स्तोतृभिः स्तुता 'असि', तस्यै 'वाचे' वाग्देवतायै 'नमः'
अस्तु 'वाचस्पतये' ब्रह्मणे 'नमः' अस्तु । हे 'देवि' ! द्योतमाने हे
वाग्देवते ! 'ते' तव 'वाचः' शब्दराशेः 'यत् मधुमत्' अतिशयेन
माधुर्योपेतं वस्त्विति तत् 'तस्मिन्' 'माधाः' निधेहि स्थापय तस्यै
'सरस्वत्यै' 'स्वाहा' इदं हविस्त्यजामि । स्वाहेति हविस्त्यागार्थो
निपातः ॥ १ ॥
द्वितीयमन्त्रपाठस्तु—
सूर्यो॑ मा दि॒व्याभ्यो॒ नाष्ट्राभ्यः॑ पातु वा॒युर॒न्तरि॑क्षा-
भ्यो॒ ऽग्निः पार्थि॑वाभ्यः॒ स्वाहा॑ ॥ २ ॥
'सूर्यः' सर्वस्य प्रेरको द्युस्थानो देवः 'मा' मां 'दिव्याभ्यः' दिवि
भवाभ्यः 'नाष्ट्राभ्यः' नाशकारिभ्यो रक्षोजातिभ्यः 'पातु' 'वायुः'
अन्तरिक्षस्थानः 'अन्तरिक्षाभ्यः' तत्रोत्पन्नाभ्यः नाष्ट्राभ्यः पातु ।
तथा 'अग्निः' भूस्थानः 'पार्थिवाभ्यः' नाष्ट्राभ्यः पातु 'स्वाहा' । तेभ्यः
सूर्यादिभ्यो हविस्त्यजामि ॥ २ ॥
द्राह्मायणः 'सव्यैः पाणिभिः पृथग्दक्षिणा तृणानि निरस्येयुर्योद्य
सौम्य इती'ति । बहिष्पवमानस्तोत्रार्थं अध्वर्युमनुचात्वालसमीपे
प्रसर्पन्तस्त्रयोऽपि स्वकीयैर्वामहस्तैर्मार्गस्थितानि तृणानि दक्षिणस्या
दिशि निरस्येयुः । दक्षिणेस्तृणैरन्वारम्भविधानात् सव्यैरित्युक्तम् ।
पाठस्तु--
योऽद्य सौम्यो वधो॑घा॒यूनामुदी॑रते वि॒ष्वूकु॑हस्य
धन्व॑न्नाप॒ तान् वरु॑णोऽपधमत् ॥ ३ ॥

योगः । तत्पाठस्तु—`
Wait, "स्तोमयोगः": स्तो म यो गः
Yes, "स्तोमयोगः । तत्पाठस्तु—".

Line 22:
अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्य्यस्य वर्च्चसा बृहस्प-
Wait, let's look at "अग्नेस्तेजसेन्द्रस्येन्द्रियेण":
अग्नेस्तेजसेन्द्रस्येन्द्रियेण - is there a space between तेज and सेन्द्र?
Look at line 22:
"अग्नेस्तेज" then a distinct small gap, then "सेन्द्रस्येन्द्रियेण"?
Wait! Let's measure the gap:
अग्नेस्तेज [gap] सेन्द्रस्येन्द्रियेण
Wait, the gap is because of the justification, but look at the shirorekha (top line):
Is the shirorekha broken between तेज and सेन्द्र?
Yes, the shirorekha is broken!
Wait, why is it broken?
"अग्नेस्तेज" has its own bar, and "सेन्द्रस्येन्द्रियेण" has its own bar!
Wait, let's look at the text:
In the mantra: "अग्नेस्तेजसा। इन्द्रस्येन्द्रियेण..."
Wait! The mantra is:
"अग्नेस्तेजसा इन्द्रस्येन्द्रियेण..."?
Wait, what is printed in line 22?
अ-ग-्-न-

प्रथमाध्याये तृतीयखण्डः । १७

वर्चसा युनक्तीत्यस्याप्युपलक्षणम् । 'यजमानस्य कामाः' काम्यमानाः
आशिषः 'सत्याः' 'सन्तु' यथार्था भवन्तु ॥ ५ ॥
द्राह्मायणः 'अन्नङ्करिष्यामीति जपेदिति स्तोमयोगादूर्द्धमेतस्य म-
न्त्रस्य जपः । पाठस्तु--
अन्नं करिष्याम्यन्नं प्रवेक्ष्याम्यन्नञ्जनयिष्यामि ॥ ६ ॥
अनेन स्तोत्रेणाहमुद्गाता बहुप्राण्युपकाराय प्रसूतं 'अन्नं करिष्या-
मि' तच्च 'अन्नं प्रवेक्ष्यामि' भूतिः समृद्धिःसमृद्धं करिष्यामि।तत् 'अन्न-
ञ्जनयिष्यामि' जनने व्रीह्यादिरूपेण पुनः पुनः प्ररोहणे हेतुत्वेन करि-
ष्यामि ॥ ६ ॥
द्राह्मायणः- 'अन्नमकरमिति स्तुत्वा जपेत्' । बहिष्पवमानस्तोत्रादूर्-
द्धं अयं जपः । पाठस्तु--
अन्नमकरमन्नमभूदन्नमजीजनम् ॥ ७ ॥
स्तोत्रसामर्थ्यमन्नसमृद्धेर्निश्चितत्वादभूतार्थप्रयोगः ॥ ७ ॥
द्राह्मायणः-'श्येनोसीति प्रस्तरे यजमानं वाचयेदिति' । प्रस्तरे प्र-
स्तरे स्पर्शं कारयित्वेति शेषः । पाठस्तु -
श्येनोऽसि गायत्रच्छन्दा अनु त्वारभे स्वस्ति मा
सम्पारय।मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेम-
हि भक्षीमहि प्रजामिषम् ॥ ८ ॥
हे बहिष्पवमान ! त्वं गायत्र्याख्यं छन्दो विशिष्टः सन् 'श्येनः' श्ये-
नाख्यपक्षिसदृशः 'असि' तथा प्रबलोसीत्यर्थः । 'त्वा' तथाविधं त्वां
'अन्वारभे' आनुकूल्येन स्पृशामि 'स्वस्ति' क्षेमो विघ्नाभावरूपो यथा
भवति तथा 'मा'मां 'सम्पारय' सम्यग्यज्ञस्य पारन्नय 'स्तोत्रस्य' बहिष्प-
वमानरूपस्य यतः स्तोत्रमात्रमाज्यपृष्ठादिकमन्तरभावित्वेन सम्बद्धम-
स्ति।यद्वा 'स्तोत्रस्य स्तोत्रं' प्रशस्तं स्तोत्रं बहिष्पवमानादिकं तन्मा 'माग-
म्यात् 'आगच्छतु 'इन्द्रवन्तः' बहिष्पवमानदेवतारूपेणेन्द्रेण तद्वन्तो वयं
'वनेमहि' सर्वाः स्तोत्रदेवता सम्भजेमहि । तत्प्रसादात् 'प्रजां' पुत्रादि-
रूपां 'इषं' इष्यमाणमन्नं च 'भक्षीमहि' न तु भजेमहि ॥ ८ ॥
द्राह्मायणः-'संवर्चसेतीक्षकान् सहकारिणश्च प्रेक्षमाणो जपे'दिति ।
स्तोत्रप्रयोगं द्रष्टुमागता ईक्षकाः प्रस्तोत्रादयः उपगातारः सहकारि-
णस्तान् सर्वान् प्रेक्ष्यमाण उद्गाता संवर्चसेति मन्त्रं जपेत् । पाठस्तु-
संवर्चसा पयसा सन्तपोभिरगन्महि मनसा सं०

‘वर्चोधाः’ च वर्चसस्तेजसो धारयिता ‘असि’ अतो मयि
उद्गातरि ‘वर्चः’ तेजः ‘धेहि’ निधेहि ॥ १० ॥
इति तृतीयखण्डः ।

Everything matches line-by-line precisely. Perfect.१८ ताण्ड्यमहाब्राह्मणे
शिवेन संविज्ञानेन मनसश्च सत्यैर्यथा वोऽहं चारुतमं
वदानीन्द्रो वो दृशे भूयासꣳ सूर्य्यश्चक्षुषे वातः प्राणाय
सोमो गन्धाय ब्रह्म क्षत्राय ॥ ९ ॥
हे ईक्षकाः प्रस्तोत्रादय उपगातारश्च ! ‘वर्चसा’ ब्रह्मवर्चसेन ‘समग-
न्महि’ वयं सङ्गता अभूम, तथा ‘पयसा’दक्षिणारूपाणां गवां हि क्षीरेण
समगन्महि । तथा कर्मानुष्ठानरूपै‘स्तपोभिः’ समगन्महि । तथा ‘शि-
वेन’ मङ्गलेन आस्तिक्ययुक्तेन समगन्महि । तथा ‘मनसा’ सम्बन्धिभिः
सत्यैर्यथार्थभूतैः संकल्पैश्च । किञ्च ‘यथा वः’ युष्माकं

", then space, "उदङ्मुखस्तु-".
Line 21:
"थो नभोऽसंमृष्ट इति।" - wait, does it have an avagraha?
"थो नभोऽसंमृष्ट इति।"
Yes, नभोऽसंमृष्ट!

Line 22:
"शामित्रं स्तुत्यादिभिर्मन्त्रैर्यथाक्रममुपतिष्ठेरन्। पाठस्तु—"
Line 23:
"तुथोऽसि जनधायो नभोऽसि प्रतक्वाऽसंमृष्टोऽसि हव्य-"
Line 24:
"सूदनः ॥ ३ ॥"

Line 25:
"हे आस्तावदेश ! त्वं 'जनधायः' जनानां धारकः 'तुथः' तुदतेर्वधक-"
Line 26:
"र्मणस्तुथः रक्षःप्रभृतीनां हन्ता। यद्वा तु क्षिप्रं थर्वति गच्छति देवानिति"
Line 27:
"तुथः थर्वतिर्गतिकर्मा एतत्संज्ञोऽसि। हे चत्वाल ! त्वं 'नभः' चात्वाला-"
Line 28:
"दुत्तरवेद्यादिकान् धिष्ण्यानुपयन्ति तेन गतमृत्तिकात्वादवकाशरूप-"
Line 29:
"त्वेनान्तरिक्षमसि, 'प्रतक्वा' प्रकर्षेण

धिष्ण्यान् प्रविशन्नसि तकतिर्गतिकर्मा। हे शामित्रदेश ! त्वं 'हव्यसू-
दनः' हव्यानां हविषां हृदयाद्यङ्गानां सूडकः अत एव 'असंमृष्टः' हविः-
संस्कारत्वेन स्वत एव शुद्धत्वात् संमार्जनसंस्कारनिरपेक्षोसि ॥ ३ ॥
द्राह्मायणः-'विभुरसीत्याग्नीध्रीयमुपतिष्ठेरन्' । पाठस्तु—
विभुरसि प्रवाहणः ॥ ४ ॥
हे आग्नीध्रीय ! त्वं 'विभुः' वि भविता होत्रीयादिधिष्ण्यप्राप्त्या वि-
भूतिमानसि । आग्नीध्रीयादिधिष्ण्येष्वग्नयो विधीयन्ते 'आग्नीध्रीया-
द्धिष्ण्यानग्नीर्हरतीति' श्रुत्यन्तरम् । अत एव 'प्रवाहणः प्रकर्षेण वोढा
तैर्यज्ञस्य वा धारकोऽसि ॥ ४ ॥
अत्र सूत्रम्-'पूर्वस्याꣳसदसो द्वारि प्रत्यङ्मुखास्तिष्ठन्तो वहिरिति
होतुर्धिष्ण्यमिति उपतिष्ठेरन्निति शेषः ।
वहिरासि हव्यवाहनः ॥ ५ ॥
इति पाठः ।
हे होत्रीय ! 'वहि'र्वोढासि, एतदेव विवृणोति 'हव्यवाहनो' हविषां
चरुपुरोडाशसोमानां वोढासि होत्रीयसमीपेऽवस्थितस्य होतुर्वषट्का-
रेण हि सर्वाणि हवींꣳषि हूयन्ते ॥ ५ ॥
अत्रम्-सूत्रं 'श्वात्र इति मैत्रावरुणस्येम् ति' ।
श्वात्रोसि प्रचेताः ॥ ६ ॥
इति पाठः ।
हे मैत्रावरुणधिष्ण्य ! त्वं 'प्रचेताः' प्रकृष्टज्ञानोसि मित्रावरुणो हि
तत्कर्म स्वमजानन् सर्वानृत्विजः स्वे स्वे कर्मणि प्रशास्ति ॥ ६ ॥
अत्र सूत्रम्-'तुथ उशिगङ्गारिरवस्युरिति ब्राह्मणाच्छंꣳसिप्रभृतीना-
मुदञ्च इति उदङ्मुखाः सन्तः तुथोसि विश्ववेदा इति ब्राह्मणांछंꣳसि
धिष्ण्यम्, उशिगसि कविः पोतुरिति होतुर्धिष्ण्यम्, अङ्गारिरसि बम्भा-
रिरिति नेष्टुः, अवस्युरसि दुवस्वानित्यच्छावाकस्य ।
तुथोसि विश्ववेदा उशिगसि कविरङ्गारिरसि ब-
म्भारिरवस्युरसि दुवस्वान् ॥ ७ ॥
अक्षरार्थस्तु हे ब्राह्मणाछंसि धिष्ण्य ! त्वं 'विश्ववेदाः' सर्वज्ञस्तुत्यना-
मकोसि, हे पोतृधिष्ण्य ! त्वं 'उशिक्' कमनीयः कविः कान्तदर्शी प्राज्ञो-
सि । हे नेष्टृधिष्ण्य ! त्वं अङ्गारिः आङ् अधेरुपस्पृष्टस्य घृक्षरणदीप्त्यो-

प्रथमाध्याये चतुर्थखण्डः । २१
रिति अस्य रूपमेतत् । आसमन्तात् दीप्तसंज्ञः सोमपालोसि । बं-
भारिरिति विभर्त्तेः रूपं बिम्भारि सर्वस्यातिशयेन भर्त्ता एतत्संज्ञः
सोमपालोसि । हे अच्छावाकधिष्ण्य ! त्वम् 'अवस्युः' अवो रक्षणं यज-
मानानामिच्छतीति अवस्युस्तादृशोसि।'दुवस्वान्' दुवः परिचरणं तद्वां-
श्चासि ॥ ७ ॥
अत्र सूत्रम्-'शुन्ध्युरसि मार्जालीय तत्रैव तिष्ठन्त' इति । सदसो
द्वार्येव तिष्ठन्तो दक्षिणाभिमुखा मार्जालीयमुपतिष्ठेरन् ।
शुन्ध्युरसि मार्जालीयः ॥ ८ ॥
इति पाठः ।
हे मार्जालीय ! त्वं 'शुन्ध्युः' शोधयिता एतन्नामकोसि अत एव
मार्जालीयभक्षितानां ग्रहचमसादीनां मार्जालत्वेन प्रक्षालितत्वाधि-
करणत्वेन शोधकोसि ॥ ८ ॥
अत्र सूत्रम्-'ऋतधामेत्यौदुम्बरीमिति' । सदसो द्वार्येव तिष्ठन्तः
प्रत्यङ्मुखा औदुम्बरीमुपतिष्ठेरन् ॥
ऋतधामासि स्वर्ज्योतिः ॥ ९ ॥
इति पाठः ।
हे औदुम्बरि ! त्वं 'ऋतधामा' ऋतं सत्यं यज्ञो वा धामावस्थानं
यस्याः सा ऋतधामा ईदृश्यसि । 'स्वर्ज्योतिः' उन्नतत्वेन स्वर्गस्य
प्रकाशिका भवसि ॥ ९ ॥
अत्र सूत्रम्-'समुद्र इति ब्रह्मसदनद्वार्येव तिष्ठन्तः' पाठस्तु—
समुद्रोसि विश्वव्यचाः ॥ १० ॥
हे ब्रह्मसदन ! त्वं 'समुद्रः' समुद्रवत् पूर्णोसि वेदत्रयोक्तैः मन्त्रैः
'विश्वव्यचाः' सर्व्वत्र व्याप्तोसि ॥ १० ॥
सूत्रम्'-उत्तरेण सदो गत्वाऽन्तर्वेदि प्रत्यङ्मुखास्तिष्ठन्तोऽहिरिति
प्रजहितमिति' । प्रजहितशब्देन पुराणो गार्हपत्योऽभिधीयते तमुप-
तिष्ठेरन् ।
अहिरसि बुध्न्यः ॥ ११ ॥
इति पाठः ।
'अहिरसि' हन्ता रक्षःप्रभृतीनां 'बुध्न्यो' बुध्ने मूले आदौ आधान
काल प्रथमजातोसि हे प्रजहित इति ॥ ११ ॥

२२ ताण्ड्यमहाब्राह्मणे

सूत्रम्–‘अज इति गार्हपत्यमिति’ । यः पुरातन आहवनीयः स इदा-
नीमौत्तरवेदिकप्रणयनादूर्ध्वं गार्हपत्यसंपन्नस्तमुपतिष्ठेरन्।
अजोस्येकपात् ॥ १२ ॥
हे नूतनगार्हपत्य ! त्वं ‘अजः’ गमनशीलः सन्नस्य ह्यग्निः उत्तरवेदिं
प्रति गच्छति । न तु प्रजहितेन सह तस्मादेकपादसि ॥ १२ ॥
तत्र सूत्रम्–‘सगरा इति दक्षिणाग्नेरायतनमिति’ । उपतिष्ठेरन् इति
शेषः । पाठस्तु—
सगरा असि बुध्न्यः ॥ १३ ॥
‘सगरा’ गरस। गरणेन हविर्भक्षणेन सहितः ‘बुध्न्यः’ मूले भव-
श्चासि । हे दक्षिणाग्न्याश्रयेति ॥ १३ ॥
सूत्रम्–‘कव्य इति दक्षिणवेद्यन्तमिति’ । महावेदेर्दक्षिणं पार्श्वं दक्षि-
णमुखा उपतिष्ठेरन् । पाठस्तु,—
कव्योसि कव्यवाहनः ॥ १४ ॥
हे वेदिदक्षिणपार्श्व ! त्वं ‘कव्योसि’ स्तुत्योसि तथा ‘कव्यवाहनः’
कव्यं पितृभ्यो देयं हविः तस्य वोढा चासि दक्षिणाभिमुखेन पित्र्यं हविः
प्रयुज्यते ॥ १४ ॥
अत्र सूत्रम्–‘तत्रैव तिष्ठन्तः सर्वान् समन्वीक्ष्यमाणः पातमेतीति’ ।
उपस्थितः सर्वानैव धिष्ण्यान् पुनः पुनः समीक्ष्यमाणाः पातमेति
संहत्योपतिष्ठेरन् । पाठस्तु—
पातमाग्नयो रौद्रेणानीकेन पिपृत मा नमो वोस्तु मा
मा हिᳪसिष्ट ॥ १५ ॥
उपस्थिताः हे ‘अग्नयो’ धिष्ण्येष्ववस्थिता ! युष्मदीयेन ‘रौद्रेण’
अस्मद्विरोधिविनाशकेन करेण ‘अनीकेन’ तेजसा ‘मा’ मां ‘पात’ रक्षत ।
तथा ‘मा पिपृत’ ममापेक्षितैर्भोगैः पूरयत । पृ पालनपूरणयोः । ‘वो’
युष्मभ्यं ‘नमोस्तु’ मां यूयं ‘माहिᳪसिष्ट’ । अथापरं विधानं आहवनीया-
दीन् धिष्ण्यान् स्वैः स्वैरुपस्थानमन्त्रैरुपस्थाय तदानीमेव तं तं धिष्ण्यं
समन्वीक्ष्यमाणाः पातमेति मन्त्रं ऊहेन एकवचनोपेतं कृत्वा ब्रूयुः ।
तत्रोच्यते हि एकैकमपस्थायैतद्ब्रूयुरिति शाण्डिल्यो बहुशब्दादेकव-
त्कुर्वन्त इति, तद्यथा–सूच्यते हि एकैकमपस्थाय पाहिमाग्ने रौद्रेणानी-
केन पिपृतमा नमस्तेस्तु मामाहिᳪसीरिति ॥ १५ । १ । ४ ॥
इति ताण्ड्यमहाब्राह्मणे प्रथमाध्यायस्य चतुर्थः खण्डः ।

त्र सूत्रम्-‘ऋतस्य द्वारौ स्थ इत्यपरौ द्वारबाहू संमृज्य मामा L3:सन्ताप्तमिति प्रविशेयुरिति’ । L4:ऋतस्य द्वारौ स्थो मा मा सन्ताप्तम् ॥ १ ॥ L5:हे सदसः पश्चाद्ये द्वारशाखे ऋतस्य यज्ञस्यैव द्वारबाहू भवथ युवा- L6:मतिक्रम्य प्रविशन्तं मा मां मा सन्ताप्तं सन्तापयुक्तं मा कुरुत ॥१०॥ L7:अत्र सूत्रम्-‘दक्षिणेनौडुम्बरीं गत्वा तस्या उत्तरत उपविशेयुः नमः L8:सखिभ्यः इतीति’ । पाठस्तु-- L9:नमः सखिभ्यः पूर्वसद्भ्यो नमो परसद्भ्यः ॥ २ ॥ L10:ये सखाय ऋत्विजः पूर्वदेशे सीदन्ति उपविशन्ति ये वा परदेशे L11:सीदन्ति । यद्वा उद्गातृसर्पणात्पूर्वं ये सदस्या उपविशन्ति ये चोत्तरकालं L12:तेभ्यो द्विविधेभ्यः प्रत्येकं नमोऽस्तु ॥ २ ॥ L13:अत्र सूत्रम्--’दक्षिणमनुबाहुं दण्डं कृत्वा

२४ ताण्ड्यमहाब्राह्मणे
दृशोऽहं 'सर्वगणः' सर्वैः पुत्रभृत्यादिगणैः ऋत्विग्गणैर्वोपेतः 'उपहूतः'
अन्यैर्ऋत्विग्भिरनुज्ञातः ॥ ४ ॥
अत्र सूत्रम्-'ऊर्ध्व इति मुख्यान् प्राणानभिमृशेतेति' । भक्षणानन्तरं
ऊर्ध्वः सप्त ऋषीनिति सप्तमुख्यान् प्राणान् चक्षुषी नासिके श्रोत्रे मुखं
चाभिमृशेत् । पाठस्तु--
ऊर्ध्वस्सप्त ऋषीनुपतिष्ठस्वेन्द्रपीतो वाचस्पते सप्तर्त्वि-
जोऽभ्युच्छ्रयस्व जुषस्व लोकम्माऽर्वागवगाः ॥ ५ ॥
हे भक्षितसोम ! त्वं 'ऊर्ध्वः' शिरोभागं प्राप्तः सन् 'सप्तऋषीन्'
सप्तसंख्यैतच्छिद्रवर्त्तिनः चक्षुरादीन्द्रियरूपान् 'उपतिष्ठस्व' प्राप्नु-
हि । तानाप्याययितुं दर्शनसाधनत्वादेषामृषित्वम्, ऋषिर्दर्शनादि-
ति हि निरुक्तम् । यद्वा गौतमादिकृषिरूपेण मुखावस्थितच्छिद्राणां
मुखस्थत्वादृषित्वम् । एतच्च बृहदारण्यके 'तस्याः सप्त ऋषयः सप्तती-
रे इति मन्त्रेणेमावेव गोतमभरद्वाजाविति' ब्राह्मणेन स्पष्टीकृता । हे 'वा-
चस्पते' मदीयस्तोत्ररूपाया वाचः पालक सोम ! त्वं इन्द्रदेवतया पीतः
सन् 'सप्तर्त्विजो' होतृप्रभृतीनमभिलक्ष्य 'उच्छ्रयस्व' तानाप्याययितुमु-
च्छ्रितो भव । ततो 'लोकं' स्थानं स्वकीयजठरलक्षणं 'जुषस्व' सेवस्व
'अर्वाक' अर्वाचीनः सन् 'मा' मां 'अवगाः' नाभेरधो न गच्छेः । 'शिवो
मे सप्त ऋषीनुपतिष्ठस्व मा मेवार्वाङनभिमातिगा' इति हि निग-
मान्तरम् ॥ ५ ॥
अत्र सूत्रम्-'सोम रारंधीति हृदयमिति । अभिमृशेदित्यनुषङ्गः ।
सोमरारन्धि नो हृदि पिता नोसि मम तन्मा मा-
हिꣳसीः ॥ ६ ॥
हे सोम ! 'नो' अस्माकं 'हृदि' हृदये 'रारन्धि' रमस्व । हे भगवन्! ऐ-
श्वर्यादिगुणविशिष्ट ! त्वं नो अस्माकं 'पिता' पालयितासि 'मां' उद्गातारं
'माहिꣳसीः' वमनरेचनरूपां हिंसां माकार्षीरित्यर्थः ॥ ६ ॥
अत्र सूत्रम्-'सोमगीर्भिरिति नाभिमिति'अभिमृशेदित्यनुषङ्गः । पाठस्तु-
सोम गीर्भिष्ट्वा वयं वर्द्धयामो वाचोविदः सुमृडी-
को न आविश ॥ ७ ॥
हे सोम ! 'वाचोविदः' मन्त्राभिज्ञा वयमुद्गातारः 'गीर्भिः' स्तुतिभिः
'त्वा' त्वां 'वर्द्धयामः' अभिवृद्धं कुर्मः । त्वञ्च 'सुमृडीकः' सुखकरो
भूत्वा 'नो' अस्मान् 'आविश' ॥ ७ ॥

प्रथमाध्याये पञ्चमखण्डः । २५
‘तं स आप्याययेदभिमृश्याप्यायस्वेत्येतया गायत्र्येति’ । यः प्रति-
हर्त्ता पश्चाद्भक्षयत सः तञ्चमसमभिमृश्याप्याययेत् द्रोणकलशात्
सोमरसमादाय तेन वर्द्धनमाप्यायनं मन्त्रेणाभिमर्शनमात्रं वा ।
पाठस्तु--
आप्याय॑स्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् । भवा॒
वाज॑स्य सङ्ग॒थे ॥ ८ ॥
हे सोम ! त्वं ‘आप्यायस्व’ वर्द्धस्व ‘ते’ तव ‘वृष्ण्यं’ सेचनसम-
र्थं बलं ‘विश्वतः’ सर्वतः सर्वाभ्यो दिग्भ्यः ‘समेतु’ सम्यक् प्राप्नोतु ।
त्वं च अस्माकं ‘वाजस्य’ अन्नस्य बलस्य वा ‘सङ्गथे’ सङ्गमे हेतुर्भव ॥८॥
अत्र सूत्रम्-‘तेषामनवेक्ष्य भक्षणमवमैरिति’ । प्रातःसवन ऊर्वैरिति
माध्यन्दिने काव्यैरिति तृतीयसवने पितृभिरिति सर्वत्रानुसंहरेदिति ।
नाराशꣳसाभिधचमसान् प्रकृत्य तच्छब्दः प्रयुज्यते । यथेतरचमसभ-
क्षणं ‘श्येनो नृचक्षा’ इत्यनेन मन्त्रेणावेक्ष्य पश्चात्क्रियते, न तथा तेषा-
न्नाराशꣳसचमसानां किन्त्वनवेक्ष्यैव भक्षणं अवमैरित्यादिभिस्त्रिभि-
र्मन्त्रैस्त्रिषु सवनेषु नाराशꣳसभक्षणं, न पुनः इन्दविन्द्रपीतस्येति । त्रि-
ष्वपि मन्त्रेषु पितृभिरित्यादिवाक्यशेषोऽनुषज्यते । पाठस्तु--
अवमैस्त ऊर्वैस्ते काव्यैस्ते पितृभिर्भक्षितस्य मधु-
मतो नाराशꣳसस्य सर्वगणस्य सर्वगण उपहूत उपहू-
तस्य भक्षयामि ॥ ९ ॥
त्रिविधाः पितरः अवमा ऊर्वाः काव्याश्चेति । एते अनुसवनं नारा-
शंसदेवताः । हे सोम ! ‘अवमैः’ अवतेरौणादिकोऽयमच्प्रत्ययः, रक्षकैः
एतत्संज्ञकैः ‘पितृभिः’ प्रातःसवने ‘भक्षितस्य’ ‘ते’ तव ‘मधुमतो’ माधु-
मता माधुर्योपेतस्य ‘नाराशंसस्य’ नरैः सन्तानभूतैः शस्यन्त इति
नाराशंसाः पितरः तत्सम्बन्धाच्चमसो नाराशंसः तस्य किञ्चिदङ्गं
‘भक्षयामि’ । सर्वगणस्येत्यादि पूर्ववत् । एवं ऊर्वैस्ते काव्यैस्त इति
मन्त्रयोर्योजना । उर्वी पृथिवी तस्यां सञ्चरन्तः ऊर्वाः काव्या स्तुत्यर्थाः
एतत्संज्ञकैः पितृभिः भक्षितस्येत्येतावान् विशेषः ॥ ९ ॥
अत्र सूत्रम्-‘तथैव जङ्घामुपहत्य युञ्ज्यात् स्तोमं दीक्षायै तपसो मन-
सो वाच इती’ति । यथा पुरा प्रस्तरेण स्वकीयां जङ्घामुपस्पृश्य स्तोमो
युक्तः तथैवेदानीमपि स्तोमयोगमुपकरणदर्भाभ्यां जङ्घास्पर्शोऽत्र वि-
शेषः । पाठस्तु--
३