ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 32, कुल 518 में से
संदर्भ में पढ़ें१२ ताण्ड्यमहाब्राह्मणे
कलशाभिमर्शनमन्त्रेऽवगम्यते । तथा चाध्वर्युशाखायामाम्नायते-
‘उपयामगृहीतोसि प्रजापतये वेति द्रोणकलशमभिमृशेदिति’ । प्राजा-
पत्यो ह्येष देवतया यत् द्रोणकलश इति ब्राह्मणम् । ‘प्रजापतेर्मू-
र्द्धाऽसि’ अस्य तन्मूर्द्धत्वं ब्राह्मणे समाम्नातम् । प्रजापतिरकामयत
बहुस्यां प्रजायेयेति सोऽशोचत्तस्य शोचत आदित्यो मूर्द्धनोऽसृज्यत
सोस्य मूर्द्धानमुदहरन् स द्रोणकलशोऽभवत् इति, अन्योऽर्थो बाहुल्ये-
नागच्छति सोमोस्मिन्द्रोणकलशपात्रे ततस्त्वं ‘अत्यायु’ नाम्नाभिधेयं
‘पात्रमसि’ ‘इदं’ सर्वेषां प्रत्यक्षं यथा ‘अहं’ उद्गाता इमं द्रोणकलसं
‘प्राञ्चं’ पूर्वदिग्गामिनं तन्वा ‘प्रोहामि’ । तच्च प्रोहणं मम ‘तेजसे’
शारीरकान्तये ‘ब्रह्मवर्चसाय’ श्रुताध्ययनसम्पत्तये च भवतु ॥ ४ ॥
द्राह्यायणः-‘तानभिमृश्य जपेयुर्मरुत इती’ति । अभिषवसाधनभूता
ग्रावाण उद्गात्रादिभिरेकत्र योजितत्वेन प्राक्तनत्वात्तच्छब्देन परामृश्यन्ते ।
तान् ग्रावाणो हस्तैरभिमृश्योद्गात्रादयो ‘मरुत’ इत्यादिकं मन्त्रं जपेयुः ।
पाठस्तु—
मरुतो नपातोऽपङ्क्षयाः पर्वतानाङ्ककुभः श्येना
अजिरा इन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं
युक्तास्थ वहत ॥ ५ ॥
हे ग्रावाणः ! यूयं मरुद्बलात् ‘नपातः’ न पतीति नपात् तस्य
बहुवचनं नपात इति । यथा वृक्षगतपर्णादीनि वायुबलेन पात्यन्ते न
तथा ग्रावाणः । यद्वा मरुतो मितराविणः नपातो यज्ञस्य नपातयितारो
रक्षकाः । ‘अपां’ जलानां क्षयाः निवासस्थानभूताः नदीमध्ये घर्मकालेपि
तत्र पाषाणानां सन्धिषु जलन्निवसति । तथा ‘पर्वतानाङ्ककुभः’शृङ्गभूताः,
ककुभं शृङ्गे विन्दुः प्रधानेपि च निघण्टे । ‘श्येनाः’ एतन्नामकपक्षि-
सदृशाः शंसनीयगमनाद्वा । ‘अजिराः’ क्षिप्रनामैतत् क्षिप्रगमना, ‘इन्द्रं’
‘वहत’ उक्तलक्षणा यूयं सोमयागार्थमिन्द्रमाह्वयत, केन साधनेन ‘वग्नुना’
वचनेन वाक्यसदृशेन ध्वनिनेत्यर्थः । ग्रावाणां सोमाभिषवध्वनिं श्रुत्वा
इन्द्र आहूत इव शीघ्रमागच्छति । घोषेण भवदीयेनोग्रध्वनिना
‘अमीवान्’ रोगवदुपद्रवकारिणोऽसुरान् ‘चातयध्वं’ पराभूतान् कुरुध्वम्,
अत एव तैत्तिरीया आमनान्ति-‘श्रद्धा देवस्य यजमानस्यासुरघ्नीवाऋतुः
यज्ञायुषेषु प्रविष्टासीत्, तेसुरायादन्तो यज्ञायुधानामुद्वहतामुपाशृण्वन्
ते पराभवन्निति’ ‘युक्तास्थ वहत’ इन्द्रमाहूयासुरांश्च पराभाव्य ततो
द्रोणकलशं वोढुम्परस्परं संयुक्ता भवत संयुज्य च कलशं वहत ॥ ५ ॥