सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 30, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 30

१० ताण्ड्यमहाब्राह्मणे .
विशन्त 'इष ऊर्ज' इति मन्त्रं जपेयुः । पाठस्तु--
इष ऊर्ज॒ आयु॑षे वर्च॑से च ॥ ९ ॥ १ ॥ १ ॥
इडन्नम्, ऊर्ग्रसः क्षीराज्यादिः, आयुः प्रसिद्धं, वर्चो वेदशास्त्राणि
विज्ञतृत्वं रूपं ब्रह्मवर्चसं, चकारात् पुत्रपौत्रादयः, सर्वसम्पत्त्यर्थं
हविर्द्धानं प्रविशामीति शेषः ॥ ९ ॥ १ ॥ १ ॥
इति ताण्ड्यब्राह्मणे प्रथमाध्यायस्य प्रथमखण्डः ।
अथ द्वितीयः खण्डः ।
द्राह्मायणः 'अन्तरेणेषे बाहूनवहृत्य पार्ष्णीरनुद्यच्छन्तो युनज्मी-
ति राजानमभिमृशेयुः प्रातःसवनीयाविभक्तश्चेत् सर्वन्न चेत्प्राप्नुयु-
र्देशेनैवेति । हविर्द्धानमण्डपे दक्षिणशकटस्याधस्तात् पश्चिमभागे-
ऽभिषवार्थं सोमोवस्थापितो वर्त्तते । तं सोमं हस्तैः स्पृष्ट