ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 43, कुल 518 में से
संदर्भ में पढ़ेंत्र सूत्रम्-‘ऋतस्य द्वारौ स्थ इत्यपरौ द्वारबाहू संमृज्य मामा L3:सन्ताप्तमिति प्रविशेयुरिति’ । L4:ऋतस्य द्वारौ स्थो मा मा सन्ताप्तम् ॥ १ ॥ L5:हे सदसः पश्चाद्ये द्वारशाखे ऋतस्य यज्ञस्यैव द्वारबाहू भवथ युवा- L6:मतिक्रम्य प्रविशन्तं मा मां मा सन्ताप्तं सन्तापयुक्तं मा कुरुत ॥१०॥ L7:अत्र सूत्रम्-‘दक्षिणेनौडुम्बरीं गत्वा तस्या उत्तरत उपविशेयुः नमः L8:सखिभ्यः इतीति’ । पाठस्तु-- L9:नमः सखिभ्यः पूर्वसद्भ्यो नमो परसद्भ्यः ॥ २ ॥ L10:ये सखाय ऋत्विजः पूर्वदेशे सीदन्ति उपविशन्ति ये वा परदेशे L11:सीदन्ति । यद्वा उद्गातृसर्पणात्पूर्वं ये सदस्या उपविशन्ति ये चोत्तरकालं L12:तेभ्यो द्विविधेभ्यः प्रत्येकं नमोऽस्तु ॥ २ ॥ L13:अत्र सूत्रम्--’दक्षिणमनुबाहुं दण्डं कृत्वा