ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 28, कुल 518 में से
संदर्भ में पढ़ें८ ताण्ड्यमहाब्राह्मणे
अत्रापि पूर्ववत् क्रतुसङ्ग्रहः—
क्रीत्वा सोमं रथे क्षिप्त्वा प्राग्वंशाग्रे समानयेत् ।
आतिथ्यां निर्वपेत्सोममासंद्यामुपसादयेत् ॥
आतिथ्येष्टिरिडान्ता स्यात्तानूनपत्रमवद्यति ।
दीक्षामवान्तरामेति प्रवर्ग्योपसदोः कृतिः ॥
दिनत्रये तत्कृतं स्याद्वेदिर्मध्यन्दिने भवेत् ।
षट्त्रिंशत्पददीर्घैषा प्राग्वंशात् पूर्वतः स्थिता ॥
प्रातः प्रवर्ग्यमुद्वास्य पश्चादुत्तरवेदितः ।
शकटे द्वे हविर्द्धाने हविर्द्धानंश्च मण्डपम् ॥
पश्चात्सदस्तस्य मध्ये निखातौदुम्बरी मिता ।
दक्षिणस्यानसोऽधस्तात् गर्त्तानूपरवान् खनेत् ॥
विधाय फलकाभ्यान्तानग्रे कुर्यात् मृदा खरम् ।
निर्वपेद्धिष्ण्यगानग्नीषोमीयं पशुमाचरेत् ॥
प्रयुज्योचितपात्राणि दर्शवत्सर्वमाचरेत् ।
आज्यमासादिते वेद्या अन्ते यूपं समुच्छ्रयेत् ॥ इति ॥
पाठस्तु—
नृमण ऊर्द्धभरसं त्वोर्द्धभरा दृशेयम् ॥ ६ ॥
हे ‘नृमण’! नृषु यज्ञस्य नेतृषु यजमानेषु मनोऽनुग्रहबुद्धिर्यस्य विष्ण्वा-
त्मनो यूपस्य सोऽयं नृमणः एतादृशविष्णुरूपयूप ! ‘ऊर्द्धभरसं त्वा’ऊर्द्ध-
मुपरिभागेऽध्वर्युभिर्ब्रियमाणं त्वामहं ‘ऊर्द्धभराः’ सन् ‘दृशेयं’ अनुग्रा-
हकेण त्वया ऊर्द्धमुन्नतगुणोयमिति धार्य्यमाण ऊर्द्धभराः, दृशिधातोलिँ-
ङ्याशिषि अङ्िप्राप्ते तदपवादत्वेन दृशेरग्वक्तव्य इत्यक् । अङ्ि तु सति
ऋदृशोऽिङ्गुणः इति गुणः स्यात् ॥ ६ ॥
द्राह्मायणः—‘होता प्रातरनुवाकमनूच्याऽभूदुषा इति यदा ब्रूयादथ वेदि-
माक्रामेयुः मृदाशिथिरेती’ति । उपवसथदिवसस्य मध्यरात्रादूर्द्धं होता
प्रातरनुवाकं ब्रूते । तदाहाश्वलायनः—‘अथैतस्या रात्रिविवासकाले प्रा-
ग्वयसां प्रवादात्प्रातरनुवाकायामन्त्रितो वाग्यतस्तीर्थेन प्रपद्येत्यादि’ ।
अध्वर्युणामन्त्रितो होता प्रातरनुवाकमनूच्य तस्यावसानगता‘मभूदुषा’
इत्येतामृचं यदा ब्रूयात्तदानीमुद्गातृप्रस्तोतृप्रतिहर्त्तारो ‘मृदेति’ मन्त्रेण
वेदिमाक्रामेयुः । क्रतुसङ्ग्रहस्तु--
यूपस्योच्छ्रयणादूर्ध्वं समापय्य पशुं ततः ।
वैसर्जनानि हुत्वाऽग्निं सोमं ग्रावादि चानयेत् ॥