ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 29, कुल 518 में से
संदर्भ में पढ़ेंप्रथमाध्याये प्रथमखण्डः । ९
हविर्द्धाने स्थापयित्वा गृह्णीयाद्वसतीवरीः ।
प्रयुञ्ज्यात्सोमपात्राणि महारात्रे खरादिषु ॥
ग्रावस्तुत स्थापिते सोमे पक्षिणां ध्वनितः पुरा ।
स्यात्प्रातरनुवाकार्थमुपाकरणमादरात् ॥ इति ॥
वेद्याक्रमणमन्त्रपाठस्तु-
मृदा शिथिरा देवानां तीर्थं वेदिरसि मा मा हिंसीः ॥७॥
हे वेद्यात्मिके भूमि ! 'मृदा' यज्ञायुधेन खाता या मृत्तन्मया 'शिथिरा'
प्रशिथिलावयवा त्वं 'देवानां' उद्गात्रादीनामृत्विजां देवानामेव वा 'तीर्थं'
एव तरणस्थानं असि, तथा 'वेदिरसि' असुरैरपहतानां धनानां लम्भयि-
त्र्यसि । 'यत्तद्वित्तं वेद्यमसुराणां वेद्यमविन्दत तदेकं वेद्यैर्वेदित्व'मिति
श्रुत्यन्तरात् । उक्तलक्षणां त्वां अधितिष्ठन्तं 'मा मा हिंसीः' 'मा वाधस्व'॥७॥
द्राह्यायणः-'हविर्द्धानं प्रवेश्यमाना वसतीवरीरनुप्रविशेयुस्तस्य
रराट्यामालभ्य विष्णोः शिर इती'ति । अध्वर्युणा प्रातरनुवाक उपाकृते
प्रतिप्रस्थात्रा सवनीयपुरोडाशेष