सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 35, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 35

प्रथमाध्याये तृतीयखण्डः । १५
अथ तृतीयः खण्डः ।
द्राह्मायणः—'अध्वर्युणा हुते प्रवृत्तहोमौ जुहुयुर्गत्यानुपूर्व्येण बेकुरा-
णामासि सूर्योमेती'ति । अध्वर्युणा वै एषु होमेषु हुतेषूद्गातारस्त्र-
योऽपि प्रवृत्तहोमौ जुहुयुः । प्रस्तोता प्रथमं ततः उद्गाता ततः प्रतिहर्त्तेति
एवं प्रसर्पणक्रमेण जुहुयुः प्रथममन्त्रो वाग्देवतयः । तत् पाठस्तु—
बेकु॑रानामासि॒ जुष्टा॑ दे॒वेभ्यो॒ नमो॑ वा॒चे नमो॑ वाच-
स्पत॑ये देवि वाग्यत्ते॑ वा॒चो मधु॑मत्तस्मिन्माधाः सर॑स्व-
त्यै स्वाहा॑ ॥ १ ॥
हे सरस्वति ! त्वं 'वेकुरा' विकिर्थ्याप्तिकर्मा नामशब्दः प्रसिद्धौ
सर्वत्र व्यापनात् वेकुरेति प्रसिद्धा भवसि । 'देवेभ्यः' तेषामर्थाय
'जुष्टा' स्तोतृभिः स्तुता 'असि', तस्यै 'वाचे' वाग्देवतायै 'नमः'
अस्तु 'वाचस्पतये' ब्रह्मणे 'नमः' अस्तु । हे 'देवि' ! द्योतमाने हे
वाग्देवते ! 'ते' तव 'वाचः' शब्दराशेः 'यत् मधुमत्' अतिशयेन
माधुर्योपेतं वस्त्विति तत् 'तस्मिन्' 'माधाः' निधेहि स्थापय तस्यै
'सरस्वत्यै' 'स्वाहा' इदं हविस्त्यजामि । स्वाहेति हविस्त्यागार्थो
निपातः ॥ १ ॥
द्वितीयमन्त्रपाठस्तु—
सूर्यो॑ मा दि॒व्याभ्यो॒ नाष्ट्राभ्यः॑ पातु वा॒युर॒न्तरि॑क्षा-
भ्यो॒ ऽग्निः पार्थि॑वाभ्यः॒ स्वाहा॑ ॥ २ ॥
'सूर्यः' सर्वस्य प्रेरको द्युस्थानो देवः 'मा' मां 'दिव्याभ्यः' दिवि
भवाभ्यः 'नाष्ट्राभ्यः' नाशकारिभ्यो रक्षोजातिभ्यः 'पातु' 'वायुः'
अन्तरिक्षस्थानः 'अन्तरिक्षाभ्यः' तत्रोत्पन्नाभ्यः नाष्ट्राभ्यः पातु ।
तथा 'अग्निः' भूस्थानः 'पार्थिवाभ्यः' नाष्ट्राभ्यः पातु 'स्वाहा' । तेभ्यः
सूर्यादिभ्यो हविस्त्यजामि ॥ २ ॥
द्राह्मायणः 'सव्यैः पाणिभिः पृथग्दक्षिणा तृणानि निरस्येयुर्योद्य
सौम्य इती'ति । बहिष्पवमानस्तोत्रार्थं अध्वर्युमनुचात्वालसमीपे
प्रसर्पन्तस्त्रयोऽपि स्वकीयैर्वामहस्तैर्मार्गस्थितानि तृणानि दक्षिणस्या
दिशि निरस्येयुः । दक्षिणेस्तृणैरन्वारम्भविधानात् सव्यैरित्युक्तम् ।
पाठस्तु--
योऽद्य सौम्यो वधो॑घा॒यूनामुदी॑रते वि॒ष्वूकु॑हस्य
धन्व॑न्नाप॒ तान् वरु॑णोऽपधमत् ॥ ३ ॥