ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 27, कुल 518 में से
संदर्भ में पढ़ेंप्रथमाध्याये प्रथमखण्डः। ७
द्राह्मायणः-'दूरं व्रजित्वा विहाय दौष्कृत्यमिती'ति। यदि दूरमध्वानं
व्रजेत् तदानीमप्रयतदेशा तिक्रमणादिकमवर्जनीयं स्यात् ततो यत्कि-
ञ्चित् दुष्कृतमवश्यं भवेत् तच्छान्तये विहाय दौष्कृत्यमित्येवं
मन्त्रं जपेत् ।
विहाय दौष्कृत्यम् ॥ ३ ॥
दुष्कृतस्य भावः दौष्कृत्यं तद्विहाय मनसा परिहृत्य देवयजनं
गच्छामीति मन्त्रार्थः ॥ ३ ॥
द्राह्मायणः-'बद्धानामासीति पन्थानमापद्ये'ति । देवयजनस्य समी-
पवत्तिनं पन्थानमासाद्य बद्धेति मन्त्रं जपेत् ।
मन्त्रपाठस्तु-
बद्धानामासि सृतिः सोमसरणी सोमं गमेयम् ॥ ४ ॥
हे देवयजनमार्ग ! त्वं 'बद्धानामासि' नामाशब्दः प्रसिद्धः प्रसिद्धार्थः ।
बद स्थैर्ये इति धातो रन्येभ्योपि दृश्यन्ते इति वनिप् । बद्धा स्थिर
इतरस्माल्लौकिकान्मागाद्द्दढतर इति प्रसिद्धो भवति, स्थिरफलप्राप्ति-
हेतोर्यज्ञस्य साधनत्वात् । यद्वा बद्धेत्येषा देवयजनमार्गस्य वैदिकी संज्ञा
एतत्संज्ञो भवतीत्यर्थः । अथवा बवर्णस्य व्यत्ययेन यकारस्य स्थाने
वकारः । यद्वा नामेत्येव सूत्रं, तदाहापस्तम्बः,-'यद्वा देवयजनं प्रति
गन्ता एतत्संज्ञस्त्वमसि । 'सोमसरणी' सोमस्य प्राप्तिसाधनाभूता
'सृतिः' मार्गो भवसि । तया सृत्त्या 'सोमं' सोमयागं 'गमेयं' प्राप्नुयां,
गमिधातोर्लिंङ्याशिष्यङित्यङ् ॥ ४ ॥
द्राह्मायणः-'उत्तरवेद्यन्तमाक्रम्य दक्षिणमीक्षमाणः पितरोभूरि'ति ।
देवयजनं प्रविश्यमाणः महावेदिपार्श्वमाक्रम्य 'पितरोभूरिति' मन्त्रेण
पितॄनुपतिष्ठेत् । तथा चापस्तम्बः-'पितरोभूरिति दक्षिणावृत्तः
पितॄनुपतिष्ठेत' इति । मन्त्रपाठस्तु--
पितरो भूः पितरो भूः पितरो भूः ॥ ५ ॥
हे पितरः ! इयं 'भूः' दक्षिणवेद्यन्तलक्षणा भूमियुष्माकं निवासायेति
शेषः, कर्मसमाप्तिपर्यन्तमत्र निवसतॆति भावः । त्रिरुक्तिरादरातिश-
यद्योतनार्था, पितृपितामहप्रपितामहानां त्रित्वापेक्षया वा ॥ ५ ॥
द्राह्मायणः-'यूपमुच्छ्रीयमाणमनुमन्त्रयेरन्नृमणऊर्ध्वभरसं त्वेती'-
ति । अध्वर्युर्यूपं यदोच्छ्रयेत् तदानीमुद्गातारो नृमणं इत्यनुमन्त्रयेरन् ।