सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

४९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०१]
अत एव भगवतोक्तम्—
“ ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ” ॥ इति ।
तस्य पापक्षयस्य विषयवैराग्यं लिङ्गम् । एतच्च नैष्कर्म्यसिद्धावुक्तम्—
“ शोध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम् ” ॥ इति ।
श्रेयोमार्गेऽप्यभिहितम्—
“ ब्रह्मादिस्तम्बान्ते संसारेऽस्मिन्नसारताबुद्धिः ।
अन्तर्यामिणि देवे समर्पितस्वक्रियाविषिक्तिरियम् ” ॥ इति ।
विरक्तस्य विद्यायामरुचिकरे विघ्ने परिहृतेऽपि चित्तैकाग्र्यहेतोरुपासनस्य योगशब्दा-
भिधेयस्यान्तरायाः संभवन्ति । ते च पतञ्जलिना योगशास्त्रे सूत्रिताः— “ व्याधिस्त्या-
नसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपा योगा-
न्तरायाः ” इति । व्याधिः प्रसिद्धः । स्त्यानमकर्मण्यता चित्तस्य । चित्तं हि कदाचि-
त्तमोगुणबाहुल्येन व्यापारायोग्यं सन्मूढं भवति । उपास्यनिश्चयदार्ढ्यराहित्यं संशयः । उपा-
सनस्य कदाचिद्विस्मृतिः प्रमादः । पश्चात्करिष्यामीत्युपेक्षाऽऽलस्यम् । वैराग्यराहित्यम-
विरतिः । उपास्यवस्तुन्यन्यथा निश्चयो भ्रान्तिदर्शनम् । चित्तैकाग्र्यस्योत्तरोत्तराभिवृद्धि-
राहित्यमलब्धभूमिकत्वम् । कदाचिदुपासने प्रवृत्तिः कदाचित्यागदानादौ कदाचित्कृषिवा-
णिज्यादावित्येतादृगनवस्थितत्वम् ।
एतेषां योगान्तरायाणामुपशमनाय जप्यं मन्त्रमाह —
हरिः ॐ ।
शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒
इन्द्रो॒ बृह॒स्पति॑ः । शं नो॒ विष्णु॑रुरुक्र॒मः , इति ।
अह्नः प्राणवृत्तेश्चाभिमानी देवो मित्रो ३ नोऽस्माकं शं सुखहेतुर्भवतु । एवमुत्तरत्रापि
योज्यम् । रात्रेर्पानवृत्तेश्चाभिमानी वरुणः । चक्षुष आदित्यमण्डलस्य चाभिमान्यर्यमा ।
बाह्वोर्बलस्या(स्य चा)भिमानीन्द्रः । वाचि बुद्धौ चाभिमानी बृहस्पतिः । पादयोरभिमानी
विष्णुः स चोरुक्रमः । त्रिविक्रमावतारे विस्तीर्णपादोपेतत्वात् । अथवा प्राणादिष्ववय-
वेष्वभिमानिनां मित्रादीनामुक्तत्वादवयविनि कृत्स्नदेहेऽभिमानी विराट्पुरुषः परिशिष्यते ।
स चोरुक्रमशब्देनाभिधीयते । ब्रह्माण्डदेहोपेतत्वेन सर्वव्यापित्वमुरुक्रमत्वम् ।

१ क. घ. ङ. 'सू-शुद्धं' । २ क. ख. ग. ङ. 'भिक्तिम् । ३ ग. घ. मित्रः ।
तै. उ. शां० ।

[प्रपा० ७ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९१

इत्थमवयवेष्ववयविनि चाभिमानिनो देवा विघ्नपरिहारेण सुखहेतुतया प्रार्थिताः ।
अथ तेषां देवानामन्तर्यामित्वेन प्रेरकं यत्परं ब्रह्म तदेतन्नमस्क्रियते --
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒
ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दि-
ष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑-
मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तार॑म्, ॥ इति ।
यच्च ब्रह्म ज्ञानक्रियाशक्त्युपेतसूत्रात्मना वायुमूर्तिधारिणां सर्वेषां प्राणिनां विधा-
रकं भवति । “ वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः
सर्वाणि च भूतानि संदृब्धानि भवन्ति ” इति श्रुतेः । अतो वायुरपि नमस्क्रियते ।
तत्रान्तर्यामिणः शास्त्रानुमानाभ्यामेवावगम्यत्वेन परोक्षत्वान्नास्ति संबोधनम् । सूत्रा-
त्मना वायुरूपेण स्पर्शनिन्द्रियगम्यत्वात्संबोध्यते । अयमेवाभिप्रायस्त्वमेव प्रत्यक्ष-
मिति वाक्येन स्पष्टी क्रियते । यतो वायुपाधिकं ब्रह्म प्रत्यक्षयोग्यं ततो हे वायो

  • त्वामेव व्याकरिष्यमाणेषूपासनावाक्येषु साक्षात्कारयोग्यं ब्रह्म वदिष्यामि । सोपा-
    धिकं ब्रह्म तु येन येन प्रकारेणोपास्यते तेन तेन प्रकारेण चिराभ्यासे सति साक्षात्कर्तुं
    शक्यते । अत एव च्छान्दोगाः शाण्डिल्यविद्यायामामनन्ति -- “एतमितः प्रेत्याभि-
    संभविताऽस्मीति यस्य स्यादद्धा न विचिकित्साऽस्ति ” इति । अद्धा साक्षादित्यर्थः ।
    वाजसनेयिनोऽप्यामनन्ति -- “देवो भूत्वा देवानप्येति ” इति । इहैव जन्मनि
    साक्षात्कारो देवभावः । मरणादूर्ध्वं देवत्वापत्तिर्देवाप्ययः । अतो वक्ष्यमाणवाक्येषु
    नानृतं वदिष्यामि किंतु विद्यमानमेवार्थं प्रत्यक्षं ब्रह्मेत्येतादृशं वदिष्यामि । विवक्षितस्य
    विद्यमानार्थस्याऽऽदौ मनसा पर्यालोचनमृतवदनं पश्चाद्वचसोच्चारणं सत्यवदनमिति
    तयोर्विवेकः । यदुत्तरत्र वक्ष्यमाणं प्रत्यक्षं ब्रह्म तन्मां विद्यार्थिनं शिष्यं वक्तारमाचार्यं
    च विद्याग्रहणोपदेशसामर्थ्यप्रदानेनाप्युभौ पालयतु । अनयैव विवक्षया पुनरपि ‘ अवतु
    माम् । अवतु वक्तारम् ’ इत्याभिधीयते--
    इत्थं वायुरूपं प्रत्यक्षं ब्रह्म संप्राथ्र्यान्तर्यामिरूपं परोक्षं ब्रह्म तद्वाचकेन प्रणवेनानु-
    स्मृत्य विघ्नशान्तिरस्त्विति प्रार्थ्यते--
    ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ( १ ), ॥ इति ।

  • यद्यपि शान्तिवाक्ये त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामीत्येव वैदिकपाठ उपल-
    भ्यते तथाऽप्युपसंहारशान्तौ त्वामेव प्रत्यक्षं ब्रह्मावादिषमित्येव वैदिकपाठात्तदनुरोधा-
    च्छांकरभाष्येऽत्र चेतिकाराध्याहारेण लापनमकृत्वा त्वामेवेत्युद्दिश्यैवार्थकरणाच्च पुरात-
    नपाठस्त्वामेवेत्येवानुमीयते ।
    १ ख. वक्ष्यामि । २ ङ. ॰मिव ।
  • सत्यं व॑दिष्या॒मि पञ्च॑ च ॥
    इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
    प्रथमोऽनुवाकः ॥ १ ॥
    विघ्नाश्च त्रिविधाः । तत्र ज्वरशिरोव्यथादय आध्यात्मिकाः । देवाद्युपद्रवास्त आधि-
    दैविकाः । यक्षराक्षसाद्युपद्रवास्त आधिभौतिकाः । तेषां त्रयाणामुपशमनाय त्रिः शान्ति-
    शब्दः पठ्यते । प्रणवेनेश्वरानुस्मरणस्य विघ्नोपशमनार्थत्वं पतञ्जलिश्चतुर्भिः सूत्रैः सूत्र-
    यामास - " क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः " " तस्य वाचकः
    प्रणवः ' "तज्जपस्तदर्थभावनम् " "ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च" इति ।
    इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमे-
    श्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके
    सांहित्यामुपनिषदि प्रथमोऽनुवाकः ॥ १ ॥
    अथ सप्तमे द्वितीयोऽनुवाकः ।
    प्रथमानुवाकोक्तमन्त्रजपेन परिहृतविघ्नस्य पुरुषस्योपासनार्थं ब्रह्मावबोधार्थं च तत्प्र-
    तिपादको ग्रन्थो वक्तव्यः । तस्य च ग्रन्थस्यार्थज्ञानप्रधानत्वात्पाठे मा भूदौदासीन्यमि-
    त्येतदर्थं द्वितीयानुवाके शिक्षाध्यायोऽभिधीयते । भवत्वौदासीन्यमिति चेन्न । अनर्थ-
    प्रसङ्गात् ।
    “ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह ।
    स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् " ॥
    इत्यादिन्यायात् ।
    इन्द्रशत्रुवृत्तान्तश्च “ त्वष्टा हतपुत्रः " इत्यनुवाके विस्पष्टमभिहितः । एवं तर्हि
    कर्मकाण्डेऽप्ययमध्यायो वक्तव्य इति चेद्बाढम् । अत एव काण्डद्वयशेषत्वा × देहलीप्र-
    दीपन्यायेनोभयोः काण्डयोर्मध्येऽभिहितः । न चोभयशेषत्वेन वेदस्योपक्रम एव पठ्यता-
    मिति वाच्यम् । उभयशेषस्यापि विद्यायां प्रयोजनाधिक्यद्योतनाय विद्याकाण्डे पठनी-
    यत्वात् । कर्मकाण्डे क्वचित्स्वरवर्णादिव्यत्ययेन यथाशास्त्रमर्थानवबोधेऽपि प्रायश्चित्ते-
    नानुष्ठानवैकल्यं परिहर्तुं शक्यम् । अत एव प्रायश्चित्ताज्याहुतिमन्त्र एवमाम्नायते-
    “ अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वग्ँ हि वेत्थ यथात-
  • एतत्परिगणनं क्वचिन्नोपलभ्यते । × देहली सद्मद्वारसमीपतरभागस्तत्स्था-
    नस्थो दीपो द्वारान्तःप्रदेशं तद्बहिर्भूतं चत्वरं च समुज्ज्वलयति । तथाऽयमध्यायः
    कर्मज्ञानकाण्डयोर्मध्येऽभिहित इति पर्यवसितम् ।

[प्रपा० ७ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९३

पम्" इति । विद्याकाण्डे त्वयथाशास्त्रमर्थावबोधे सति वैकल्यं न समाधीयेत । न
ह्यन्यथाबोधः प्रायश्चित्तेन परिहर्तुं शक्यते । रज्जुसर्पादिभ्रान्तेर्गायत्रीजपादिभिः परिहा-
रादर्शनात् । अत एव कर्मस्विव विद्यायां वैकल्यपरिहाराय प्रायश्चित्तं किमपि नाऽऽ-
म्नातम् । प्रत्युत विद्यामभ्यस्यतः पापे प्रसक्तावप्यन्यप्रायश्चित्ताभावः स्मर्यते—
"यदि स्यात्पातकं किंचिद्योगी कुर्यात्प्रमादतः ।
योगमेव निषेवेत नान्यं मन्त्रं कदाचन" इति ॥
तस्माद्विद्यायामवैकल्याय यथाशास्त्रं बोद्धुमुपनिषत्पाठे प्रयत्नातिशयं विधातुमत्रैव
शीक्षाध्यायोऽभिधीयते—
ॐ शीक्षां॑ व्या॑ख्या॒स्या॒मः॑ । वर्ण॒: स्वर॑: । मा॒त्रा ब॒ल॑म् ।
साम

४९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ७ अनु० १]
अथ सप्तमे तृतीयोऽनुवाकः ।

द्वितीयेऽनुवाके दृष्टादृष्टोपकारी ग्रन्थपाठनियमो विहितः । तृतीये त्वैहिकामुष्मिकफल-
सिद्धये काचिदुपासना विधीयते । तत्राऽऽदौ तावन्मङ्गलाचरणार्थोऽयं मन्त्र आम्नायते ।
पूर्वोक्तशान्तिमन्त्रेण विघ्नोपशमः प्रार्थितः । अनेन तु मन्त्रेण विद्यातत्फलयोरुत्कर्षः
प्रार्थ्यते । तमिमं मन्त्रमाह—
सह नौ॒ यशः॑ । * सह नौ ब्रह्मवर्च॒सम्, ॥ इति ।
विद्यानिमित्तं यद्यशस्तन्नावावयोः शिष्याचार्ययोः सहास्तु । सम्यगनेनोपासनमनुष्ठीयत
इति शिष्यस्य यशः । सम्यगुपदिष्टमित्याचार्यस्य यशः । अनेन विद्यायामवैकल्यलक्षण
उत्कर्षोऽभिहितो भवति । ब्राह्मणस्योचितं श्रुताध्ययनलक्षणं तेजो ब्रह्मवर्चसम् । एतच्च
श्रूयमाणस्य फलस्य सर्वस्याप्युपलक्षणम् । “ संधीयते प्रजया पशुभिर्ब्रह्मवर्चसेनान्ना-
द्येन सुवर्गेण लोकेन ” इति हि श्रूयते । एतच्च ब्रह्मवर्चसादिफलमावयोः शिष्याचार्ययो
स्सहास्तु । यद्यप्युपासितुः शिष्यस्यैव तत्फलं तथाऽपि तदीयफलसंपत्तेराचार्यपरितोषहे-
तुत्वादाचार्यस्यापि फलत्वेनोपचर्यते । सोऽयं प्रार्थनारूपो मङ्गलाचरणार्थो मन्त्र
शिष्येण जप्य आचार्यस्य तु कृतार्थत्वान्नानेन कृत्यमस्ति ।
यदर्थमिदं मङ्गलाचरणं तामेतां विद्यां प्रतिजानीते—
अथातः॑ सꣳहि॒ताया उ॑प॒निषदं॑ व्याँख्यास्या॒मः । पञ्च॑-
स्वधि॒करणे॑षु । अधि॒लोकमधि॒+ज्यौतिषमधिवि॒द्यमधिप्र॒ज-
मध्या॒त्मम् । ता महा॑सꣳहि॒ता इत्या॑चक्षते, इति ।
अथशब्दः पूर्वानुवाकविहितवर्णस्वराद्युच्चारणाभ्यासानन्तर्यमाचष्टे । अतःशब्दस्
तूच्चारणवासनया युक्तत्वं हेतू करोति । यस्मादुपासनायां प्रवर्तमानः पुरुषश्चिराभ्यस्त
वेदपाठेन वासितः सन्व्देदपाठसंबन्धराहितेषूपासनेषु चित्तं सहसा प्रवेशयितुं न शक्नोति
तस्मात्तत्संबन्धिनीं संहिताया उपनिषदं विस्पष्टमा समन्तात्कथयिष्यामः । वर्णा
परस्परमत्यन्तसामीप्यं संहिता । “ परः संनिकर्षः संहिता ” इति पाणि॒निना सूत्रि-
त्वात् । उप सामीप्ये निषण्णं प्रजापशुब्रह्मवर्चसादिफलमस्यामित्युपनिषदुपासना ताम

  • अत्र सकाराकारस्य सानुदात्तः पाठोऽपि वैदिकेषु प्रसिद्धः । + अत्र सर्वत्र
    पुस्तकेष्वधिज्योतिषमिति पाठः ।

१ ख. °केऽदृष्टो° ।

[प्रपा० ७ अनु० ३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९५

तत्र येयमुपासनीया संहिता सा पञ्चविधेष्वाश्रयेषु व्याख्यास्यते । आश्रयभेदेनोपासनाया
भेदशङ्का मा भूदित्येतदर्थमेकैवोपासना पञ्चस्वाश्रयेषु प्रतिज्ञायते । लोकज्योतिर्विद्याप्र-
जात्मानः पञ्चाऽऽश्रयाः । पृथिव्यादींल्लोकानधिकृत्य वर्तत इत्यधिलोकम् । एवमुत्तर-
त्रापि द्रष्टव्यम् । या एता लोकादिपञ्चविधाश्रयभेदभिन्नाः संहिताः सन्ति ताः सर्वा
महासंहिता इत्येवमभिज्ञा उपासका आचक्षते । लोकादिविषयोत्कृष्टदृष्ट्योपासितत्वा-
त्संहितानां महत्त्वम् ।
प्रतिज्ञातायामुपासनायामुपास्यं प्रथमावयवमाह—
अथा॑धिलो॒कम् । पृ॑थि॒वी पू॑र्वरू॒पम् । द्यौरु॑-
त्तररू॒पम् । आ॒का॒शः सं॑धिः (१) ।
वा॒युः संधा॑नम् । इत्य॑

४९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०७अनु०१]
चतुर्थमवयवमाह—
अथाधि॑प्र॒जम् । मा॒ता पूर्व॑रू॒पम् । पि॒तोत्त॑ररू॒पम् । प्र॒जा
सं॒धिः । प्र॒जन॑नꣳ सं॒धान॑म् । इत्यधि॑प्र॒जम् ( ३ ), इति ।
प्रजा पुत्रपौत्रादिरूपा । प्रजननमुत्पत्तिः ।
पञ्चममवयवमाह—
अथाध्यात्मम् । अधरा हनुः पूर्व॑रू॒पम् । उत्तरा हनुरुत्तररू॒-
पम् । वाक्सं॑धिः । जि॒ह्वा सं॒धान॑म् । इत्यध्यात्म॒म्, इति ।
देहेन्द्रियादिसाक्षिचैतन्यान्तःसंघातोऽत्राऽऽत्मशब्देन विवक्षितः । तस्याहंप्रत्ययगम्य-
त्वात् । तमात्मानमधिकृत्य वर्तत इत्यध्यात्मम् । वाक्शब्देन कण्ठतालवादिस्थानगतामि-
न्द्रियमुच्यते ।
प्रतिपादितरूपान्संहितावयवानुपसंहरति —
इतीमा म॑हा॒सꣳहि॑ताः, इति ।
फलसाधनत्वेनोपासनां १ विधत्ते—
य एव॒मेता म॑हा॒सꣳहि॑ता व्या॒ख्याता॒ वेद॑ ।
संधी॑यते प्र॒जया॑ प॒शुभिः॑ । ब्रह्मवर्च॒सेनान्ना॑-
द्येन + सुवर्गेण॑ लो॒केन ( ४ ), इति ॥
संधिराचार्यः पूर्व॑रूपमित्यधि॒प्रजं लोके॒न ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
यः पुमानेवमुपास्ते स पुमान्प्रजादिभिः संबध्यते २ । यद्यपि विदिधातुः प्रमाण-
ज्ञानमभिधत्ते न तु पुरुषतन्त्र ३ मानसक्रियारूपमुपासनम्, तथाऽपि ४ विज्ञानवाचिर्वि-
धातुनाऽत्रोपासनक्रियोपलक्ष्यते । तयोर्मानसत्वसाम्यात् । न खल्वत्र मुख्या
संभवति । अपुरुषतन्त्रस्य ज्ञानस्य विधातुमयोग्यत्वात्पृथिवी पूर्वरूपमित्यादिवाक्यै-
नैव ज्ञानसिद्धौ तद्विधिवैयर्थ्याच्च । न चात्र वेदेत्येष लट्प्रत्ययो न विधायक इ-
ति वाच्यम् । विधायकस्य पञ्चमलकारस्याऽऽश्रयणात् । न च वाक्यजन्यमेव ज्ञा-
लट्प्रत्ययेनानूद्यतेति वाच्यम् । ज्ञानमात्रेण ५ प्रजापश्वादिफलासंभवात् । तस्मादु-

  • सुवर्गेणेत्यपि पाठो वैदिकेषु प्रसिद्धः ।
    १ ख. ग. ॰सनं वि॰ । २ ग. संपद्यते । ३ ग. घ. तन्त्रं मा॰ । ४ घ. ॰पि ज्ञा॰ । ५ ख.
    ॰मात्रे प्र॰ ।

[प्रपा०७अनु०३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९७
सनक्रियां विविधासु नोपलक्ष्य पञ्चमलकारेण विधत्ते । एवं च सत्युपासनप्रकरणमनुगृह्यते ।
इति प्राचीनयोग्योपास्स्वेत्यभिधानात्तत्प्रकरणत्वमवगम्यते । अत्र स्वर्गाख्यस्य फलस्योऽऽ-
मुष्मिकत्वमेव । पश्वादिफलस्य तु चित्रान्यायेनाऽऽमुष्मिकत्वं पाक्षिकम् । “चित्रया यजेत
पशुकामः” इत्यत्रासति प्रतिबन्धे पशुप्राप्तिरैहिकी, अन्यथा त्वामुष्मिकीति चित्रान्यायः ।
ऐहिकफलसिद्धयर्थं पुरुषतन्त्रोपासनक्रियाऽत्र वेदेत्यनेन विधीयते ।
अत्र मीमांसा । चतुर्थाध्यायस्य प्रथमपादे * चिन्तितम्—
“ नास्त्यासनस्य नियम उपास्तावुत विद्यते ।
न देहस्थितिसापेक्षं मनोऽतो नियमो नहि ॥
शयनोत्थानगमनैर्विक्षेपस्यानिवारणात् ।
धीसमाधानहेतुत्वात्परिशिष्यत आसन

भ्यासस्य देशविशेषः श्रूयत इति चेत्सत्यम् । इष्टसौकर्यार्थं तदिति वाक्यशेषे मनोऽनुकू-
लत्वविशेषणान्निन्श्चीयते । तस्मान्नास्ति दिगादिनियमः ।
अत्रोपास्यवस्तुस्वरूपस्येयत्तां निश्चेतुमिदमपरं चिन्तनीयम् । ऐतरेयोपनिषद्यपि
संहितोपासना काचिदेवाम्नायते—“अथातः संहिताया उपनिषत् । पृथिवी पूर्वरूपम् ।
द्यौरुत्तररूपम् ” इत्यादिः । अस्यामैतरेयशाखायां तैत्तिरीयशाखायां चाऽऽम्नाता
येयमुपासना सा किमेका भिन्ना वेत्येको विचारः । उपासनैक्यपक्षेऽपि शाखाद्वये पर-
स्परं गुणोपसंहार सद्भावासद्भावविषयो द्वितीयो विचारः । तत्र पञ्चाग्निविद्याप्राणविद्यान्या-
येनोपासनैक्यं भवितुमर्हति ।
स च न्यायस्तृतीयाध्यायस्य तृतीयपादे + सम्यगभिहितः—
“ सर्ववेदेष्वनेकत्वमुपास्तेरथ वैकता ।
अनेकत्वं कौथुमादिने¹धर्मविभेदतः ॥
विधिरूपफलैकत्वादैकत्वं नाम न श्रुतम् ।
शिरोव्रताख्यधर्मस्तु स्वाध्याये स्यान्न वेदने ॥
छान्दोग्यबृहदारण्यकयोः पञ्चाग्न्युपासनमाम्नायते तदेकं न भवति नामभेदात्।
कौथुममिति च्छान्दोग्यगतस्य नाम । वाजसनेयकमिति बृहदारण्यक³गतस्य नाम ।
तथोपासनान्तरेषु योजयितव्यम् । धर्मभेदोऽप्युपासनाभेदगमकः शिरोव्रतलक्षणो मुण्डक-
शाखायां श्रूयते—“ तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ” इति ।
शिरोव्रतं नाम वेदव्रतविशेष आथर्वणिकान्प्रति विहितो नेतरान्प्रति । तस्माच्छाखाभेदा-
दुपासनाभेद इति प्राप्ते ब्रूमः — शाखाभेदेऽपि विध्यभेदादुपासनं न भिद्यते । तथाहि
च्छान्दोग्ये—“यो ह वै ज्येष्ठं च श्रेष्ठं च वेद” इति। यादृशः प्राणविद्याविधिस्तादृश एव
बृहदारण्यकेऽप्याम्नायते । तथा द्युपर्जन्यपृथिवीपुरुषयोषिदाख्यमग्निपञ्चकं वेद्यतया पञ्चा-
ग्निविद्यायां यत्स्वरूपं तदुभयोरपि शाखयोः समानम् । फलं च “ ज्येष्ठश्च ह वै श्रेष्ठश्च
भवति ” इत्येवंरूपं प्राणोपास्तिजन्यं शाखाद्वयेऽप्येकविधम् । यस्तु कौथुमादिनामभेद
उदाहृतो नासौ श्रुत्याऽभिहितः । किं तर्ह्यध्येतार एव केवलं तत्तच्छाखाप्रवर्तकमुनि-
नाम्ना तं तं वेदं व्याहरन्ति । योऽपि शिरोव्रताख्यधर्मभेद उक्तः सोऽप्यध्ययनविषय एव
नोपास्तिविषयः । नैतदचीर्णव्रतोऽधीत इत्यध्ययनधर्मत्वावगमात् । तस्मादैक्यहेतुसद्भावा-
द्भेदहेत्वभावाच्च न शाखाभेदादुपासनं भिद्यते ” ।
अनेनैव न्यायेन संहितोपासनाया अप्यैक्यं द्रष्टव्यम्—य एवमेतां संहितां वेदेति ।

  • सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । अ० ३ पा० ३ अ० १ सू० १ ।
    १ ग. ॰नानाध॑ । २ ख. ॰ण्यस्य । ३ क. ङ. ॰कस्य ।

[प्रपा०७ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९९
यथा पृथिवी पूर्वरूपमित्यादिकं वेद्य॑स्वरूपमप्युभयत्रैकविधम् । संधीयते प्रजया पशुभि-
रित्यादिकं फलमप्येकरूपम् । तस्मादुपासनैक्यं युक्तम् ।
गुणोपसंहारन्यायश्च तत्रै×वाभिहितः—
“एकोपास्तावनाहार्या आहार्या वा गुणाः श्रुतौ ।
अनुक्तत्वादनाहार्या उपकारः श्रुतैर्गुणैः ॥
श्रुतत्वादन्यशाखायामाहार्या अग्निहोत्रवत् ।
विशिष्टविद्योपकारः स्वशाखोक्तगुणैः समः ॥
वाजसनेयके प्राणविद्यायामधिको गुणो रेतआख्यः श्रुतः—“रेतो होच्चक्राम ”
इति । नासौ छान्दोग्ये प्राणविद्यायामुपसंहर्तव्यः । अत्रानुक्तत्वात् । विद्योपकारस्तत्र
श्रुतैरेव प्राणवागादिभिर्गुणैर्भविष्यतीति प्राप्ते ब्रूमः—एतच्छाखायामश्रवणेऽपि शाखान्तरे
श्रुतत्वादुपसंहार्य एव । अग्निहोत्राद्यनु

यमुद्गीथविद्या वेद्यस्वरूपस्य भिन्नत्वात् । छान्दोग्ये तावत्सामभक्तिविशेषस्योद्गीथस्या-
वयवो य ओंकारः स एव प्राणदृष्ट्योपासनीयः । काण्वभेदे तु कृत्स्नोद्गीथभक्ते-
उद्गाता वागिन्द्रियप्रेरकः प्राणः स उद्गातृत्वेनोपास्य इति वेद्यभेदाद्विद्याभेदः । यत्तु
संग्रामसाम्यमुक्तं तदप्रयोजकमर्थवादिकत्वात् । यद्यपि प्राणस्यासुरप्रमिद्धत्वेन श्रेष्ठत्व-
मुक्तं तद्यद्यप्युपास्यं तथाऽप्युक्तस्य वेद्यभेदस्यानिराकरणाद्भिन्नेयोद्गीथविद्या ” ।
अनेनैव न्यायेन प्रकृतेऽपि वेद्यभेदाद्विद्याभेदो द्रष्टव्यः । तैत्तिरीयके पञ्चाधिकरणो-
पासने पूर्वं व्याख्यातानि वेद्यानि । ऐतरेयके त्वधिदैवाध्यात्मभेदभिन्नं वेद्यम् । तथा
चाऽऽम्नायते—“ वायुश्चाऽऽकाशश्चेत्यधिदैवतम् । अथाध्यात्मं वाक्पूर्वरूपं मन उत्तर-
रूपम् ” इत्यादि । यत्तु पृथिवी पूर्वरूपमित्यस्य वेद्यस्योभयत्र समानत्वमुक्तम् । नैता-
वता विद्यैकत्वं संभवति । वैलक्षण्यस्य बहुत्वत्वाद्बह्वनुग्रहस्य च न्याय्यत्वात् । सति च
विद्याभेदे गुणोपसंहारो न युक्तः । यथा दर्शपूर्णमासगुणानां भिन्नाग्निहोत्राख्ये कर्मणि
नोपसंहारस्तद्वदत्र विद्याभेदे गुणानामनुपसंहारे च स्थिते सत्यन्यदपि चिन्तयितुं विष-
ज्येते—द्विविधान्युपासनान्यहंग्रहयुक्तानि प्रतीकविषयाणि चेति । येषु परमात्मा सगुण-
सन्नुपास्यते तान्यहंग्रहयुक्तानि । तद्यथा—“स य एषोऽन्तर्हृदय आकाशः । तस्मि-
न्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः ” इत्यत्र हृदयाकाशमध्यवर्ती परमात्माख्यः
पुरुषो मनोमयत्वादिगुणयुक्त उपासितव्यः परमात्माऽहमिति। स चाहंग्रहश्चतुर्थाध्याये-
“ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ” [ ब्र० सू० अ० ४ पा० १ सू० ३ ]
इति सूत्रेऽभिहितः। परमात्मव्यतिरिक्तानि लौकिकानि वस्तुन्युत्कृष्टदेवतादृष्ट्या ब्रह्मदृष्ट्या
वा संस्कृत्य यत्रोपास्यन्ते तानि प्रतीकविषयाणि । तद्यथा—पृथिवी पूर्वरूपमित्यत्र भूदे-
वतादृष्ट्या संस्कृतं पूर्वरूपं स्वरूपमुपास्यम् । मनो ब्रह्मेत्युपासीतेत्यादौ ब्रह्मदृष्ट्या संस्कृतं
मनःप्रभृतिकमुपास्यम् । तैच्च प्रतीकमूपासकेन न स्वात्मतया ग्रहीतव्यम् । * प्रतीकस्य
ब्रह्मकार्यत्वेनोत्कृष्टदृष्टिप्रत्यालम्बनत्वात्प्रतीकमित्युच्यते । तस्मिंश्च प्रतीके ऽहंग्रहो नास्तीति
चतुर्थाध्यायस्य प्रथमपादे + चिन्तितम्—
“ प्रतीकेऽहंदृष्टिरस्ति न वा ब्रह्माविभेदतः ।
जीवप्रतोकयोर्ब्रह्मद्वाराऽहंदृष्टिरिष्यते ॥
प्रतीकत्वोपासकत्वहानिर्ब्रह्मैक्यवीक्षणे ।
अवक्षणे तु भिन्नत्वान्नास्त्यहंदृष्टियोग्यता ” ॥ इति ।

  • अस्मिन्वाक्ये यत इति शेषः । + न प्रतीके न हि सः । अ० ४ पा०
    १ अ० ३ सू० ४ ।
    १ ङ. ॰यः । अन्तरेण तालुके ” इ° । २ ग. पूर्वे व° । ३ ग. घ. तच्चोत्कृष्टं ।

[प्रपा०७अनु०५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५०१
“मनो ब्रह्मेत्युपासीत” “आदित्यो ब्रह्मेत्यादेशः” इत्यादौ ब्रह्मदृष्ट्या संस्कृतं
मनआदित्यादिप्रतीकमुपास्यम् । तच्च प्रतीकमुपासकेन स्वात्मतया ग्रहीतव्यम् । प्रती-
कस्य ब्रह्मकार्यत्वेन ब्रह्मणः सह भेदाभावाज्जीवस्य च ब्रह्माभिन्नत्वाद्व्रह्मद्वारापास्यस्य
प्रतीकस्योपासकजीवस्य च भेदाभावेनैकत्वसंभवादिति प्राप्ते ब्रूमः—यदि ब्रह्मकार्यस्य १
प्रतीकस्यै ब्रह्मैक्यमवलोक्येत तदा प्रतीकस्वरूपमेव विलीयेत घटस्य मृद्रूपैक्ये विलय-
दर्शनात् । यदि जीवस्य ब्रह्मैक्यमवलोक्येत तदा जीवत्वस्यापाये सत्युपासकत्वं हीयेत ।
अथोपास्योपासकस्वरूपलोभेन कार्यकारणैक्यं जीवब्रह्मैक्यं च न पर्यालोच्येत तदा गोम-
हिषवदत्यन्तभिन्नयोः प्रतीकोपासकयोर्नास्त्येकत्वयोग्यता । तस्मान्न प्रतीकस्याहंदृष्टिः ।
तत्राहंग्रहोपासनानां सर्वेषामपि ब्रह्मसाक्षात्कारफलत्वादेकेनोपासनेन ब्रह्मणि साक्षा-
त्कृते सत्युपासनान्तरवैयर्थ्यादुपासनान्तरप्रवृत्तौ पूर्वसाक्षात्कारविक्षेपप्रसङ्गाच्च बहुषूपास-
नेषु ब्रह्मसाक्षात्कारार्थिनः प्राप्तेष्विदं वा तद्वा यत्किंचिदेकमेवानुष्ठेयमित्येतादृशो
विकल्पो निर्णीतः । इह तु संहितोपासनमेकं वा द्वयं वा यथेच्छमनुष्ठेयम् । एतदपि
तृतीयाध्यायस्य तृतीयपादे + निर्णीतम्—
“प्रतीकेषु विकल्पः स्याद्याथाकाम्येन वा मितिः ।
अहंग्रहेष्विवैतेषु साक्षात्कृत्यै विकल्पनम् ॥
देवो भूत्वेतिवन्नात्र काचित्साक्षात्कृतौ मितिः ।
याथाकाम्यमतोऽमीषां समुच्चयविकल्पयोः ॥
प्रतीकोपासनेषु पूर्वाधिकरणन्याय इति प्राप्ते ब्रूमः—अस्त्यत्र महद्वैषम्यम् । “देवो
भूत्वा देवानप्येति” इति जीवन्नेव भावनाप्रकर्षवशाद्देवभावसाक्षात्कारं प्राप्य मृतो देव-
त्वमुपैतीति यथाऽहंग्रहेष्ववगम्यते न तथा प्रतीकेषु साक्षात्कारफलत्वे किंचिन्मानमस्ति ।
साक्षात्कारफलत्वाभावे ३ च तत्र तत्र प्रोक्ता भोगवस्तुप्राप्तयः फलत्वेनोभ्युपगन्तव्याः ।
तथा सति भिन्नफलत्वान्नान्यर्थक्यं विक्षेपशङ्का तु दूरापेता । एकं प्रतीकं केषुचित्क्ष-
णेषूपास्य क्षणान्तरेषु प्रतीकान्तरोपासने तु पूर्वोपास्तिजन्यस्यापूर्वस्याविनाशात् । तस्मा-
द्विकल्पेनैकमेव वा बहूनि वा समुच्चित्य वा याथाकाम्येन प्रतीकमुपासितव्यम् ” ।
“पृथिवी पूर्वरूपम्” इत्यत्र प्रथमनिर्दिष्टत्वेनोद्देश्यतया यद्यपि पृथिव्याः प्रतीकत्वं

  • काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् । अ० ३ पा० ३
    अ० ३५ सू० ६९ ।
    १ ग. ॰र्यत्वेन ब्रह्मणा सहैक्यं प्रतीकस्य तदा प्रतीक॰ । घ. ॰र्यत्वेनैक्यं प्र॰ । २ घ. ॰स्य
    प्ती॰ । ३ ग. घ. ॰वे त॰ । ४ ख. ॰नाभि॰ ।

५०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०१]
प्राप्तम् । तथा चरमानिर्दिष्टत्वेन विधेयतया पूर्ववर्णस्य दृष्टिपरत्वं प्राप्तम् । तथाऽपि
पृथिव्या उत्कृष्टत्वात्तद्दृष्टिरेव पूर्ववर्णे कर्तव्या । यथोत्कृष्टविष्णुशिवादिदृष्टिर्निकृष्टे
शालग्रामादौ क्रियते न तु विपर्ययस्तद्वत् । उत्कर्षन्यायश्चतुर्थाध्यायस्य प्रथमपादे +
चिन्तितः—
“ किमन्यधीर्ब्रह्मणि स्यादन्यस्मिन्ब्रह्मधीरुत ।
अन्यदृष्ट्योपासनीयं ब्रह्माऽत्र फलदत्वतः ॥
उत्कर्षेतिपरत्वाभ्यां ब्रह्मदृष्ट्याऽन्यचिन्तनम् ।
अन्योपास्त्या फलं दत्ते ब्रह्मातिथ्याद्युपास्तिवत् ॥
“ मनो ब्रह्म ” इत्यात्राब्रह्मरूपमनोदृष्टिं ब्रह्मणि कृत्वा ब्रह्मोपासनीयम् । ब्रह्मणः
फलप्रदत्वेनोपास्यतार्हत्वादिति प्राप्ते ब्रूमः—ब्रह्मण उत्कृष्टत्वात्तद्दृष्टिर्निकृष्टे मनसि
कर्तव्या । लोके हि निकृष्टे भृत्ये राजदृष्टिं कृत्वा राजवत्तं पूजयन्ति । नतु विपर्ययः ।
किंच “ मनो ब्रह्मेत्युपासीत ” इत्यत्र ब्रह्मशब्द इतिशब्दपरत्वेन दृष्टिलक्षको भवि-
ष्यति । मनःशब्दश्चानितिपरत्वान्मुख्यार्थवाची । यथा स्थाणुं चोर इति प्रत्येतीत्यत्र
स्थाणुशब्दो मुख्यार्थवाची चोरशब्दो दृष्टिलक्षकस्तद्वत् । न चाब्रह्मस्वरूपस्य मनस
उपास्यत्वे ब्रह्मणः फलप्रदत्वानुपपत्तिः । अब्रह्मरूपस्यातिथेरुपासने कर्माध्यक्षत्वेन यथा
फलं प्रयच्छति तद्वदत्रापि संभवात् । तस्मादब्रह्मणि प्रतीके ब्रह्मधीः कर्तव्या ” ।
यद्यप्यधिलोकमितिशब्देन पृथिव्या अधिकरणत्वाभिधानात्प्रतीकत्वं प्रतिभाति
तथाऽपि पृथिवीदृष्टिरेवात्र पूर्ववर्णात्मके युक्ता । यथा लोकेषु पञ्चविधं सामोपासीतेत्यत्रा-
धिकरणत्ववाचिन्या सप्तम्या निर्दिष्ठानां लोकानां दृष्टिः कर्माङ्गे साम्नि प्रतीके संपादिता
तद्वत् । एतदपि यदि “ आदित्यादिमतयश्चाङ्ग उपपत्तेः ” [ ब्र० सू० अ० ४
पा० १ सू० ६ ] इति साम्न उपास्तिक्रियाकर्मत्वेनाभिधानाद्दृष्टिलक्षकत्वं लोकश-
ब्दस्य युक्तमित्यभिप्रेत्य लोकदृष्ट्या सामाख्यं प्रतीकमुपास्येत तर्ह्यत्रापि महासंहिता
व्याख्याता वेदेतिसंहिताशब्देन विदिक्रियाकर्मणो निर्देशात्पृथिव्यादिदृष्ट्या संहितोपास्य-
ताम् । पृथिव्याः प्रतीकत्वाभावेऽपि दृष्टिविषयत्वाभिप्रायेणाधिलोकमिति निर्देश उप-
पद्यते । तत्रेदपरं चिन्तनीयम् । उपासनं नाम किं सकृत्प्रत्यय आहोस्वित्प्रत्य-
यावृत्तिरिति । तत्र यथा “ अष्टवर्षं ब्राह्मणमुपनयीत ” इत्यत्र सकृदनुष्ठानाद्वि-
धिसिद्धिस्तद्वत्सकृत्प्रत्ययेनैव विधेश्चरितार्थत्वान्नाऽऽवृत्तिरिति चेन्न वेदाध्ययनवदा-

  • ब्रह्मदृष्टिरुत्कर्षात् । अ० ४ पा० १ अ० ४ सू० ५ ।
    १ ग. घ. ॰र्थः । ब्र° । २ क. ख. ग. घ. ॰द्व्यादि° ।

[प्रपा० ७ अनु० ४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५०३

वर्तनीयत्वात् । यथा “ स्वाध्यायोऽध्येतव्यः ” इत्यत्र वेदोच्चारणमावर्त्यते तथा प्रत्यय
आवर्तनीयः । तत्रोच्चारणावृत्तिरेवाध्ययनशब्दार्थ इति चेत्तर्ह्यत्रापि प्रत्ययावृत्तिरेवोपास-
नाशव्दार्थोऽस्तु । अत एव भगवद्भिर्भाष्यकारैरावृत्त्यधिकरणेऽभिहितम्--“ अपि
चोपासनं निदिध्यासनं चेत्यन्तर्णीतावृत्तिगुणैव क्रियाऽभिधीयते । तथा हि । लोके गुरु-
मुपास्ते राजानमुपास्त इत्यत्र यस्तात्पर्येण गुर्वादीननुवर्तते स एवमुच्यते । तथा ध्यायति
प्रोषितनाथा पतिमिति या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा सैवमभिधीयते ” इति ।
यद्यपि पुरश्चरणादौ जप्यमन्त्रावृत्तिसंख्ययेव प्रत्ययावृत्तेरियत्ता न क्वचिच्छुता तथाऽपि
यस्मिन्प्रतीके यद्देवतादृष्टिर्विहिता तत्प्रतीकं तद्देवतारूपमिति निरूढोऽभिमानो यावत्संप-
द्यते तावदावर्तयेत् । अत एवं वार्तिककारैरुक्तम्—
“ शास्त्रार्पितधियोपेत्य यत्तादात्म्याभिमानतः ।
चिरासनं भवेद्यत्र तदुपासनमुच्यते ” ॥ इति ।
यथा प्रबुद्धा अमात्याः कांचिद्राजकुमारं बालं राज्येऽभिषिच्य यावता कालेनायं
सर्वासां प्रजानां राजेत्यभिमानेन तदाज्ञावशवर्तित्वं संपद्यते तावदप्रमत्तास्तं प्रयत्नेन पाल-
यन्ति तद्वत् । संपन्ने तु प्रतीकविषये देवत्वाभिमाने स पुनर्नोपैति । यथा जीर्णदेवालये
पूजारहितामपि प्रतिमां दृष्ट्वा देवत्वबुद्धिरनुवर्तते तद्वत् । तस्मात्प्रतीके देवत्वाभिमानदा-
र्ढ्यपर्यन्तमुपासीनस्य यथोक्तं फलं सिध्यति ।
इति श्रीमत्सायणाचार्यविरचिते श्रीमत्बुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमे-
श्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके
सांहित्यामुपनिषदि तृतीयोऽनुवाकः ॥ ३ ॥
अथ सप्तमे चतुर्थोऽनुवाकः ।
तृतीयानुवाके प्रजादिफलसिद्धये संहितोपासनमुक्तम् । तत्र ब्रह्मज्ञानसाधनं चित्तैका-
ग्र्यमप्यर्थात्संपद्यते । अथ मेधारहितस्य श्रुतग्रन्थार्थविस्मृतौ ब्रह्मज्ञानोदयासंभवाद्रोगादिना
शरीरादिपाटवरहितस्याशनाच्छादनादिभिर्वा रहितस्य ब्रह्मज्ञानहेतुभूतश्रवणादिप्रवृत्त्यसंभ-
वान्मेधादिसिद्ध्यर्था मन्त्राश्चतुर्थेऽनुवाकेऽभिधीयते । तत्राऽऽदौ मेधाकामेन जप्यं
मन्त्रमाह—
यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता॒थ्संब॒भूव॑ । स
१ घ. ॰व च वा॰ । २ क. ख. ङ. ॰थे संहि॰ ।

ितवान् । संप्रास्रवत्सम्यक्सारत्वेन प्रत्यभादित्यर्थः

Line 24:
अमृ॒तादित्यनेन निमित्तमुच्यते । मरणरहितं मोक्षरूपं यदमृतं तदेवोंकारप्रादुर्भूतौ निमि-

Line 25:
त्तम् । अत एव च्छान्दोग्ये च तस्योंकारप्रादुर्भाववाक्यस्योपक्रमे— " ब्रह्मसंस्थोऽमृत-

Line 26:
त्वमेति " इत्युपक्रान्तम् । प्रणवस्य ब्रह्मवाचकत्वेन प्रणवनिष्ठ एव ब्रह्मसंस्थः । स प्र-

Line 27:
णववाच्य इन्द्रः परमेश्वरो मेधया ग्रन्थतदर्थधारणशक्त्या मां विद्यार्थिनं स्पृणोतु प्री-

Line 28:
णयतु । हे देव त्वत्प्रसादादहममृतस्य मोक्षोपलक्षितस्य मुक्तिहेतोर्ग्रन्थादेर्धारको

Line 29:
भूयासम् ।

Line 30:
३मेधाहेतुमन्त्रमुक्त्वा रोगादिराहित्यहेतुं४मन्त्रमाह—

Line 31:
शरी॑रं

[प्रपा० ७ अनु० ४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५०५
भूरि॒ विश्रु॑वम् । ब्रह्म॑णः कोशो॑ऽसि मेध-
याऽपि॑हितः । श्रुतं॑ मे गोपाय, इति ।
मम विद्याधिकारिणः शरीरं विचर्षणं विचक्षणं रोगादिरहित्येन विद्याभ्यासयोग्य-
मस्तु । मदीया जिह्वाऽप्यतिशयेन माधुर्योपेता ग्रन्थाभ्यासपटीयसी भवतु । कर्णाभ्यां
च विद्योत्पादकं बहुविधग्रन्थजातं श्रूयासं कदाचिदपि बाधिर्यदोषो मा भूत् । हे प्रणव
त्वं ब्रह्मणो जगत्कारणस्य परतस्तुनो ध्यानाय कोश आलम्बनभूतोऽसि । यथा चर्म-
मयः कोशः खड्गरक्षणार्थायाऽऽलम्बनभूतस्तद्वद्ब्रह्मध्यानरक्षणाय प्रणव आलम्बनभूतः ।
अत एव कठवल्लीष्वोंकारं प्रकृत्याऽऽम्नायते--“एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ”
इति । तादृशः प्रणवो मेधया धारणशक्त्याऽपिहितो व्याप्तः । तथाविधप्रणवप्रतिपाद्य
हे परमेश्वर मदीयं श्रुतं कर्णाभ्यामवगतं वेदार्थरहस्यं विस्मृत्यादिदोषनिवारणेन पालय ।
आरोग्यादिसिद्धये जप्यो मन्त्रोऽभिहितः । अथान्नपानवस्त्रादिसिद्धये होमार्था मन्त्रा
उच्यन्ते । तत्र प्रथमं मन्त्रमाह—
आवह॑न्ती वितन्वा॒ना (१) । कु॒र्वाणा चीर॑मा॒त्मनः॑ ।
वासांसि॒ मम॒ गाव॑श्च । अन्न॑पाने च॑ सर्व॒दा । ततो॑ मे
श्रिय॒माव॑ह । लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा॑, इति ।
हे प्रणवाभिधेय परमेश्वर या श्रीरुक्तविधा तां श्रियं मदर्थमावह सर्वतः संपादय ।
किंविधेति तदुच्यते । यानि वासांसि याश्च गावो ये चान्नपाने तत्सर्वं सर्वदा मम
भोगार्थमावहन्ती सर्वतः संपादयन्ती तथा संपादितं सर्वं वितन्वाना विस्तारयन्ती वर्ध-
यन्ती वर्धितं तत्सर्वमात्मनो विद्यार्थिनो मम चिरं दीर्घकालं कुर्वाणा यथा विनष्टं न
भवति तथा स्थापयन्ती । यस्मादेवंविधा श्रीस्ततस्तामावह । पुनरपि कीदृशीम्—पशुभिः
सह लोमशामजावयोऽश्वाश्चेत्येवमादयो ये पशवस्तैः सह वर्तमानत्वेन बहुविधरोमयु-
क्ताम् । तथाविधश्रीप्रदाय देवायेदमाज्यादिहोमद्रव्यं स्वाहा हुतमस्तु ।
अथ वस्त्रान्नपानादिसमृद्धया श्रिया युक्तस्य विद्यासंप्रदायप्रवृत्त्यर्थं शिष्यसंपादकहो-
मार्थांन्पञ्च मन्त्रानाह—
आ मां यन्तु ब्रह्मचारिणः॒ स्वाहा॑ । वि मांऽऽयन्तु
ब्रह्मचारिणः॒ स्वाहा॑ । प्र मांऽऽयन्तु ब्रह्मचारिणः॒
१ क. ख. ङ स्वाहु॑ ।
६४

५०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०७अनु०४]

स्वाहा॑ । दमा॑यन्तु ब्रह्मचारिणः॒ स्वाहा॑ । शम॑-
यन्तु ब्रह्मचारिणः॒ स्वाहा॑ ( २ ), इति ।
ब्रह्मचारिणो वैदिकविद्याभ्यासपराः शिष्या मां संप्रदायप्रवर्तकमाचार्यमायन्तु
प्राप्नुवन्तु । विशब्दो विविधत्वमाचष्टे । पश्वादिकामाः स्वर्गलोककामा ब्रह्मलोककामा
मोक्षकामाश्चेत्येवं ब्रह्मचारिणां विविधत्वम् । प्रशब्दः प्रकर्षमाचष्टे । विद्याग्रहणे प्रज्ञाति-
शयः प्रकर्षः । दमित्यनेनान्वयेन दान्तिरभिधीयते । बाह्येन्द्रियचेष्टाभ्यो बाललीलाभ्य
उपरतिरत्र दान्तिः। शमित्यनेन शान्तिरभिधीयते। क्रोधादिचित्तदोषराहित्यं शान्तिः। वि
मायन्वित्याद्यश्चत्वारो मन्त्राः शाखान्तरगतत्वाभिप्रायेण केषुचिद्देशेषु नाऽऽम्ना-
यन्ते ।
संप्रदायप्रवृत्तिजनितकीर्तिप्रदौ मन्त्रावाह—
यशो॒ जने॑ऽसानि॒ स्वाहा॑ । श्रेया॒न्वस्य॑सोऽसानि॒ स्वाहा॑, इति ।
हे परमेश्वर त्वत्प्रसादादहं जने सर्वेषु जनेषु यशोऽसानि । आचार्योऽयमित्येवं
यशस्वी भवानि । वसु धनं बहुलं यस्य सोऽयं वसुमानतिशयेन वसुमान्वसीयांस्तादृशा-
दप्यहं श्रेयान्प्रशस्यतरो भवानि ।
यशस्वित्वश्रेयस्त्वहेतुप्रतिपादकांस्त्रीन्मन्त्रानाह—
तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा॑ । स मा॑
भग॒ प्रवि॑श॒ स्वाहा॑ ! तस्मि॑न्सहस्रशाखे ।
नि भ॑गाहं त्वयि॑ मृ॒जे स्वाहा॑, इति ।
भगशब्द ऐश्वर्यादिषड्गुणवाचकः ।
“ ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ” ॥ इति स्मरणात् ।
तेन तद्वानुपलक्ष्यते । हे भगवन्परमेश्वर तं भगवन्तं त्वामहं प्रविशानि तादात्म्येन
त्वयि प्रविष्ट इव सर्वदा त्वां भजानि । स तादृशस्त्वमपि मां प्रविश मयि प्रविष्ट
इवाऽऽदरेण मामनुगृहाण । सहस्रमूर्तिभेदयुक्ते तस्मिंस्त्वयि मामहं निमृजे नितरां
शोधयामि । त्वद्भजनमेव श्रेयोहेतुरित्यर्थः ।
दृष्टान्तपुरःसरं बहुशिष्यसंपादकं मन्त्रमाह—
यथाऽऽपः॒ प्रव॑ताऽऽयन्ति॑ । यथा॒ मासा॑ अह॒र्जरम्॑ । ए॒वं मां
१ ख. प्रतिशातिं । २ ख. संवप्रं । ३ ख. ˚श प्र˚ ।

[१०७अनु०५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५०७
ब्रह्म॒चारिणः॑ । धा॒तराय॑न्तु॒ सर्व॑तः॒ स्वाहा॑, इति ।
आपो लोके प्रवता प्रवणवता निम्नदेशगतेन मार्गेण यथा त्वरया समागच्छन्ति ।
यथा च मासाश्चैत्रवैशाखादयः सर्वेऽप्यहर्जरं संवत्सरमायन्ति । अहानि षष्ट्युत्तर-
त्रिशतसंख्याकानि जीर्णान्यन्तर्भवन्ति यस्मिन्संवत्सरे सोऽयमहर्जरः । न खलु कश्चि-
दपि मासः संवत्सरमतिक्रामति । हे धातः सर्वस्य जगतो विधातः सर्वेऽपि ब्रह्मचा-
रिणो मासन्यायेन मामनतिक्रामन्तो जलन्यायेन त्वरोपेताः सर्वस्मादपि देशान्मामा-
च्छन्तु ।
होममन्त्रानभिधायोपस्थानमन्त्रमाह—
प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व ( ३ ), इति ।
वितन्वाना शमा॑यन्तु ब्रह्म॒चारिणः स्वाहा

५०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०५]
अग्निहोत्रहविष उपसादने दर्शपूर्णमासचातुर्मास्यहविषामासादने च प्रयोग एवमाम्नायते-
“ अग्निहोत्रमेताभिर्व्याहृतीभिरुपसादयेत् ” इति । “ दर्शपूर्णमासौ चातुर्मास्यान्याल-
भमान एताभिर्व्याहृतीभिर्हवीꣳष्यासादयेत् ” इति च ।
एवमाधानादावुदाहृत्य कर्मकाण्डप्रसिद्धं व्याहृतित्रयं दर्शयित्वा तथैव प्रतीकत्वेन
व्याहृत्यन्तरं दर्शयति —
तासा॑मु ह॒ स्मैतां चतु॒र्थीम् । माहा॑च-
मस्यः॒ प्रवे॑दयते । मह॒ इति॑ इति, ।
महान्सोमपानार्थश्चमसः पात्रविशेषो यस्य मुनेः स मुनिर्माहाचमसः । बहुषु सोमया-
गेषु वर्तमानत्वाच्चमसस्य महत्त्वम् । तस्यापत्यं माहाचमस्यनामक ऋषिः । स तासां
भूरादीनां तिसॄणां व्याहृतीनां चतुर्थीं चतुः

[प्रपा० ७ अनु० ५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५०९
इति॑ च॒न्द्रमा॑: । च॒न्द्रम॑सा वाव सर्वा॑णि ज्योतीꣳ॑षि मही॑यन्ते, इति ।
सन्ति हि चन्द्रमण्डले परितोऽवस्थितानि नक्षत्रज्योतींषि सर्वाण्यपि पूज्यानि भासन्ते ।
अथ तास्वेव वेददृष्टिं विधत्ते—
भूरिति॑ वा ऋच॑: । भुव॒ इति॒ सामा॑नि । सुव॒रिति॒ यजूꣳ॑षि ।
(२) । म॒ह इति॒ ब्रह्म॑ । ब्रह्म॑णा वाव सर्वे॑ वे॒दा म॒हीय॑न्ते, इति ।
वेदत्रयगता मन्त्रविशेषा ऋगादयः । ब्रह्म त्वोंकारस्तेन हि सर्वे वेदाः पूज्यन्ते
वेदोच्चारणस्य प्रणवपूर्वकत्वात् ।
अथ प्राणदृष्टिं विधत्ते—
भूरिति॑ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः ।
म॒ह इत्यन्न॑म् । अन्ने॑न वाव सर्वे॑ प्रा॒णा म॒हीय॑न्ते, इति ।
अन्नेन हि भुक्तेन प्राणास्तृप्यन्ति ।
यथोक्तलोकादिदृष्टिभिरुक्ता व्याहृतीरुपसंहरति—
ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । च॒तस्र॑श्चतस्रो॒ व्याहृ॑तयः, इति ।
या भूरित्यादिव्याहृतयस्ता एताश्चतस्रो व्याहृतयो लोकदेववेदप्राणदृष्टिभिश्चतुर्धा
भिद्यन्ते । तथा सति भूरित्येका व्याहृतिः पृथिव्यग्न्यृग्वेदः प्राण इत्येवं चतुर्विधा ।
तश्चतस्रो व्याहृतयो भवन्ति । एवं भुव इत्यादि¹ष्वपि प्रत्येकं चतुष्ट्वे सति षोडश
पद्यन्ते । तासां सर्वांसामपि संग्रहाय चतस्रश्चतस्र इति वीप्सा ।
तासां व्याहृतीनामुपासनं विधत्ते—
ता यो वेद॑ । स वेद॒ ब्रह्म॑ । सर्वे॑ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ( ३ ), इति ।
असौ लो॒को यजूꣳ॑षि वे॒द द्वे च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
ताः पृथिव्यादिदृष्टिभिर्युक्ता व्याहृतीर्यो वेदोपास्ते तस्मा उपासकाय सर्वे देवा
इन्द्रादयो बलिं पूजामावहन्ति संपा