सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 503, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 503

भ्यासस्य देशविशेषः श्रूयत इति चेत्सत्यम् । इष्टसौकर्यार्थं तदिति वाक्यशेषे मनोऽनुकू-
लत्वविशेषणान्निन्श्चीयते । तस्मान्नास्ति दिगादिनियमः ।
अत्रोपास्यवस्तुस्वरूपस्येयत्तां निश्चेतुमिदमपरं चिन्तनीयम् । ऐतरेयोपनिषद्यपि
संहितोपासना काचिदेवाम्नायते—“अथातः संहिताया उपनिषत् । पृथिवी पूर्वरूपम् ।
द्यौरुत्तररूपम् ” इत्यादिः । अस्यामैतरेयशाखायां तैत्तिरीयशाखायां चाऽऽम्नाता
येयमुपासना सा किमेका भिन्ना वेत्येको विचारः । उपासनैक्यपक्षेऽपि शाखाद्वये पर-
स्परं गुणोपसंहार सद्भावासद्भावविषयो द्वितीयो विचारः । तत्र पञ्चाग्निविद्याप्राणविद्यान्या-
येनोपासनैक्यं भवितुमर्हति ।
स च न्यायस्तृतीयाध्यायस्य तृतीयपादे + सम्यगभिहितः—
“ सर्ववेदेष्वनेकत्वमुपास्तेरथ वैकता ।
अनेकत्वं कौथुमादिने¹धर्मविभेदतः ॥
विधिरूपफलैकत्वादैकत्वं नाम न श्रुतम् ।
शिरोव्रताख्यधर्मस्तु स्वाध्याये स्यान्न वेदने ॥
छान्दोग्यबृहदारण्यकयोः पञ्चाग्न्युपासनमाम्नायते तदेकं न भवति नामभेदात्।
कौथुममिति च्छान्दोग्यगतस्य नाम । वाजसनेयकमिति बृहदारण्यक³गतस्य नाम ।
तथोपासनान्तरेषु योजयितव्यम् । धर्मभेदोऽप्युपासनाभेदगमकः शिरोव्रतलक्षणो मुण्डक-
शाखायां श्रूयते—“ तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ” इति ।
शिरोव्रतं नाम वेदव्रतविशेष आथर्वणिकान्प्रति विहितो नेतरान्प्रति । तस्माच्छाखाभेदा-
दुपासनाभेद इति प्राप्ते ब्रूमः — शाखाभेदेऽपि विध्यभेदादुपासनं न भिद्यते । तथाहि
च्छान्दोग्ये—“यो ह वै ज्येष्ठं च श्रेष्ठं च वेद” इति। यादृशः प्राणविद्याविधिस्तादृश एव
बृहदारण्यकेऽप्याम्नायते । तथा द्युपर्जन्यपृथिवीपुरुषयोषिदाख्यमग्निपञ्चकं वेद्यतया पञ्चा-
ग्निविद्यायां यत्स्वरूपं तदुभयोरपि शाखयोः समानम् । फलं च “ ज्येष्ठश्च ह वै श्रेष्ठश्च
भवति ” इत्येवंरूपं प्राणोपास्तिजन्यं शाखाद्वयेऽप्येकविधम् । यस्तु कौथुमादिनामभेद
उदाहृतो नासौ श्रुत्याऽभिहितः । किं तर्ह्यध्येतार एव केवलं तत्तच्छाखाप्रवर्तकमुनि-
नाम्ना तं तं वेदं व्याहरन्ति । योऽपि शिरोव्रताख्यधर्मभेद उक्तः सोऽप्यध्ययनविषय एव
नोपास्तिविषयः । नैतदचीर्णव्रतोऽधीत इत्यध्ययनधर्मत्वावगमात् । तस्मादैक्यहेतुसद्भावा-
द्भेदहेत्वभावाच्च न शाखाभेदादुपासनं भिद्यते ” ।
अनेनैव न्यायेन संहितोपासनाया अप्यैक्यं द्रष्टव्यम्—य एवमेतां संहितां वेदेति ।

  • सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । अ० ३ पा० ३ अ० १ सू० १ ।
    १ ग. ॰नानाध॑ । २ ख. ॰ण्यस्य । ३ क. ङ. ॰कस्य ।